सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 166, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 166

१८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदः । १४७
सुमसारिवामधुकचन्दनैः क्षीरसिद्धं घृतं नेत्रयोस्तर्पणं नस्यं च सम्यग्दद्यात् ।
अयस्ताम्ररजतकनकमधुकस्फटिकतरुणोदुम्बरकतकामलकमधुसर्पिर्भिरञ्जयेत् ।
पयसा च परिषेकः । इति ॥
तत्र श्लोकः—
योगमानेन यः कुर्यात्परिषेकाञ्जनादिकम् ।
नस्याञ्जनक्रियां वैद्यः स श्रो(स्रो)तोऽन्धं निवर्तयेत् ॥
इति श्रो(स्रो)तोन्धः ॥
स्निग्धमधुरगुरुशिशिरगुडदधितिलपललमत्स्यमांसभोजनादव्यायामाच्च कफः
प्रवृद्धिमाप्नोति ॥
स नेत्रयोरापन्नः पिटिकाभिरावृणोति वर्त्मनी जलबुद्बुदाकाराभिः, तं
'बुद्बुदी' इत्याचक्ष्महे विकारम् ॥
तस्य भेषज्यम्—प्रावारक्युक्तेन विधानेन यन्त्रयित्वा तथैव विडिशेन^१ नेत्रं
विवर्त्य मार्कवरसेन बुद्बुदमाश्वोत्याभीक्ष्णशः शस्त्रेण च्छेदयेत् । ततः प्रपौण्डरीक-
मधुकचन्दनोशीरशीतशिवागुरुकालानुसार्या^२सुनिषण्णकैर्वा^३ पक्वं घृतं नस्यं दद्या-
त् । तर्पणं च नेत्रयोः समुद्रफेनशङ्खनाभिशर्कराभिर्मनःशिलायुक्ताभिरञ्जयेत् ।
तत्र श्लोकः—
इत्येष बुद्बुदी नाम य एनं साधयेद्भिषक् ।
शास्त्रोद्दिष्टेन विधिना स भवेत्साधुपूजितः ॥
इति बुद्बुदी ॥
अथ यदाऽत्यर्थं रूक्षाहारो जाङ्गलयवसोपसेवी, उष्णेऽध्वानमभिप्रपद्यते ।
तदाऽस्य वायुरूध्वंगतः श्लेष्मपित्तशोणितान्यादायाक्ष्णोर्वेदनामत्यर्थं करोति ॥
न च यवसमभिलषति, तम् 'अक्षिपाकम्' इत्याहुः । तद्यदि शोणितं पूयं
वा श्र(स्र)वति, तस्य तदा सिद्धिर्न विद्यते । विपर्यये तु शुद्धजलश्रावी(स्रावि)
साध्यम् ॥
अथास्य निवातस्थस्य क्रियारम्भः कर्तव्यः । ततोऽस्य मञ्जिष्ठां विश्वभे-
षजं रोहिणीं च पिष्ट्वा तैलं विपाच्यते । तेन तैलेन नस्यकर्म कुर्यात् । तस्य
पिप्पलीसैन्धवश्यामाककुलत्थहरेणुकेलारोध्रागरुचन्दनानि समभागानि प्रप्रसा
संयोज्य सर्पिः पाचयेत् । तेनास्य तर्पणं नस्यकर्म च कुर्यात् । तस्य पिप्प-
लीसैन्धवश्यामाककुलत्थादीनि समभागानि पिष्ट्वा मधुसर्पिषा युक्तमेतद्दद्याद-
ञ्जनम् ॥
१ क. विडिशैर्नेत्रं । २ क. ॰नुकार्या॰ । ३ क. ॰कैश्चाप॰ ।