हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 112, कुल 742 में से
संदर्भ में पढ़ें१३ मूर्च्छाध्यायः ] हस्त्यायुर्वेदः । ९३
तद्यथा—अ(ति)भोजनात्, (अति)विदग्धभोजनात्, आमधान्योपयोगात्,
स्नेहात्, वातात्, पित्तात्, कफात्, संनिपातात्, उदकात्, मार्गगमनात्,
मद्यात्, यवसाच्चेति ।
तत्र—अतिभोजनात्कृशस्य सहसा हस्तिनो मूर्छा भवति । ततो निस्त-
ब्धाक्षोऽवसीदति स्तम्भमाश्रयति निःश्वसिति कण्ठेन तिनिति (?) नापते न
शक्नोति स्थातुं कुतो गन्तुम् । निषीदत्यपराभ्याम् । तस्यैतैर्लिङ्गैरतिभोजनस-
मुत्थां मूर्छां विद्यात् ॥
तं पिप्पलीमरिचचव्याजमोदपिप्पलीमूलविश्वभेषजविडङ्गतेजोवतीपाठाकुटज-
चित्रकसूक्ष्मसर्षपपाटलीलशुनवचाहिङ्गुसौवर्चलानां गोमूत्रे कथितानां क्वाथं
पादावशेषमवतार्य सुखोष्णं पाययेत् । प्रतिपानं च सलवणां सुरां विशुद्धको-
ष्ठाय दापयेत् । ततः संपद्यते सुखी ।
इत्यातिभोजनमूर्च्छा ।
अथ विदग्धभोजनोत्पन्नायां मूर्च्छायां—निपतति, उत्पतति, परिधावति,
परिवर्तते, प्रवेपते, भूमौ चक्रवद्भ्रमति ।
तस्मै मरिचशृङ्गवेराटरूषकबिल्वारग्वधदन्तीगण्डीरपिप्पलीभिर्गोमयं संयु-
क्ताभिः कवलान्दद्यात् । प्रसन्नां च पञ्चलवणसंयुक्तां प्रतिपानं दद्यात् ।
इति विदग्धभोजनमूर्च्छा ।
रसं मद्यं वा पीत्वा स यदा धान्यमाममत्यर्थं भक्षयेत् । ततोऽस्य मूर्छा
जायते ।
स तया भूमौ चक्रवत्परिवर्तते, निःश्वसिति, आटोपितश्च व्याददाति मुहुर्मु-
हुर्मुखं स्वं निरीक्षत उत्फुल्लपर्यश्रुनयनः ।
तमेवमवस्थं दन्तिनमवेक्ष्य यवभस्मपरिस्रुतामर्धसौवीरकां ससर्पिष्कां सस्व-
र्जिकां पञ्चलवणसंयुक्तां प्रसन्नां पाययेत् । हिङ्गुकुटजपाठाटरूषककटुरोहिणी
द्वे हरिद्रे तेजोवतीवचाविडङ्गरसाशिग्रुतिन्दुकमूलबिल्वम