सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 100, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 100

१२ आनाहाध्यायः ] हस्त्यायुर्वेदः । ८१
तत्रात्याशितमेवाऽऽदौ कथ्यमानं निबोध मे ॥
यदा ह्यत्याशितो नागस्तृणेन विषमऽपि वा ॥ १० ॥
तृषार्तः स पिबेल्लोभात्पानीयमतिमात्रतः ॥
तत्पीतस्याप्रमाणेन तस्य रूपाणि लक्षयेत् ॥ ११ ॥
ततश्चाऽऽध्मातनिष्कोशः स्थूलं श्वसिति शूलवान् ॥
अल्पमूत्रपुरीषश्च मन्दवातस्तथैव च ॥ १२ ॥
अत्याशितं तु जानीयादानाहं गाढवेदनम् ॥
एतद्धे तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ॥ १३ ॥
अन्नं च यवसं चास्मै न दद्यादुभयं भिषक् ॥
तीक्ष्णांश्चैवास्य कवलान्क्षिप्रमेव प्रदापयेत् ॥ १४ ॥
शृङ्गवेरकरञ्जौ च हरिद्रे चित्रकं वचाम् ॥
सिद्धार्थकमतिविषां हिङ्गु चात्र प्रदापयेत् ॥ १५ ॥
स्वर्जिकां च यवक्षारं पञ्चैव लवणानि च ॥
शोभाञ्जनकमूलानि कुष्ठं चात्र प्रदापयेत् ॥ १६ ॥
पिप्पलीं पिप्पलीमूलं विडङ्गं हस्तिपिप्पलीम् ॥
उलूखले क्षोदयित्वा शुद्धे निक्षिप्य भाजने ॥ १७ ॥
मृदितान्गोमयेनास्मै कवलान्दापयेद्भिषक् ॥
तेनोपरुद्धमुभयं शकृन्मूत्रं च वारणः ॥ १८ ॥
भक्षितेन यथामार्गं क्षिप्रमेव निरूहति ॥
उष्णोदकं च पानार्थं परिषेकाय दापयेत् ॥ १९ ॥
शीतं संतप्तगाढोष्णमम्बु पाने विवर्जितम् ॥
पेयमर्धावशेषं स्यात्कथितं पादशेषितम् ॥ २० ॥
अत्युष्णं नैव दातव्यं कथितं नातिशीतलम् ॥
कवोष्णं कफवातघ्नं शीतं पित्तविनाशनम् ॥ २१ ॥
एतदेव त्रिदोषघ्नं केचिदाहुर्मनीषिणः ॥ •
तैलेन सेचयेच्चास्य सर्वगात्राणि दन्तिनः ॥ २२ ॥
स्वेदाभ्यङ्गः प्रदेहः स्यात्तैलेन श्लेष्मवातहा ॥
सद्योऽभ्यङ्गो गुरुतरः कालदोषं बलं प्रति ॥ २३ ॥
शरीरानुगतः स स्यादनुपानसमो गुणैः ॥
विज्ञाय विगतानाहं विशुद्धशकृतं गजम् ॥ २४ ॥
१ क. ॰शिनो नागास्तृ॰ । २ क. ॰मानतः । ३ ग. निगूंहति । ४ क.
स्वेदोऽभ्यङ्गः । ४ क. ॰दोषब॰ ।
११