हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 162, कुल 742 में से
संदर्भ में पढ़ें१८ नेत्ररोगाध्यायः.] हस्त्यायुर्वेदः । १४३
तस्य लक्षणम्—कलुषपर्यश्रु रक्ततारकं परिग्लानन्तं गुरुप्रेक्ष्यं नयनं भवति ।
भिन्ने प्रथमे पटले नयनपरितोषः, ततः श्वा(स्रा)वः, श्यावता गुरुत्वमुष्णता
च भवति । द्वितीयस्य चानुपटलस्य भेदे पिच्छिलफेनोदकवर्णपरिश्रा(स्रा)वः ।
तृतीये सवेदनं पीतारुणत्वं च । चतुर्थे पटलेऽत्यन्तवेदना रुधिरश्रा(स्रा)वो
नयनविनाशश्च भवति ।
तत्र श्लोकाः—
प्रथमे नेत्रयो राजन्सरागं तीक्ष्णवेदनम् ।
सम्यक्प्रच्छाद्य दृष्टिं वा भूयश्चास्य प्रवर्तयेत् ॥ )
सर्वत्र च परीदाहः श्वयथुः संनिमीलनम् ।
वेदना दृष्टिनाशश्च परिभावश्च लक्ष्यते ॥
द्वितीये पटले भिन्ने कृच्छ्रसाध्यं विनिर्दिशेत् ।
तृतीये पटले भिन्ने याप्यमत्र विनिर्दिशेत् ॥
चतुर्थे पटले भिन्ने असाध्यं संप्रचक्षते ।
सव्रणं शुक्लमूत्पन्नमसाध्यं तु प्रकीर्तितम् ॥
सर्वत्र चिकित्सितम्—अस्य शलाकया विवृत्य नयनं मधुसर्पिभ्यां पूरयेत्,
बहुशः क्षीरवृक्षाणां त्वग्भिर्जर्जरीकृताभिर्निशि पर्युषिताभिर्नवं कलसं प्रपूर्य
तस्मिन्कलसे क्षीरमासिच्य द्वितीयेऽह्नि मथ्नीयात् । निष्पन्नं नवनीतमुद्धृत्य
तच्छतधौतं कृत्वाऽनेन मधुयुक्तेनाभ्यञ्जयेत् । अक्षिपरिषेकश्चास्याजाक्षीरशर्क-
रोदकैः शीतैः प्रपौण्डरीकमधुकपद्मकरोध्रोशीरमञ्जिष्ठाभिश्चान्तरिक्षोदकपर्युषि-
ताभिः परिषेचयेत् । कुशमूलामलकातलमञ्जिष्ठोशीरकल्केर्बहिरालेपयेत् ।
आजेन पयसा भद्रदारुमुस्ताप्रपौण्डरीकमधुकैर्घृतं सिद्धं तर्पणं नस्यं च दद्यात् ।
तरुणोडुम्बरमधुकदेवदारुमञ्जिष्ठाचन्दनकालानुसार्याकल्कैर्मधुसंयुक्तैरञ्जनम् ।
अथ शुक्रता बिन्दुुर्वा स्यात्, पाष्ट्रमधुघृतसैन्धवैर्लेखनं शस्त्रेण वा ॥
तत्र श्लोकः—
प्रतिनुन्नमिमं व्याधिमागन्तुं नेत्रसंभवम् ।
साधयेत्कुशलो यः स पूजामर्हति पार्थिवात् ॥
इति प्रतिनुन्नो नाम नेत्ररोगः ॥
करकर्णवितततरुतटविहतमक्षिनिष्पेषहतमित्याचक्षते ॥
तस्य निदानम्—उष्णाश्रुश्रा(स्रा)वः, श्वयथुर्वेदना दाहो गुरुत्वं रक्तता
संनिमीलनं चाक्ष्णोः ॥
१ क. °क्षीरे श° । २ क. अनेन ।