हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 104, कुल 742 में से
संदर्भ में पढ़ें१२ आनाहाध्यायः।] हस्त्यायुर्वेदः। ८५
यवनिष्काथमथवा क्रमशः संप्रदापयेत् ॥
न चेत्प्रकृतिमाप्नोति द्रव्याणीमानि योजयेत् ॥ ६७ ॥
मदनस्य बृहत्योश्च फलानि लशुनं तथा ॥
पिप्पलीं पिप्पलीमूलं गोपित्तं सैन्धवं वचाम् ॥ ६८ ॥
सिद्धार्थकांश्च संहृत्य श्लक्ष्णं दृषदि पी(पे)षयेत् ॥
(※बिल्वमात्रेण कल्केन श्लक्ष्णं वस्त्रं प्रलेपयेत् ॥ ६९ ॥
हस्तिपेचकमानेन वर्तिं पायौ प्रवेशयेत् ॥ )
तेन वातमुदावर्तं सपुरीषं निरूहति ॥ ७० ॥
किं वा निरूहयेदेनं निरूहेणानुलोमिना ॥
एवं संहृत्य संभारमानद्धं वारणं भिषक् ॥ ७१ ॥
शृङ्गवेरं वचां कुष्ठं पिप्पलींमरिचानि च ॥
सर्षपाञ्शतपुष्पां च सैन्धवं भद्रदारु च ॥ ७२ ॥
मदनस्य फलैः सार्धं श्लक्ष्णं दृषदि पी(पे)षयेत् ॥
पञ्चमूले तथा द्वे च स्थाल्यां प्रक्षिप्य पाचयेत् ॥ ७३ ॥
ततो रसं परिस्राव्य पयसा सह पाचयेत् ॥ •
यदि सिद्धं विजानीयात्तदैनमवतारयेत् ॥ ७४ ॥
सिद्धं कल्केन संयोज्य सुस्नोष्णं लवणीकृतम् ॥
निरूहं दापयेत्तस्मै यथोक्तं बस्तिकर्मणि ॥ ७५ ॥
अरत्निपरिमाणेन द्वौ त्रीन्प्रस्थान्प्रमाणतः ॥
एतत्प्रमाणं कर्तव्यं निरूहे वारणं प्रति ॥ ७६ ॥
शुद्धस्यैवं क्रियां चैनां समीक्ष्य प्रतिकारयेत् ॥
निरूहस्य विधानेन पिण्डो वर्तिस्तथा दृतिः ॥ ७७ ॥
आमाहेषु तु सर्वेषु हितमाहुर्निरूहणम् ॥
तेन वातमुदावर्तं सपुरीषं निरूहति ॥ ७८ ॥
सृष्टमूत्रोऽप्यनिर्वोही शुद्धः श्लेष्माऽतिसार्यते ॥
गुरुचिकायाः क्षारेण बिल्वक्वाथं तु मूर्छितम् ॥ ७९ ॥
पञ्चभिर्लवणैः सार्धं तमेनमनुपाययेत् ॥
एतेनं क्रमयोगेन नागः संपद्यते सुखी ॥ ८० ॥
※धनुराकारमध्यगतपाठः कपुस्तके नास्ति ।
१ क. यदसिद्धं । २ क. ॰स्तथादृतः । ३ क. ॰हताम् । ४ क. ॰र्वाही
शु० । ५ क. ॰पाचये॰ ।