सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 106, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 106

१२ अनाहाध्यायः ] हस्त्यायुर्वेदः । ८७
उष्णोदकं च पानार्थे शकृच्चावन्न बध्यते ॥
एवमप्यस्य निर्दिष्टं देशकालबलं प्रति ॥ ९४ ॥
स्वयमप्यत्र भिषजा तक्यं बुद्धिमता भुवि ॥
स्थूलोच्चयेन वा नद्धं धनुषां द्वे शते नयेत् ॥ ९५ ॥
निष्कोशशोधनं चास्मै सम्यक्कुर्याच्चिकित्सकः ॥
वचा हरिद्रा लशुनं पिप्पली मरिचानि च ॥ ९६ ॥
करञ्जबीजं तेजोह्वां शृङ्गवेरं फणिज्जकम् ॥
गण्डीरं पिप्पलीमूलं चित्रकं हस्तिपिप्पली ॥ ९७ ॥
तालीसपत्रकं कुष्ठं शतपुष्पा यवानिका ॥
पञ्चभिर्लवणैः सार्धं कवलं तस्य दापयेत् ॥ ९८ ॥
तेनोपरुद्धं धान्यं हि सपुरीषं निरूहति ॥
विपाच्य लवणं चास्य गजस्याऽऽरोग्यसंज्ञितम् ॥ ९९ ॥
इमं संभृत्य संभारं सुविभक्तं यथाविधि ॥
सैन्धवं काचलवणं लवणं रोमकं तथा ॥ १०० ॥
तथैव यावशूकं च सामुद्रलवणं बिडम् ॥
तथैव काचलवणं तथैवोत्पलपत्रकम् ॥ १०१ ॥
सुवर्चिकाऽपि या मुख्या यवक्षारं तथैव च ॥
तथैव देयाः पिप्पल्याः पाठा कटुकरोहिणी ॥ १०२ ॥
विभीतकाहरीतक्यो शृङ्गवेरं च हिङ्गु च ॥
सारिवाऽतिविषा मुस्ता त्रिफलेन्द्रयवास्तथा ॥ १०३ ॥
वृक्षाम्लं मरिचं चैव तथाचोऽऽम्लाम्लवेतसौ ॥
बालविल्वं च कुष्ठं च विडङ्गं हस्तिपिप्पली ॥ १०४ ॥
एतत्संहृत्य संभारं सूक्ष्मचूर्णं तु कारयेत् ॥
दधिमण्डेन संयोज्य घृतमण्डेऽपि पाचयेत् ॥ १०५ ॥
अथैनं दधिमण्डेन पुनरालोड्य पाययेत् ॥
प्रसन्ना वार्डाप या मुख्या तया वाऽऽलोड्य पाययेत् ॥ १०६ ॥
तेन कोष्ठगतं भक्तमेकरात्रान्निरूहति ॥
प्रतिपानं च सेकश्च क्रमात्सात्म्यं च भोजनम् ॥ १०७ ॥
१ क. बुध्यते । २ क. शतेन यत् । ३ क. हिङ्गूकम् । ४ ख. ॰चाऽऽम्ला-
म्ल० । ५ ग. ॰सौ ॥ बलं बि० । ६ क. ॰धिमाण्डे० । ७ क. ॰तमाण्डेन पा० ।