सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 163, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 163

१४४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
तस्य सिताजकर्णप्रपौण्डरीकमधुककालानुसार्यारोहैः क्षीरेणाऽऽजेन संयो-
ज्यावश्चोतनम् । हतोष्मणश्चास्य मधुसैन्धवसंयुक्तेन नवनीतेनाञ्जनमिति समानं
पूर्वेण । पयसश्च परिषेकः । गोजशकृत्काण्डशः कल्पितं पालाशपत्रपरिवेष्टितं
वह्निसिद्धमञ्जनं कुर्यात् । वटप्ररोहचन्दनदेवदारुहरिद्राप्रपौण्डरीकसारिवारोहि-
णीकालानुसार्योशीरपिष्टैर्मधुसंयुक्तैरञ्जयेत् । रसाञ्जनतरुणौदुम्बरमधुकसितक-
र्णकैः पिष्टैः क्षौद्रघृतसमन्वितैरञ्जयेन्निष्पेषहतम् ॥
तत्र श्लोकः—
निष्पेषहतमित्याहुर्वारणं तु चिकित्सकाः ।
यथोक्तसाधुकारी च सिद्धकर्मा सुपूजितः ॥
इति निष्पेषहतरोगः ॥
अशनेः संनिपातनिरीक्षणाद्द्विपस्य व्यापद्यते दृष्टिः । मांसपेशी च निष्ठ-
ब्धता च भवति तं प्रत्याख्येयं 'विद्युन्निपातहतम्' इत्याचक्ष्महे ॥
तत्र श्लोकः—
विद्युन्निपाततश्चक्षुर्हतं यस्य तु हस्तिनः ।
असाध्यमिति तं विद्याद्दृष्ट्वा च परिवर्जयेत् ॥
इति विद्युन्निपातहतः ॥
अथाङ्गपतिरवेक्ष्य द्विरदानश्रुपरीगतलोचनान्पक्ककटकर्णकपोलौष्ठप्रतिमान्भ-
गवन्तमुवाच पालकाप्यम् — 'भगवन्को नामायं व्याधिः, किमात्मकः, कथं
चोत्पद्यते, किं वाऽस्य लक्षणं चिकित्सितम्' इति ॥
अथ ऋषिरुवाच — 'राजन्विद्युद्दारिहतो नामैष व्याधिर्वातपित्तात्मकः शीता-
भितापप्रभवः परिकर्मापचारात्समुद्भवति । तस्याभितापसंस्थानघर्माध्वगमनभा-
रवहनामितपनमुष्णे चातिकर्मप्रयोगात्, गजसंनिपाताच्च स्नेहावसिक्तस्य घर्मा-
वस्थापनमतिकर्मप्रयोगशारदस्येति ॥
तत्रैवमादिभिस्तप्तो गजः क्षाम्यति, करवदनाभ्यां वमथुमुत्सृजति, परिवी-
जते दंशमशकावृत इव व्यक्तश्रवणकरलाङ्गूलैः ॥
तथाविधमवेक्ष्य द्विरदं वैद्यस्थानस्थं पक्ष्यापक्ष(?)मुभयतो लब्ध्वाऽलानम-
नुवर्तयेत् । अथैनं विगतवमथुकममवेक्ष्योत्थाप्य शिशिरपङ्कजवालुकापांशुभिरव-
कीर्य प्रकामं जलकुवलकर्दमहरणेपूत्सृजेत्, हरितं च तृणमुपाहरेत् । अथैनं
विगतश्रममवेक्ष्य सलिलमवगाहयेत् । तत्र चैनमनुवृत्तं तृणकूर्चान्दुक्ककाष्ठकव-
१ क. क्षीरेणाऽऽज्येन । २ क. ॰क्तमधु॰ । ३ क. ॰र्धिवर्तते पि॰ । ४ ख.
पक्ष्मयक्ष्म मु॰ । ५ क. ॰त्थाय शि॰ । ६ क. ॰णवर्मोन्दुक॰ ।