सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 101, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 101

४२ पालकप्यमुनिविरचितो— [ १ महारोगस्थाने—
अकर्दमे जले चैनमवगाह्य प्रमार्जयेत् ॥
प्रत्युद्गतं स्थानगतं निवृत्तं वारणं ततः ॥ २५ ॥
प्रसन्नां पाययेज्जातां पञ्चभिर्लवणैः सह ॥
वातस्य चाऽनुलोम्यार्थं ग्रहणीदीपनाय च ॥ २६ ॥
एतां प्रसन्नां लवणैः पीत्वा भवति निर्वृतः ॥
अथैनमनुपूर्वेण मुद्गयूषेण भोजयेत् ॥ २७ ॥
पूर्वं भुक्तं चतुर्भागमर्धस(भ)क्तं ततः पुनः ॥
क्रमशः दापयेद्भक्तं चतुर्भागोनमेव च ॥ २८ ॥
समग्रं भोजयेत्पश्चाच्छालीनामोदनं मृदुम् ॥
एतेन क्रमयोगेन नागः संपद्यते सुखी ॥ २९ ॥
इत्यत्याशितानाहः ॥
तथैव वातोन्मथितं विद्यात्त्रिविधमेव तु ॥
शुद्धश्च वातोन्मथितः संसक्तोऽसक्त एव च ॥ ३० ॥
अजीर्णाद्ध्यपनाद्वायोः सर्वे कोपात्मकीर्तिताः ॥
तत्र शुद्धं प्रथमतः कीर्त्यमानं निबोध मे ॥ ३१ ॥
यदा तु भोज्यते नागो विषमं परिचारकैः ॥
रूक्षमत्यर्थमशनं यवसं वाऽप्ययोगतः ॥ ३२ ॥
विषमोदकपानाच्च विषमाग्निः प्रजायते ॥
तेन कोष्ठगतो वायुः सहसैव प्रकुप्यति ॥ ३३ ॥
तेनाऽऽध्मानं च शूलं च वेदना चोपजायते ॥
प्रतिनम्याभिनमति चोन्नम्यावनमत्यपि ॥ ३४ ॥
तुङ्गी करोति गात्राणि वेल्लते चतुरः स्थितः ॥
विष्टभ्य च पुनर्ध्माति गात्रं गात्रेण संस्पृशेत् ॥ ३५ ॥
एवं शुद्धं विजानीयाद्वातोन्मथितसंज्ञितम् ॥
आनद्धं द्वे पदे शेते नपेत्स्थूलोच्चये नतम् ॥ ३६ ॥
निष्कस्य च निष्कोशौ पद्भ्यां संमार्जयेत्ततः ॥
साधु चैनं परिस्कुद्यात्पार्ष्णिभिः प्रपदेस्तथा ॥ ३७ ॥
वातपित्तकफप्रायः प्रकोपोऽन्योन्यसंश्रयः ॥
आमपक्वसमुत्थश्च भिषक्तमुपलक्षयेत् ॥ ३८ ॥
१ ग. साधुत्वेन ।