सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 164, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 164

लकुवलानामन्यतमेनोद्धृष्य सुप्रक्षालितशिरसं व्यपगतोष्माणमानयेत्स्थानम्,
मतिच्छादयेच्च कवलैरिति । अत्र श्लोकः—
अवेक्षितव्या द्विरदाः सततं परिकर्मिभिः ॥
बन्धुस्नेहेन संयुक्तैर्हृदयैः क्लमवर्जितैः ॥
तत्र केचिदभितप्तमज्ञानत्वराभ्यां द्विरदमवगाहयन्ति सलिलम् । ततोऽस्य
स्वेदनिरोधात्सलिलपानादूष्मणश्चाप्रमोक्षाद्धर्मपरिगतदेहत्वाद निलः प्रकुप्यति ।
अथ पवनकोपाच्छेषदोषप्रकोपः । तत्राज्ञेयत्वात्पित्तरक्तमादायानिल ऊर्ध्वमा-
गत्य शिरः संतापयति । तत्संतापादश्रुगमनमवगूहनं च नेत्रयोर्भवति । कटव-
दनकर्णकरगुहाभागपाकः, तस्य सुकुमारप्रदेशपाकश्च स्यात् । प्रस्तब्धकरक-
र्णप्रतिमानः पर्यश्रुरत्यर्थं भवति । तस्य यदा नेत्रयोः पटलमुत्थितं बहलमन-
ल्पपरिदोषमश्रु विगतोष्म च भवति, (*तदसाध्यं विद्यात् । विपर्यये साध्यम् ।
अथ प्रदेशानामस्यैकरात्रं द्विरात्रं त्रिरात्रं वा शूनभावः स्तम्भश्च भवति) तृती-
यचतुर्थयोरह्नोः स्फोटोद्गमस्त्वग्भेदश्च भवति ॥
अत ऊर्ध्वं तत्र च साध्यमुपाचरेत्, सात्म्यसत्त्वदेशकालवयःप्रकृतिविधिज्ञो
वैद्य एभिरुपक्रमैः—तं निवातमगारं प्रवेश्य दधिमस्तुसौवीरकमृदितेन सर्पि-
षाऽभ्यज्य ततः पर्युषितजलपूर्णांश्चन्दनोशीरसारिवाकिंजल्कसंयुक्ताञ्शिरसि
घटान्श्रोतयेत् । पद्मकरोध्रमधुकमृद्वीकोशीरशर्करामञ्जिष्ठाचन्दनसारिवाप्रपौ-
ण्डरीकह्लीवेरतगरपत्रामलकविभीतहरीतकीसितकार्णिकानां शीतकषायपरि-
षिक्त नयनं प्राक्सूर्योदयाज्जलमवगाहयेत् । तत्र चैनमनुवृत्तं यथाकालं सुखम-
वस्थाप्य पुनरुत्तार्य बहिरक्ष्णोस्तिलकरवीरामलकचन्दनकशेरुकबिसमृणालो-
त्पलसारिवामधुकनलवञ्जुलकुमुदकह्लारतामरसमञ्जिष्ठाप्रपौण्डरीकह्लीवेरतगर-
पत्रैलालोध्रोशीरमांसीक्षीरीणां त्वग्भिः क्षीरपिष्टाभिरालिप्तनयनं पूर्वोक्तेन सर्पि-
षाऽभ्यज्य प्रच्छन्ननयनमवस्थापयेत् । १प्रदापयेच्चास्मै भव्यपारावतमृद्वीकापन-
सदाडिमामलकसकुचपरूषकपीलुपियालबदरराजादनसंयुक्तं शक्तुमन्थं सशर्करं
यानि चान्यानि शीतानि तेषां त्वग्रसैः कसेरुकोत्पलबिसमृणालेक्षुवालिकाः
सर्वं च यवसमौदकं मत्स्यण्डिकागर्भमाहारयेत् । तैश्च प्रदेहः । अथवा—वेत-
सार्जुनकदम्बोशीरराजकर्णक्षीरवृक्षतिलकरवीरोत्पलपद्मकल्कैः सघृतः प्रदेहः ।
अथ विगतोष्मणः सर्पिषा मधुना चाञ्जनं कार्यम् । अजाक्षीरेण शणबीर्जमधु-
सर्पिर्युक्तेन पूर्वोक्तैश्चौषधैः सृ(शृ)तशीतैः परिषेकः सदा भवेत् । तत्र दृष्टि विगतो-


  • धनुराकारमध्यस्थः पाठः कपुस्तके न ॥
    १ क. °सं विग° । २ क. °मश्रु सौ° । ३ क. °षेकयेत् ।