सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 110, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 110

१२ आनाहाध्यायः ] हस्त्यायुर्वेदः । ९१
प्रसन्नया वा संसृज्य पञ्चभिर्लवणैः सह ॥
तथैव प्रतिनीताय कवलान्संप्रदापयेत् ॥ १५१ ॥
आध्मायमानं वातेन मृदा धान्येन वा पुनः ॥
साधयेत्सर्वमेतेन भवेद्योऽत्याशितो गजः ॥ १५२ ॥
क्षीरेण यवनालानां सर्पिपान्मति पाचयेत् ॥
तान्पिप्पलीभिः संसृष्टान्सामुद्रलवणेन च ॥ १५३ ॥
शृङ्गवेरकरञ्जानि तत्रैकध्यं समापयेत् ॥
खरमूत्रेण संसृष्टमश्वमूत्रेण वा पुनः ॥ १५४ ॥
तं मूर्च्छयित्वा क्षारेण मुरुण्ड्या वा प्रसन्नया ॥
सौवीरकेण संसृज्य गवां मूत्रेण वा पुनः ॥ १५५ ॥
दधिमण्डेन वा युक्तं बस्तिमस्मै प्रदापयेत् ॥
यथा द्रोणप्रमाणेन निरूहं दापयेद्भिषक् ॥ १५६ ॥
स तेन मृत्तिकाजग्धं सपुरीषं निरूहति ॥ १
ये च कोष्ठगतो वातास्तेभ्यश्च परिमुच्यते ॥ १५७ ॥ २
तैलेन सेचयेच्चास्य सर्वगात्राणि हस्तिनः ॥
उष्णोदकं च पानार्थं परिषेकाय दापयेत् ॥ १५८ ॥
विज्ञाय विगतानाहं विशुद्धशकृतं गजम् ॥
अकर्दमे जले चैनमवगाह्य प्रमार्जयेत् ॥ १५९ ॥
प्रत्युद्धृतं स्थानगतं निवृत्तं वारणं ततः ॥
प्रसन्नां पाययेज्जातां पञ्चभिर्लवणैः सह ॥ १६० ॥
वातानाम(मा)नुलोमा(म्या)र्थं ग्रहणीदीपनाय च ॥
अथास्मै दापयेद्भक्तंमानुपूर्वे(र्व्ये)ण हस्तिने ॥ १६१ ॥
एतया क्रियया नागस्तथा संपद्यते सुखी ॥
इति मृत्तिकाजग्धे आनाहः ॥
आनाहः संनिपाताच अत ऊर्ध्वं प्रवक्ष्यते ॥ १६२ ॥
अतिमात्रं तु भुक्तेन भोज्येन यवसेन च ॥
स्नेहेन चातिमात्रेण तथा मृत्तिकयाऽपि वा ॥ १६३ ॥
आनाह्यमानः स्तनति मृदङ्ग इव ताडितः ॥
न च वातानुलोमित्वं तथा प्राप्नोति वारणः ॥ १६४ ॥
१ क. ॰त्तिकां ज॰। क. ॰त्तिकां जग्धसपुरीषां नि॰। २ ग. ॰तास्तेभ्यस्ते॰।
३ क. ॰क्त आनु॰ । ४ क. ख. ॰न्धश्चाऽऽना॰ । ५ क. प्रवक्षते । ग. प्रचक्ष्यते ।