सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 109, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 109

९० पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
मृत्तिका भक्षिता राजनर्भवेदामाशयस्थितः (ता) ॥
तस्यामपरिजीर्णायामन्नमश्नाति वारणः ॥ १३७ ॥
विधा वा यदि वा भुक्त्वा ह्यामाशयगता भवेत् ॥
अजीर्णायां तु तस्यां च यदि खादति मृत्तिकाम् ॥ १३८ ॥
विकारी तेन भवति तथा भुक्तेन वारणः ॥
कोष्ठप्रदोषो भवति पुरीषं चास्य भिद्यते ॥ १३९ ॥
तेन चाऽऽनह्यते नागस्तथा स्तम्भश्च जायते ॥
आमं च तस्य पक्वं च भुक्तमन्नं न पच्यते ॥ १४० ॥
तं नागं दिवसं सर्वं ग्रासेन परिवर्जयेत् ॥
पानीयं पाययेत्तप्तमवगाहं न लम्भयेत् ॥ १४१ ॥
हस्तेऽस्य बन्धयेच्छुङ्कुं शय्याभागं च कारयेत् ॥
हस्तिलिण्डेन शुष्केण तन्मूत्रेणावसेचयेत् ॥ १४२ ॥
अथ तिक्तौषधैर्भूयो मृत्तिकामभिसंसृजेत् ॥
ततोऽस्मै खादितुं दद्यान्मृत्तिकाया निरूहणे ॥ १४३ ॥
शाकंवल्लीं गडूचीं च सुमनामाटरूषकम् ॥
आस्फोतां लशुनं चापि पटोलं चात्र दापयेत् ॥ १४४ ॥
फणिज्जकं च शैरेयं द्वौ करञ्जौ तथैव च ॥
दद्यात्तथा वल्गुजकां शोभाञ्जनकमेव च ॥ १४५ ॥
उलूखले क्षोदपित्वा शुद्धे निक्षिप्य भाजने ॥
गोमयेनाथ संसृज्य कवलानस्य दापयेत् ॥ १४६ ॥
तेनास्य दौर्हृदोपैति न च खादति मृत्तिकाम् ॥
अथास्मै कवलान्दद्यान्मृत्तिकाया निरूहणे ॥ १४७ ॥
हरिद्रे त्रिफलां पाठां तथा मधुरसामपि ॥
करञ्जबीजं तेजोह्वां शृङ्गवेरं च हिङ्गु च ॥ १४८ ॥
पटोलीं च विशेषेण निम्बं कटुकमत्स्यकान् ॥
कोलानिशाविडङ्गानि तथैवेन्द्रयवानपि ॥ १४९ ॥
पिप्पलीं पिप्पलीमूलं मरिचं चित्रकं तथा ॥
उलूखले क्षोदपित्वा हस्तिमूत्रेण संसृजेत् ॥ १५० ॥
१ क. विधो । २ क. हस्तस्य । ३ क. कल्पयेत् । ४ ग. ॰लिङ्गेन । ५ क. निरूपणे । ६ क. कैला० ।