सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 105, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 105

८६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
उष्णोदकं च पानार्थे तैलसेकस्तथापरम् (:) ॥
शुद्धानहविधिश्चात्र क्रमशः कीर्त्यते बुधैः ॥ ८१ ॥
प्रतिपानं प्रसन्नां च पञ्चभिर्लवणैः सह ॥
एतेन सौख्यं लभते वारणः पृथिवीपते ॥ ८२ ॥
इत्यसंसक्तानाहः ॥
धान्योपेतं तु जानीयाद्द्विविधं परिसंख्यया ॥
प्रदुष्टं चाप्रदुष्टं च अप्रदुष्टमिमं शृणु ॥ ८३ ॥
यत्किंचिदिह पक्वं तु धान्यं भुञ्जीत वारणः ॥
यथावत्तदपक्वं तु सद्यः स्त्रापात्कदाचन ॥ ८४ ॥
तदेवर्च्छति स व्याधिस्तस्मान्नात्यशनक्रिया ॥
धान्यं यदा तु हरितं सस्नेहं वा विधां पुनः ॥ ८५ ॥
लभते वाऽतियोगेन जलं वाऽपि पिबेत्तथा ॥
तस्यातिमात्रयोगेन मन्दाग्निरुपजायते ॥ ८६ ॥
आनाहो वाऽतिसारो वा तस्मान्नात्यशनं स्मृतम् ॥
त्रयश्च ग्रहणीदोषाः कफपित्तानलात्मकाः ॥ ८७ ॥
तथाऽऽनाहोऽतिसारश्च वै से त्वन्योन्यहेतवः ॥
तेषामग्निबले हीने वृद्धिवृद्धे परिक्षयः ॥ ८८ ॥
प्राणिनामग्निरेवाऽऽयुः स रक्ष्यो जीविताार्थिभिः ॥
अपक्वं चापि पक्वान्नं दीप्ताग्निर्माप नाशयेत् ॥ ८९ ॥
एवं हि वारणो भुक्त्वा धान्योपहतमृच्छति ॥
धान्येनोपहतो वायुर्धान्योपहत उच्यते ॥ ९० ॥
आटोपयति निष्कोशो पुरीषं चास्य भिद्यते ॥
प्रगृह्य हस्तं प्रध्यायेन्नित्यं चैव विजृम्भते ॥ ९१ ॥
रुद्धंस्तत्र पुरीषश्च मन्दवातस्तथैव च ॥
एतद्धि तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ॥ ९२ ॥
पक्वान्नं यदि वाऽपक्वमुभयं नैव भोजयेत् ॥
निरुढभक्तं तं नागं यवसेनोपचारयेत् ॥ ९३ ॥
१ क. तद्वै ऋच्छति । २ क. ०न्त्याश० । ३ क. ०ते चापि यो० । ४ क.
०नात्याश० । ५ क. सर्वेऽन्योन्यहेतत तव । ६ क. येषा० । ७ क. ख. रक्षो ।
८ क. ०हते वा० । ९ ख. प्रगृह्य । १० क. ०द्धमूत्रपु० ।