हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 108, कुल 742 में से
संदर्भ में पढ़ेंतेन प्रदुष्टधान्यं तु सपुरीषं निरूहति ॥
यश्च कोष्ठगतो वायुस्तस्माच्च परिमुच्यते ॥ १२३ ॥
पिप्पलीं मरिचं हिङ्गु शृङ्गवेरं फेणिज्जकम् ॥
गण्डीरं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥ १२४ ॥
तगरं चैव कुष्ठं च दाडिमद्वयमेव च ॥
कृष्णकांशुमतीं तेजोह्वां तिन्तिडिकां तथा ॥ १२५ ॥
पथ्याजां स्निग्धकोष्ठं च चित्रतन्दुलमेव च ॥
सुरसान्तरेवक्रं च चन्द्रपादी तथैव च ॥ १२६ ॥
उलूखले क्षोदयित्वा शुद्धे निक्षिप्य भाजने ॥
आलोड्य चूर्णमेतत्तु लवणैरष्टभिस्तथा ॥ १२७ ॥
नागाय दापयेद्वैद्यः शूलानाहप्रशान्तये ॥
विज्ञाय विगतानाहं विशुद्धशकृतं गजम् ॥ १२८ ॥
प्रसन्नां पाययेज्जातां पञ्चभिर्लवणैः सह ॥
भोजनं तु क्रमात्तस्मै शुद्धानाहविधौ यथा ॥ १२९ ॥
अनेन क्रमयोगेन नागः संपद्यते सुखी ॥
इति संप्रदुष्ट आनाहः ॥
अथातो मृत्तिकाजगन्धस्थानाहः संप्रवक्ष्यते ॥ १३० ॥
पूर्वमेवाभिवृष्टायां गन्धमाघ्राय वारणः ॥
पृथिव्या दौहृदीभूतो भुक्त्वा तामतिमात्रतः ॥ १३१ ॥
विकारी जायते नागस्तस्य वक्ष्यामि लक्षणम् ॥
पुरीषभेद(ः)स्तम्भश्च तथाऽऽध्मानं च दारुणम् ॥ १३२ ॥
यवसं नाभिलषति ग्राह्यमाणं पुनः पुनः ॥
अन्नं चापि तथा विद्यान्मृत्तिकाद(ज)न्धसेवितम् ॥ १३३ ॥
मृत्तिका भक्षिता येन भवेत्पक्वाशयं गता ॥
तस्यामपरिजीर्णायामन्नमश्नाति वारणः ॥ १३४ ॥
ओदनो वा यदा भुक्तो भवेत्पक्वाशयं गतः ॥
तस्मिन्परिणते भुक्ते यदि खादति मृत्तिकाम् ॥ १३५ ॥
स विकारी भवेत्तेन तथा भुक्तेन वारणः ॥
विकारमभिजानीयाद्यथोक्तं कुशलो भिषक् ॥ १३६ ॥
१ क. पुरीषं निरुहति । २ क. फर्डगिरम् । ३ ग. मण्डीरं । ४ क.
स्निग्धाङ्कोष्ठं । ५ क. °रचकं । ६ क. तथा । ७ क. °भिमृष्टा° । ८ क. दौहृदी° ।
१२