सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 107, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 107

८८ पालकप्यमुनिविरचितो— [ १ महारोगस्थाने-
एतेन क्रमयोगेन नागः संपद्यते सुखी ॥
विज्ञाय विगतानाहं निवृत्तशकृतं गजम् ॥ १०८ ॥
अकर्दमे जले चैनमवगाह्य प्रमार्जयेत् ॥
प्रत्युद्गतस्थानगतं निवृत्तं वारणं ततः ॥ १०९ ॥
प्रसन्नां पाययेज्जातां पञ्चभिर्लवणैः सह ॥
वातानुलोमनार्थं च ग्रहणीदीपनाय च ॥ ११० ॥
तथा स लभते सौख्यं तस्मादेनां प्रयत्नतः ॥
अथास्मै दापयेद्भक्तं वोऽनुपूर्वेण हस्तिनः ॥ १११ ॥
इत्यप्रदुष्टानाहः ।
अथातः संप्रवक्ष्यामि दुश्चिकित्स्यतमस्य तु ॥
ओनाहस्य प्रपञ्चं ते संप्रदुष्टस्य लक्षणम् ॥ ११२ ॥
धान्यं परिणतं पक्वं शुष्कं वा यदि भक्षयेत् ॥
पक्वान्नं चाप्यकुशलैर्भोज्यते विविधै रसैः ॥ ११३ ॥
अत्यम्बुपानयोगाच्च जायन्ते चाऽऽमयाः क्रमात् ॥
प्रवाहिका तथा शूलमाध्मानं कृच्छ्रमूत्रता ॥ ११४ ॥
पुरीषं ग्रथितं चास्य मन्दवातश्च जायते ॥
पीड्यते चातिसारेण वातगुल्मश्च बाधते ॥ ११५ ॥
स कृशो दुर्बलो नागो हरिद्वर्णप्रदर्शनः ॥
अतीसारेण दुःखार्तो ध्यायत्यपि च कुञ्जरः ॥ ११६ ॥
पादमभ्युद्धरेत्कृच्छ्राद्गात्रैश्च गुरुभिर्भवेत् ॥
निक्षिप्य हस्तं विमनाः शूलार्तः संनिषीदति ॥ ११७ ॥
दुश्चिकित्स्यः स विज्ञेयो महारोगो मृदुग्रहः ॥
तस्मै न दापयेत्पक्वमामं वापि कदाचन ॥ ११८ ॥
निरुहभक्तं तं नागमुपलभ्य भिषग्वरः ॥
यवसेनेव शुद्धेन मातङ्गं समुपाचरेत् ॥ ११९ ॥
उष्णोदकं च पानार्थे शकृद्धावन्न बाध्यते ॥
अथैनं कवलांस्तीक्ष्णान्क्षिप्रमेवाभिहारयेत् ॥ १२० ॥
वचां हरिद्रां लशुनं पिप्पलीं मरिचानि च ॥
कुष्ठं तेजोवतीं चात्र दद्यादतिविषां तथा ॥ १२१ ॥
कटुकां सर्षपान्हिङ्गं पञ्चभिर्लवणैः सह ॥
कृत्वा सूक्ष्माणि चूर्णानि सुरामण्डेन पाययेत् ॥ १२२ ॥
१ ख. ॰केऽप्यानुपूर्वेण हस्तिने । २ क. व्यानुपूर्वेण हस्तिने । ३ क. अनाहस्य ।