हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 103, कुल 742 में से
संदर्भ में पढ़ें८४ पालकाप्यमुनिविरचितो— [१ महारोगस्थाने-
छिन्नपातं च पतति संत्रोत्थाय निषीदति ॥
संरम्भं कुरुते वापि सुखं न लभते गजः ॥ ५३ ॥
न चातिसार्यते नागो निरोधाद्वातमूत्रयोः।
उदानस्य प्रकोपेष स्थूलं श्वसिति वारणः ॥ ५४ ॥
संसक्तेन विकारेण न स जीवति तादृशः ॥
इति संसक्तभक्तानाहः ॥
अत ऊर्ध्वमसंसक्तं कीर्तयिष्यामि तं शृणु ॥ ५५ ॥
कटुतिक्तकषायं च विषमं रूक्षमेव च ॥
लभते चोभियोगेन भोजनं यवसं जलम् ॥ ५६ ॥
क्रमेण भक्ष्यभोज्यैस्तु कोष्ठे व्यापद्यतेऽनिलः ॥
स्थूलं श्वसिति निष्कोशौ पीनौ च भवतोऽधिकम् ॥ ५७ ॥
अल्पमूत्रपुरीषश्च स भवेद्गाढवेदनः ॥
अपराभ्यां निषीदेच्च वेदनातौ मुहुर्मुहुः ॥ ५८ ॥
पुरीषं कठिनं स्वल्पं वातमिश्रं निरूहति ॥
एतद्धि तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ॥ ५९ ॥
स्थूलोच्चयेन वा नद्धं धनुषां द्वे शते नयेत् ॥
निषण्णस्य च निष्कोशौ पद्भ्यामेव विमर्दयेत् ॥ ६० ॥
साधु चैनं परिक्षुन्च्यात्पार्ष्णिभिः प्रपदैस्तथा ॥
तीक्ष्णांश्चैवास्य कवलान्क्षिप्रमेव प्रदापयेत् ॥ ६१ ॥
शृङ्गवेरं विडङ्गानि हरिद्रे चित्रकं तथा ॥
तालीसपत्रं कुष्ठं च मरिचं हस्तिपिप्पली ॥ ६२ ॥
उदूखले क्षोदयित्वा शुद्धे निक्षिप्य भाजने ॥
कवलान्दापयेत्तस्मै पञ्चभिर्लवणैः सह ॥ ६३ ॥
तेन वातमुदावर्तं सपुरीषं निरूहति ॥
क्षोदितं भेषजं दद्यादौषधं कथितं पुनः ॥ ६४ ॥
एभिरेवौषधैः सर्वैः पयश्च परिसाधितम् ॥
आनाहस्य प्रशान्त्यर्थं सुखोष्णं प्रतिपाययेत् ॥ ६५ ॥
सौवर्चलयुतां वाऽपि प्रसन्नां दधिमस्तुना ॥
मूत्रं सौवीरकं वाऽपि लवणैः पञ्चभिः सह ॥ ६६ ॥
१ क. ॰गो न रो॰ । २ क. चार्ययोगेन । ३ क. ख. ॰क्षुद्यात्पा॰ । ४ क.
प्रतिपादयेत् ।