हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 111, कुल 742 में से
संदर्भ में पढ़ें९२ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
भक्षितं चास्य पीतं च न गच्छति जरां तथा ॥
वायुस्तस्य विमार्गस्थो हृदयं परिधावति ॥ १६५ ॥
एवं निरुद्धहृदयो न स जीवति तादृशः ॥
सर्वानाहेषु तैलेन सर्वसेकं प्रदापयेत् ॥
अजीर्णजं वर्जयित्वा रूक्षसेकं प्रदापयेत् ॥ १६६ ॥
तत्र श्लोकाः—
ग्रासाप्रकाङ्क्षा गुरुगात्रता च स्तम्भस्तथा मूत्रपुरीषयोश्च ॥
द्वेषश्च *कल्पाभिनवावगाह( हे ) भवन्त्यजीर्णस्य तु लक्षणानि ॥ १६७ ॥
( †शुद्धं शकृन्मूत्रमनाविलं च ग्रासप्रकाङ्क्षाऽगुरुगात्रता च ॥
प्रीतिश्च शय्याभिनयेऽवगाहे भवन्ति जीर्णस्य तु लक्षणानि ॥ १६८ ॥ )
यत्कृष्णवर्णं त्वथ फेनिलं च दुर्गन्धमम्लं बहुदोषयुक्तम् ॥
द्रवं सशूलं च सरं पुरीषं विभिन्नमल्पं च भवेदपक्वम् ॥ १६९ ॥
तथा भवेच्छ्लेष्मविवर्जितं यत्स्निग्धं सवर्णं यवसेन चैव ॥
सपाण्डुवर्णं घनमद्रवं च तत्पक्वलिङ्गं शकृदुद्दिशन्ति ॥ १७० ॥
अत्र द्वौ न खलु चिकित्सितुं हि शक्या-
वानाहौ नृपवर सक्तसंनिपातौ ॥
षण्णां तु प्रतिपदमीरिता चिकित्सा
शास्त्रोक्ते विधिमनुसृत्य विस्तरेण ॥ १७१ ॥ ९१७ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थान आनाहा-
ध्यायस्त्रयोदशः ( यो द्वादशः ) ॥ १२ ॥
अथ त्रयोदशोऽध्यायः ।
अथ भगवन्तममिततपसममलद्युतिमाश्रमस्थमिन्दुकान्तिसदृशवपुषं पाल-
काप्यं पादयोरुपसंगृह्य रोमपादोऽपृच्छत्—'कथमेषां महाबलजववीर्यसत्त्वानां
परबलप्रमाथिनां हस्तिनां मूर्छाः संभवन्ति' ॥
अथोवाच भगवान्पालकाप्यः—इह खलु भो द्वादश मूर्छाः संभवन्ति ।
- ‘तल्पाभिनयेऽवगाहे’ इति, ‘तल्पेऽभिनवावगाहे’ इति वा पाठः स्यात् ।
† कपुस्तके त्रुटितम् ॥
१ क. सर्वमेवं । २ क. अजीर्णं वर्जयित्वा तु रू० । ३ क. ख. श्लोकः । ४ ग.
विच्छिन्नं । ५ क. ख. ॰नुश्रित्य ।