सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 102, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 102

१२ आनाहाध्यायः ] हस्त्यायुर्वेदः । ८३
दोषाणामपि चान्येषां वायुरेव प्रवर्तकः ॥
नैकदोषसमुत्था हि प्रायेणोत्पद्यते रुजा ॥ ३९ ॥
दोषान्समीक्ष्य शुद्धांश्च संस्पृ(सृ)ष्टांश्चेत्युपाचरेत् ॥
उष्णोदकं च पानार्थे परिषेके च दापयेत् ॥ ४० ॥
समीक्ष्य सर्वसेकश्च तैलेनानन्तरं भवेत् ॥
पिचुमन्दस्य पत्राणां मृदूनां मुष्टिमाहरेत् ॥ ४१ ॥
लशुनस्य च बीजानां नालिका संमिता भवेत् ॥
नालिका स्याद्विडङ्गानां हरिद्रायाश्च नालिका ॥ ४२ ॥
वचाया नालिका देया पिप्पलीनां च नालिका ॥
क्षुण्णान्युदूखले दद्यात्पञ्चभिर्लवणैः सह ॥ ४३ ॥
पिचुमन्दस्य पत्राणि लशुनं बिल्वमेव च ॥
विडङ्गं चित्रकं चैव हरिद्रे द्वे च चूर्णयेत् ॥ ४४ ॥
कवलान्दापयेत्तस्मै पञ्चभिर्लवणैः सह ॥
तेन वातमुदावर्तं वातगुल्मं च संहतम् ॥ ४५ ॥
अनुलोमं जनयति विशुद्धं च प्रमेहति ॥
मृदुसंभोगतां गच्छेदानाहाच्च प्रमुच्यते ॥ ४६ ॥
आरोग्यमथवा देयं वातानाहोपशान्तये ॥
कटुतिक्तकषायांस्तु वदन्त्यनिलकोपनात् ॥ ४७ ॥
दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्यगुणान्तरम् ॥
संयोगसिद्धान्येतानि भेषजानि महीपते ॥ ४८ ॥
न विशेषं परीक्षन्ते द्रव्याणां रसवीर्यतः ॥
यथोक्तैर्भेषजैरेतैः क्रियां कुर्वीत दन्तिनाम् ॥ ४९ ॥
प्रतिपानं प्रसन्नां च पञ्चभिर्लवणैः सह ॥
तेनासो वारणः सौख्यं लभते पृथिवीपते ॥ ५० ॥
इति शुद्धवातोन्मथित आनाहः ॥
*संसक्तभक्तो यस्तं तु कीर्त्यमानं निबोध मे ॥
भुक्तेऽजीर्णे यदा नागो भोज्यते विषमाशनम् ॥ ५१ ॥
संसक्तभक्तस्तेनाऽऽशु जायतेऽजीर्णभोजनात् ॥
अपानप्राणसहितस्तदा मार्गं रुणद्धि सः॥ ५२ ॥

  • संसक्तभुक्त इति स्यात् ।
    १ क. परीक्षेत ।