हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 165, कुल 742 में से
संदर्भ में पढ़ें१४६ पालकव्यमुनिविरचितो— [ १ महारोगस्थाने—
ष्माणं व्रणीभूतं द्विव्रणीयवदुपाचरेत् । नेत्रयोश्चास्य पटलचिकित्सा कार्या ।
अथ विशुद्धनयनमुपरूढव्रणं चैनमुपसेचयेत् । नस्यं देयं चास्य पञ्चमूलद्वपनि-
ष्क्वाथेन मधुरगणविपक्वेन सर्पिर्मण्डेन । भोजयेच्चैनं मृगवराहकुकुटमहिषमांसर-
ससंयुक्तं शाल्योदनमाव्याधिप्रमोक्षात् । अथ वैद्यो द्विरदं प्रसन्नत्वग्रोमनयनं
समुपरूढव्रणं दर्शयेन्नरेन्द्राय, इति ॥
तत्र श्लोकः—
विद्युद्वारिहतं नाम पित्तानिलसमुद्भवम् ।
साधयेन्नेत्ररोगं यः पूज्यः स्यात्स भिषग्वरः ॥
इति विद्युद्वारिहतः ॥
पथि तप्तपांशुवालुकोपलवति बलवदूष्मपरिगतसर्वशरीरस्य वार्यलभमा-
नस्य स्वेदोऽन्तर्गतो नेत्रावरोधी भवति। तमावृतदृष्टिमसाध्यम् 'ऊष्मापरिग-
तम्' इत्याचक्ष्महे ॥
तत्र श्लोकः—
ऊष्मापरिगताविष्टमक्षि नागस्य दूषितम् ।
तद्दृष्ट्वा वर्जयेद्वैद्योऽसाध्यमित्येव शास्त्रवित् ॥
इत्यूष्मापरिगतः ॥
तीक्ष्णोष्णान्ललवणक्षारकषायकटुकविषमविरुद्धभोजनाच्च वातपित्ते प्रकु-
पिते हस्तिनस्तस्य शिराभिरूर्ध्वमागत्याक्षि क्लेदयतः, तत् 'वर्त्मक्लिष्टम् ॥
तस्य विज्ञानं श्रवणपाको दृषिकोट्क्रमश्च भवति वर्त्मनः ॥
तस्य साधनमुपदेक्ष्यामः—काश्मर्योशीररोधकशर्कराद्राक्षादारुहरिद्राभि-
रञ्जनम् । पयसा वाऽऽश्चोतनम् । त्रिफलां च मधुसंयुक्तामञ्जनं कुर्यात् । भेष-
ज्यविधिरस्य व्याख्यातः ॥
तत्र श्लोकः—
अनया क्रियया युक्तं वर्त्मक्लिष्टं यथाविधि ।
साधयंन्सिद्धिमाप्नोति कर्मसूत्रविशारदः ॥
इति वर्त्मक्लिष्टम् ॥
मधुराम्ललवणभोजनाच्छ्रो(त्स्रो)तसा कफपित्तसंभवेन पवनोत्पीडितेनानि-
मिषतोऽधिकं छाद्यते दृष्टिः ॥
पकं चाश्रु(स्रु)प्रश्र(स्र)वति तं 'श्रो(स्रो)तोन्धम्' इत्याचक्ष्महे ॥
चिकित्साऽप्यस्य—न्यग्रोधोदुम्बराश्वत्थपुक्षमेषशृङ्गीकुमुदनलिनोत्पलाशकु-
१ क. ॰सङ्गत्व॰ । २ क. ॰साड्वश्रो॰ ।