सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

२८ श्रीहम्मीरमहाकाव्ये [ सर्गः
तत्रास्ति पृथ्वीराजस्य प्राक् पित्रातो निरासितः ।
पौत्रो गोविंदराजाख्यः स्वसामर्थ्यात्तवैभवः ॥ २४ ॥
स्वस्वामिवंशकासार-हंसं तं भूपमाश्रिताः ।
कीर्त्तिपानीभवंतोऽव-तिष्ठेम ह्यकुतोभयाः ॥ २५ ॥
मंत्रयित्वेति भूपीयं सर्वं कोशवलादिकं ।
सहादाय चलंतिस्म रणस्तंभपुरंप्रति ॥ २६ ॥
दावपावकवत् वाध्यं ज्वालयन् देशमुद्धसं ।
शकः पश्चादुपागत्या ऽजयमेरुपुरं ललौ ॥ २७ ॥
अथ प्राप्य रणस्तंभं पुरं गोविंदभूपतेः ।
समगंसत ते सर्वे वृत्तांतं च न्यगादिषुः ॥ २८ ॥
पितृव्यस्य तथाभूतं मृत्युं श्रुत्वा धराधिपः ।
वाचामगोचरं कष्टं कलयामास मानसे ॥ २९ ॥
स्मृतिस्मृतिपरित्यक्त-शोकः कृतौर्ध्वदैहिकं ।
धीसत्त्वांस्तान् यथायोग्य-कार्येणायोजयन्नृपः ॥ ३० ॥
पराभवन् द्विषच्चक्रं प्रभवन् न्यायवृद्धये ।
सौख्यं चानुभवन्स्फीतं स प्रजाश्चिरमन्वशात् ॥ ३१ ॥
गोविंदे दिविषद्वृंदे संचारयति चातुरीं ।
तानवं शात्रवं निन्ये श्रीमद्वाल्हण भूपतिः ॥ ३२ ॥
घनवत् समरे यत्र शरासारं वितन्वति ।
नाशेनैवा ऽभवद्व्यक्ता रिपूणां राजहंसतां ॥ ३३ ॥
वर्षत्यपि भृशंवाण-धाराभिर्यद्धनुर्घने ।
चित्रं विच्छायतामेव भेजिरे शत्रुभूभृतः ॥ ३४ ॥
सखरं जिखरं वीक्ष्य समरे यमरिन्वजाः ।
अभिलेषुः सपक्षत्वं न वरं नाशहेतवे ॥ ३५ ॥
नाम्नि धाम्नि च संक्षेपं विधित्सन् यो विरोधिनां ।
अवनीपालतां हित्वा द्राग् वनीपालतां ददौ ॥ ३६ ॥

४ ] तज्जन्मवर्णनम् २९
स दानभोगौ गोचक्र-मंडनौ पापखंडनौ ।
उभावभूतां तत्पुत्रौ सूर्याचंद्रमसाविव ॥ ३७ ॥
गुणश्रेष्ठस्तयोर्ज्येष्ठः ख्यातः प्रल्हादनाह्वयः ।
द्वैतीयीको द्वितीयश्रीर्वाग्भटः प्रतिपद्भटः ॥ ३८ ॥
समं वितन्वतः क्रीडां सममभ्यस्यतः कलाः ।
अवर्द्धिष्ट तयोः प्रीती रामलक्ष्मणयोरिव ॥ ३९ ॥
वीक्ष्यान्यदा नृपो मूर्ध्नि पलितं करणीं जरां ।
शपतिस्माऽशु भोगेभ्यो योगेभ्यः श्लाघते स्म च ॥ ४० ॥
ततोऽनुशास्य विधिना भूपः पुत्रावुभावपि ।
न्यधात् प्रल्हादनं राज्ये प्रधानत्वे च वाग्भटं ॥ ४१ ॥
स्वयं स्थित्वा कियत्कालं तयोः प्रीतिमिवेक्षितुं ।
प्रांते स्मरन् परंब्रह्म बभूवे दिविषत्पदं ॥ ४२ ॥
कृतौर्ध्वदैहिकं वस्तु स्ततः प्रल्हादनो नृपः ।
अरंजयत्प्रजा नास्थ्यो-पनिषज्ज्ञो यथा सभाः ॥ ४३ ॥
भास्वत्यभ्युदिते यस्मि न्नासन्नजनि कर्त्तरि ।
सपक्षैश्च विपक्षैश्च कौतुकं कौशिकायितं ॥ ४४ ॥
विशामीशे दशाऽप्याशा जेतुं यत्र कृतोद्यमे ।
वैरिणो जीवितं त्रातुं द्विधापि प्रधनं जहुः ॥ ४५ ॥
बलिध्वंसोलसदाम शय शायिसुदर्शनः ।
विष्वक्सेनोऽपि यच्चित्रं न भेजे दानवारितां ॥ ४६ ॥
उत्सलद्धूलिविज्ञात-खुरामक्षुण्णभूतलाः ।
त्वरया वायुविस्फूर्ति-जिह्वरा स्तुरगा बभुः ॥ ४७ ॥
मुदान्यदा स दावाग्नि-प्रतापश्वापविप्लुतः ।
विधित्सुः पटुमाखेटं निरैगान्नगराद्वहिः ॥ ४८ ॥
आजानुलंबि सुस्थूल-नीलीचीवरधारिणः ।
चेलुः पदातयो मूर्त्ता भयानकरसा इव ॥ ४९ ॥

३० श्रीहम्मीरमहाकाव्ये [ सर्गः
स्तब्धोर्ध्वकर्णाः सुस्निग्ध-वर्णाः स्वर्णाग्रकंठिकाः ।
चाक्षुषा मातरिश्वान इव श्वानश्चकासिरे ॥ ५० ॥
वाहिनीशतसंश्लेष-बहुलैः प्रचलद्दलैः ।
समुद्रैरिव कल्पांत-भ्रांतैर्विह्वलयन्निलां ॥ ५१ ॥
विस्मेरसुमनोबाण-करवीरमनोहराः ।
नारीरिव वनीर्वीक्ष्य नृपोभूद्द्रुतुमुन्मनाः ॥ ५२ ॥
बलभद्रास्ततः केपि हरिमार्गानुसारिणः ।
केचिच्छशधरादृष्ट-सिंहिकासुतविक्रमाः ॥ ५३ ॥
केचिच्छिवानुगा रौद्रा वृषोलंघनजांघिकाः । .
अंतर्वणं विशंति स्म भटा आखेटलंपटाः ॥ ५४ ॥
द्विधापि पृष्ठदानेन सत्रपः कोपि सिंहयोः ।
यशोमृतं पिवन्नंतः स्थितः क्रोडं व्यडंबयत् ॥ ५५ ॥
मत्स्वामिवल्लभां शश्वद्वसुधां चंखनीयत्यं ।
इति प्रकुपितः कोपि वराहं मध्यतो ऽच्छिनत् ॥ ५६ ॥
त्वन्नेत्रकांतिचोरोयं यथारुचि विधीयताम् ।
इति कश्चित्प्रियाप्रीत्यै मृगं बध्वा समायहीत् ॥ ५७ ॥
निघ्नन् पुरः स्थितं सिंहं हत्वा पृष्ठागतं परं ।
लेभे काकाक्षगोलस्यो-पमानं कस्याचित्करः ॥ ५८ ॥
तत्कटीदर्शनादाशु प्रियां संस्मृत्य कश्चन ।
न हातुं न प्रहंतुं च सिंहमासीत्क्षणं क्षमः ॥ ५९ ॥
व्यात्तवक्त्रे करं क्षिप्त्वा छित्त्वा केसरिणः शिरः ।
उदांचितभुजो बाहु-त्राणवत्कोप्यदीदृशत् ॥ ६० ॥
निजिघांसुं मृगीं कंचिन्मृगो दृष्ट्वातिकोष्टितः ।
स्वयमासांतरावतीं कटास्नेहकटाक्षितं ॥ ६१ ॥
वंचयित्वाथ दाक्ष्येण कोपि दृग्गोचरं हरेः ।
पृष्ठमारूढवान् सिंह-यानलीलायितं दधौ ॥ ६२ ॥

४ ] तज्जन्मवर्णनम् ३१
कृत्वातिसिंहस्यामप्राक्—पश्चाच्छस्त्रेण पातितः ।
वराहो रारटीतिस्म स्वभावः खलु दुस्त्यजः ॥ ६३ ॥
नृपोपि वर्षन् हर्षेण शरासारैररुंतुदैः ।
श्वापदानापदाक्रांता न्कुर्वन्नाच्छन् यदृच्छया ॥ ६४ ॥
क्वचिद्धिरिणदीतीरे स्फुरच्छ्रवणांतरे ।
पारींद्रमेकमद्राक्षी निद्रामुद्रितलोचनं ॥ ६५ ॥ युग्मं
उत्सार्य भूपो विज्ञात—शरसंधानमोक्षणः ।
निर्ममे दक्षिणेम्मर्माण तं पारींद्रं विनिद्रितं ॥ ६६ ॥
तेनैवोत्साहनादेन कुतोपि कुपितोऽन्यतः ।
तावत्परः स्फुरत्फालः सिंहः संहतविक्रमः ॥ ६७ ॥
जग्राह भूपतेरंसं प्रांशुं तीव्राग्रदंष्ट्रया ।
उरोविदारं राज्ञापि क्षुर्याऽसौ प्रतिचस्करे ॥ ६८ ॥ युग्मं
दंष्ट्राघातस्रुवद्रक्त—धाराभिरभितश्चितः ।
दधौ धातुद्रवक्लिष्ट—शैललीलां क्षणं नृपः ॥ ६९ ॥
ततो दंष्ट्राविषोत्सर्पि—मूर्छाभिर्विह्वलीकृतः ।
यतीवर्द्धिं स पापर्द्धिं त्यक्त्वागादात्ममंदिरं ॥ ७० ॥
मंत्रवादिगणैर्वैद्य—वृंदैरपि परः शतैः ।
भृशं चिकित्स्यमानोपि नाभूद्भूयः स्वरूपभाक् ॥ ७१ ॥
दुश्चिकित्सतरं ज्ञात्वा ऽऽत्मानं भूपोथ सर्वथा ।
वीरनारायणं पुत्र मभ्यषिंचन्निजे पदे ॥ ७२ ॥
पतिष्यच्चाह्मानीय राज्यश्रीवल्लिपादपं ।
वाग्भटं च समाहूय सोदरं जगिवानिति ॥ ७३ ॥
शौर्यं बुद्धिरविश्वासो राज्यश्रीकारणं त्रयं ।
तद्युक्तं स्थावरे स्वापं दुरापं शैशवे पुनः ॥ ७४ ॥
तदस्ति स्वापचापल्याद् बाल्येऽसौ वयसि स्थितः ।
अनुशास्यस्तथाकारं यथास्यान्नाहितं क्वचित् ॥ ७५ ॥

३. जलालुद्दीन खिलजी पराभव व शरणागत महिमा

३२ श्रीहम्मीरमहाकाव्ये [ सर्गः
दौःशल्येन सुतस्यास्य सशल्य इव वाग्भटः ।
मंदमंदमथाचख्यौ मन्युगद्गदया गिरा ॥ ७६ ॥
भवितव्यं तु न स्वामिन्निरोद्धुं कोपि सासहिः ।
त्वामिवैनं पुरोपासे सावधानः परं सदा ॥ ७७ ॥
उक्तेति वाग्भटे तूष्णीं तस्थुषि क्षितिपाग्रणीः ।
चिकीर्षयात्मनीनस्य सस्मार परमात्मनः ॥ ७८ ॥
राज्यथास्तमिते तस्मिन् वीरनारायणो विभुः ।
भास्वानिवासील्लोकानां कमलोल्लासकोविदः ॥ ७९ ॥
स्वतेजसैव यस्याशु द्विषतः पिंषतः सतः ।
वृथा मत्प्रतिकर्मेति किमसिः श्यामतामधात् ॥ ८० ॥
विस्फूर्जद्भुजशांडीर्य—फणभृद्दृष्टवैरिणां ।
यस्य खड्गलता नाग—दमनौषधिवद्बभौ ॥ ८१ ॥
सोन्यदा प्रमदानेत्र—पावनं यौवनं श्रितः ।
परिणेतुं सुतां कत्स—त्राहस्याऽन्नपुरीमगात् ॥ ८२ ॥
तत्राभिषेणितो जल्ला—लदीनशकभूभुजा ।
पलाय्यागाद्रणस्तंभं पृष्ठतः सोप्युपागमत् ॥ ८३ ॥
तत्र युध्वा चिरं जल्ला—लदीनः प्रौढपौरुषः ।
विज्ञाय तं छलग्राह्यं निवृत्यागान्निजां पुरीं ॥ ८४ ॥
कियत्यथगते काले ततः स शकभूपतिः ।
विजिगीषुच्छलेनामुं दूतेनेत्थमचीकथत् ॥ ८५ ॥
ज्योतिश्चक्रेषु सर्वेषु सूर्याचंद्रमसौ यथा ।
तथावां सार्वभौमा वो भूभृत्सु निखिलेष्वपि ॥ ८६ ॥
तन्नौ युक्ता मिथः प्रीतिः पचेलिमफलोदया ।
न च विग्रहविस्फूर्ति र्भिदेलिम तमायतिः ॥ ८७ ॥
सहायं त्वादृशं लब्ध्वा समीरमिव पावकः ।
दंदह्येय क्षणेनैव वैरिवंशान् दृढानपि ॥ ८८ ॥

४ ] तज्जन्मवर्णनम् ३३
प्रीतोस्मि तव शौर्येण त्वं मे भ्राताऽतः परं ।
द्रुह्यामि यद्यहं तुभ्यं तर्हि शपे ध्रुवं ॥ ८९ ॥
एकवेलं समेतव्यं मिलनाय परं त्वया ।
न चेदहं समाकार्य स्वदादेशवशंवदः ॥ ९० ॥
वक्षःस्थलपुरेशेन विग्रहाख्येन विग्रहैः ।
सुतरां विगृहीतस्य सिसाधयिषतोय तं ॥ ९१ ॥
ताभिर्द्वूतोक्तिभंगीभि भृंगीभिरिव वारिजं ।
चुंबितं चाहमानस्य हृदयं व्यश्वसीत्तमां ॥ ९२ ॥ युग्मं ०
ततोवनीपतिं वीक्ष्य शकसंगमनोत्सुकं ।
रहः संवादयामास वाग्भटः प्रतिभाभटः ॥ ९३ ॥
नयशास्त्रांबुधेः पार-दृश्वनः का तवौचिती ।
क्रियते दुष्टहृन्म्लेछ-संगमाय यदुद्यमः ॥ ९४ ॥
शत्रुर्न मित्रतां गच्छे च्छतशः सेवितोपि सन् ।
दीपः स्नेहेन सिक्तोपि शीतात्मत्वमियार्ति किं ॥ ९५ ॥
प्रचिकीर्षसि चेद्राज्यं जिजीविषसि चोचिरं ।
तदा मद्युक्तिभृंगीयं नीयतां हृदयांबुजं ॥ ९६ ॥
गुरवो यदि वा संतो हितवाक्योपदेशिनः ।
हेयोपादेयतां तस्या-भव्यभव्यौ चिकीर्षतः ॥ ९७ ॥
इत्युक्त्वा तत्र तूष्णीके सर्वांगीणक्रुधांधलः ।
घटयन् भ्रकुटीं भीमां पार्थिवो जगिवानिति ॥ ९८ ॥
अकार्यं यदि वा कार्यं यन्मे रोचिष्यतेतमां ।
करिष्ये तदहं स्वैरं चिंतयात्र कृतं तव ॥ ९९ ॥
वाग्भटस्तेन वाक्येन प्रासेनेव हतो हृदि ।
ययौ तद्राज्यमुत्सृज्य मालवे सपरिच्छदः ॥ १०० ॥
परमप्रीतिगौराणां पौराणामपि भाषितं ।
उपेक्ष्य गर्वादुर्वशो ययिवान् योगिनीपुरं ॥ १०१ ॥
5 A

३४ श्रीहम्मीरमहाकाव्ये [ सर्गः
अंतर्दुष्टो मुखे मिष्टः शकेंद्रोभ्येत्य सन्मुखं ।
महेन महतानैषी दंतःपुरि नरेश्वरं ॥ १०२ ॥
प्रियालपनसारखं वनंवद्दर्शयन्मुहुः ।
चिरं चकार चेतोस्य चित्रप्रचयचुंबितं ॥ १०३ ॥
अन्येद्युर्विषयोगेन शकान्तृपममीमरत् ।
काप्यकृत्यं प्रकुर्वंतः पापा मुह्यंति हंत किं ॥ १०४ ॥
हतेत्रान्यच्छक्रो बोधि जितमेवाशु राजकं ।
मूले छिन्ने हि सुग्राहं फलागुच्चैस्तरोरपि ॥ १०५ ॥
ततो वाग्भटभूपाल-सूर्येण परिवर्जितं ।
रणस्तंभपुरव्योम व्यानशे शकतारकैः ॥ १०६ ॥
शकप्रेरणयेहापि जिघांसुं मालवेश्वरं ।
विज्ञाय वाग्भटो हत्वा ललौ तद्राज्यमूर्जितं ॥ १०७ ॥
शकातंकपरित्रस्तै र्बहुजैः शरणागतैः ।
तद्राज्यं प्राज्यलीलाभृ दवर्धिष्ट दिने दिने ॥ १०८ ॥
शके जल्लालदीनेय षर्प्परैरभिषेणिते ॥
वाग्भटोप्यमिलत्सैन्यं रणस्तंभांधिधीर्षया ॥ १०९ ॥
पुंनागसंगसुभगाः प्रक्षरन्मदनिर्झराः ।
जंगमावनिभृल्लीलां कलयांचक्रिरे द्विपाः ॥ ११० ॥
खुरोत्खातरजःपुंजै र्विश्वमप्येकरूपतां ।
नयंतो वाजिनां व्यूहा रेजिरेऽद्वैतवादिवत् ॥ १११ ॥
संचरद्रथचक्राणां दिशां कूलंकषैः स्वनैः ।
शब्दाद्वैतमयीवासी दखिलाप्यब्धिमेखला ॥ ११२ ॥
धृतिहेतिततिस्फीत-द्युतियोतितदिङ्मुखाः ।
बभुः पदातयो द्वेधा-प्यरिप्राणापहारिणः ॥ ११३ ॥
चलद्दलभरैर्भोगि-विभुना दुर्धरां धरां ।
सृजन्नधो रणस्तंभं शिविरं संन्यवेशयत् ॥ ११४ ॥

दृष्ट्वानेकरणोत्सेक—क्रीडद्वीरकुलं बलं ।
दधिवांसोदरोद्रेकं दुर्गस्थाः शकपुंगवाः ॥ ११५ ॥
लोका अपि लसच्छोका बभूवुः पुरवासिनः ।
सौख्यनाडिंधमाः के वा परचक्रे समेयुषि ॥ ११६ ॥
नृपादेशाततः स्फूर्जच्छौर्यावेशा भटव्रजाः ।
दुर्गग्राहग्रहग्रस्ता अभियोद्धुं द्रुतौकिरे ॥ ११७ ॥
गोलैष्टंकैः कुशीभिश्च प्रभिंदंतोप्यनेकशः ।
न तेऽलंभूषणवोभूवन् दुर्गं भेत्तुं मनागपि ॥ ११८ ॥
भटानां शौर्यचातुर्यं दुर्ग्राह्यबलं पुरस्य च ।
दर्शंदर्शं नरेंद्रोभू द्विपादाश्चर्यचुंबितः ॥ ११९ ॥
मत्वा दुर्गं बलाग्राह्यं सोथ नीतिविदां गुरुः ।
वेष्टयित्वाभितस्तस्थौ निवार्य समराद्भटान् ॥ १२० ॥
निर्यातुं च प्रवेष्टुं चा—शक्नुवंतस्ततो भिया ।
पुरोदरस्थिता लोका लेगिवांसो विषीदितुं ॥ १२१ ॥
वारीण्यदुग्धपर्यंतक्षु—यटीयंत तृणान्यपि ।
एधांस्यचंदनायंत प्राप्यभावात्पुरांतरे ॥ १२२ ॥
त्रिमास्यामपि जग्मुष्या पुरं रक्षितुमक्षमाः ।
पलायिषत सर्वेपि जीवं लात्वा शकध्रुवाः ॥ १२३ ॥
भक्तिगौरास्ततः पौरा उपदापात्रपाणयः ।
संजग्मिरे महीशस्य जयशस्य तमद्रुतेः ॥ १२४ ॥
नृपोपि तेभ्यो वस्त्रादि दत्वा कृत्वा च सत्क्रियां ।
स्वच्छोत्सवोच्छलच्छायं प्रविवेश पुरांतरं ॥ १२५ ॥
सैंहिकेयास्यनिर्मुक्त—चंद्रबिंबविडंबिनीं ।
पश्यन्नयारिनिर्मुक्त—रणस्तंभपुरश्रियं ॥ १२६ ॥
गजाश्वस्वर्णरत्नाद्यैर्यथास्थाननिवेशितैः ।
स चकार धरां सार—मंदिरां माद्यदिंदिरं ॥ १२७ ॥

३६ श्रीहम्मीरमहाकाव्ये [ सर्गः
क्रमागतोदयस्थानं भास्वान् लब्ध्वा स वाग्भटः ।
कान्कान्भूमीभृतो नैव पादाक्रांतानरीरचत् ॥ १२८ ॥
निवेश्य देशसीमासु चतुर्दिक्षु बलं निजं ।
सुखं द्वादशवर्षाणि स्वयं राज्यं स तेनिवान् ॥ १२९ ॥
तस्मिन्स्वर्लोकलोलाक्षी—कटाक्षविशिखावलैः ।
वीरयोगव्रतावाप्यां वेध्यतामुपचालरे ॥ १३० ॥
तन्नंदनो जगन्नेत्रा—नंदनश्चंदनद्रुवत् ।
जैत्रप्रतापः श्रीजैत्रसिंहोऽभूद्भूमिबल्लभः ॥ १३१ ॥ युग्मं
समूलकार्षकषिता—ऽन्यायसंतमसोदयः ।
तिग्मांशुरिव लोकानां यः प्रियं भावुकोऽभवत् ॥ १३२ ॥
सद्वंशस्यापि यच्चाप—दंडस्पाहो अनौचिती ।
जग्राह दोषमेवास्य समाजे संगते द्विषां ॥ १३३ ॥
बिभ्रत्सदानभोगत्वं सुमनःश्रेणिसेवितः ।
शचीवरयितुर्लीलां यो भूमिष्ठोप्यचूचुरत् ॥ १३४ ॥
कर्णजाहं जगाहाने शौर्ये यद्दुजदंडयोः ।
चकंपिरे शिरांसि द्राक् दृढानामपि भूभृताम् ॥ १३५ ॥
यदातंकतमग्रस्ते शत्रुशौर्यनभोमणौ ।
व्यक्तं शोकतमोभासी तन्नारीणां कचच्छलात् ॥ १३६ ॥
सद्वंशस्याप्यैकमत्यं न यच्चापस्य यस्य च ।
पृष्ठं यद्युध्यदात्माच्यः परेषां न पुनः परः ॥ १३७ ॥
अगण्यपुण्यलावण्य—रसप्रसरसारणिः ।
हीरादेवीति तस्यासी त्प्रेयसी श्रेयसी गुणैः ॥ १३८ ॥
सौंदर्येण जिता यस्या रतिस्तामेव भेजुषी ।
जगदे वह्निदग्धस्य शरणं वह्निरेव वा ॥ १३९ ॥
भुंजाना भूभुजा साकं सा कंदर्परसं भृशं ।
शुभं गर्भं दधातिस्म विस्मयैकपदं सतां ॥ १४० ॥

४ ] तज्जन्मवर्णनम् ३७
स्वकरांभोजकीनाश—दासीकृतशकासृजा ।
गर्भानुभावतो राज—पत्नी सिक्तासतिस्म सा ॥ १४१ ॥
प्रहर्षुलमनः प्रेयः पूरितोद्दामदौहृदा ।
समये सुपुवे सूनुं सा श्रीरिव सुमायुधं ॥ १४२ ॥
असौ शकासृग्वाप्पूरैः संस्नाप्य धरणीमिमां ।
दृष्टातन्मूं — — — — — — — — — — — —
— — — — — — — — — — — — सृत्खरैः
अभ्युद्यत्सहस्रार्क मिवासीत्सूतिकागृहं ॥ १४४ ॥
दिशः प्रसादमासेदुः सुखसेव्यो ववौ मरुत् ।
नभो निर्मलतां भेजे दिनकृद्दिद्युतेतरां ॥ १४५ ॥
विशदं सम्मदं यं त—ज्जनने जनको दधौ ।
शतांशोपि न तस्यासीत् कवीनां गोचरो गिरां ॥ १४६ ॥
तज्जनौ स्वर्णधाराभि रवर्षद्भूपतिस्तया ।
मूलतोपि यथाशुष्य द्दारिद्र्योरुखवासकः ॥ १४७ ॥
कृत्वा दशाहिकमहं विश्वं विश्वसुखावहं ।
हर्षार्द्धंमीरदेवेति नामामुष्मै पिता ददौ ॥ १४८ ॥
मातापित्रोर्दृशः सिंचन् स्वदर्शनसुधारसैः ।
सौम्यमूर्तिरवर्धिष्ट स शशीव दिने दिने ॥ १४९ ॥
दिनैः कतिपयैरेवा—कृच्छ्रं गुर्व्वनुभावतः ।
शस्त्रशास्त्ररहस्यानि स स्ववश्यानि तेनिमान् ॥ १५० ॥
न तच्छास्त्रं न तच्छस्त्रं न च तज्जनरंजनं ।
सदाशयांबुजे तस्य न यद्भ्रमरायत ॥ १५१ ॥
अथामंगुरशृंगार—जीवनं यौवनं श्रितः ।
कासां मृगीदृशां निन्ये वशं दृग्मनसी न–सः ॥ १५२ ॥
दृग्द्वंद्वपेयसौंदर्य—श्रीणामेकं तमास्पदं ।
दृष्ट्वा वांछन् पतीकर्त्तुं कामिन्यः का न मानसे ॥ १५३ ॥

३८ श्रीहम्मीरमहाकाव्ये [ सर्गः
अकृत्रिमालंकृतिराननस्य तस्योत्थिते श्मश्रुलते व्यभातां ।
आधिक्यतो घ्राणयुगाध्वनिर्य—च्छृंगारधारे इव नेत्रपेये ॥ १५४ ॥
केशाः केकिकलापकांतिजयिनो वक्त्रं शशिप्रीतिभित्
कंठः कंबुरिपुः कपाटपटुताविशेषि वक्षस्थलं ।
दोर्दंडौ परिघापघातनिबिडौ पादौ कृताब्जापदौ
किंकिं रम्यतरं न यौवनपदं प्राप्तस्य तस्याभवत् ॥ १५५ ॥
विंध्ये सिंधुरवत् धने विधनवत् जातिप्रसूनेऽलिवत्
त्यागे याचकवत् गुणे सगुणवन्न्याये महीपालवत् ।
माकंदे पिकवच्छ्रुते विदुरवत्पाथोरुहे हंसवत्
तस्मिन् संसृजतिस्म वागविषयां प्रीतिं मनो योषितां ॥ १५६ ॥
नारीभिः सुमचाप इत्यमरभूजन्मेति च प्रार्थिभि-
र्गंगाभूरिति सत्यसंगरपरै र्ब्रह्मेति तत्वोन्मुखैः ।
स्वर्भूभूरिति योद्धृभिर्यम इति प्रत्यर्थिपृथ्वीधवैः
कैः कैरेष कथं कथं न युवतामध्याश्रितस्तर्कितः ॥ १५७ ॥
सौंदर्यधन्या अथ सप्तकन्या पित्रा प्रमोदात्परिणायितोसौ ।
चिक्रीड ताभिः सह शश्वदस्तव्रीडं यथा दुश्चवनः शचीभिः ॥ १५८ ॥
हम्मीरादितरावपि क्षितिपतेर्जैत्रस्य पित्र्यानुजौ
जज्ञातेऽगरुहौ गुहाविव जगज्जैत्रप्रतापोदयौ ।
आद्योभादनयोर्नयोदयदलद्दल्लीवसंतः सुर-
त्राणोन्यः परवीरदारणरणारंभप्रभो वीरमः ॥ १५९ ॥
पूर्द्धारार्गलदीर्घपीनभुजभू प्रौढप्रतापज्वलत्-
ज्वालाजिह्वविषावलीकवलितप्रत्यर्थिभूमीधवैः ।
इत्यभ्यस्तनयैस्त्रिभिः स्वतनयैः संसेव्यमानोन्वहं
श्रीजैत्रः क्षितिपः स्म वीरजनकोत्तंसत्वमास्तिष्ठते ॥ १६० ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते हम्मीरमहा-
काव्ये वीरांक तज्जन्मवर्णनोनाम चतुर्थः सर्गः समाप्तः ॥

५ ] वसंतवर्णनम् ३९
अथ पंचमः सर्गः
अथ जैत्रसिंहनृपतौ धरणिं करणिं दिवः श्रितहरेः सृजति ।
उदजृंभतप्रियसृहत्सुरभिः सुमसायकस्य किल विश्वजितः ॥ १ ॥
पुपुषे ध्रुवं मलयशैलभवोऽनिल एष भोगियुवतिश्वसितैः ।
कथमंन्यथास्य सहता भवति स्म वियोगिनो झगिति मूर्च्छयितुं ॥ २ ॥
ऋतुराजविक्षणरसान्नितरा मरुणेन न ध्रुव मनोदि रथः ।
कथमन्यथा दधु रमी दिवसा गुरुतां रथांगविहगैकहितां ॥ ३ ॥
अतिदुःसहप्रियसृहद्विरहैः प्रमदजनैः कथमिवैष स नः ।
महिमा सहिष्यत इतीव निशाः कृशता मधुमधुरिताः कृपया ॥ ४ ॥
समुदाचरंति मधुपा मलिना न च निर्मला स्फुरति जातिरिह ।
इति वा बभूव ऋतुराट्समयो नवरं न वल्लभतरो यतिनां ॥ ५ ॥
मलयानिलो मलयजैः सुरभौ सुदृशा मुरोजयुगले विलसन् ।
समुपागतं मलयशैलमहा—शिखराधिरोहण ममंस्त पुनः ॥ ६ ॥
अमुना विवर्णितदला मभितो नलिनीं विलोक्य नलिनीदयितः ।
कुपितः प्रहिंसितुमिवैष हिमो—च्चय मभ्यगा द्विमवतः ककुभं ॥ ७ ॥
स्थलतां प्रयाति गगने पवने—रितपुष्पराजिरजसां पटलैः ।
अचलन् यदर्कतुरगाः शनकै स्तदिवास वासरगणोत्र गुरुः ॥ ८ ॥
मधुकप्रसूनमधुपानवशा दतिमात्रमत्तमधुकृद्युवतेः ।
विनिशम्य झंकृतमं दधिरे कति रे न चेतसि विकारभरं ॥ ९ ॥
सहकारसारतरमंजरिका—प्रसनोल्लसन्मधुरिमांचितया ।
परपुष्टया कुसुमकांडकरे ऽरचि लीलया प्यखिलमेव जगत् ॥ १० ॥
इय मागतेव शशिनाशिकुहू रथचेयमान्यलपदन्यभृतः ।
पिककूजितेष्विति न का मुमुदे विषसाद चाध्वगवधू रसकृत् ॥ ११ ॥
शुकचंचुसंनिभपलाशदल—त्कुसुमानि रेजुरभितोनुवनं ।
शमदंतिनं भृशमुपानयतो वशमंकुशा इव सुमेपुविभोः ॥ १२ ॥

४० श्रीहम्मीरमहाकाव्ये [ सर्गः
यदि पुष्पिताहमिह तत्कियतीं श्रियमुद्वहंतु लतिका इतराः ।
किमिदं विचिंत्य कृपया सुरभौ विचकास नाभिनवजातिलता ॥ १३ ॥
विकसत्प्रसूननिचयाः शुचयः प्रतिकाननं शुशुभिरे तरुषु ।
प्रथिता हसा इव वनीयुवते र्निजजीवितेशमृतुराजमनु ॥ १४ ॥
जलदागमे स्वमहिमोल्लसिते रवधीदसौ पथिकलोकवधूः ।
इति पंक्तिबाह्यविहितेव मधौ नवमालती न सुमनस्स्वविशत् ॥ १५ ॥
मदनोऽधुनापि परदेशजुषां हृदि नष्टशल्यमभिहंतुमिव ।
कुसुमानि वृंतसुषिराणि भृशं विरचय्य कांडफलतामनयत् ॥ १६ ॥
मम नाम नालिकशरा यदि मास्तः सहेत कतरे स्पृशतीः ।
किमितीह नाद्रियत जातिलता कलिकां मधौ मधुसखः स्फुटतीः ॥ १७ ॥
विकसत्प्रियालतरुमंजरिका—रजसारुणैरपि मृगीनयनैः ।
मधुसीधुपानघनरागजुषः सुदृशां दृशः सदृशतां न जहुः ॥ १८ ॥
परिसंचरन्मलयदिक्पवन—प्रविकंपिपल्लवकरांबुरुहैः ।
उपगूहनाय वनराजिवधू र्निजकांतमाह्वयदिर्तुपतिं ॥ १९ ॥
मधुपानतः शिथिलितभ्रमरा भ्रमिरा बभुः प्रतिवनं तरुषु ।
गुलिकास्त्रकाभ्यसनमुन्नयतो गुलिका इव प्रसवचापविभोः ॥ २० ॥
प्रविलोकनादपि वियोगवशा विदधदृशा विधृतकंपरसाः ।
अनयत्पलाशशिखरी तरसा चरितार्थतां जगति नाम निजं ॥ २१ ॥
पदसंगमात्र उपजाततृषो मम निष्प्रजन्नुरिमिकाः प्रसभं ।
गतभर्तृका इति सकोप इवा—ज्वरयन्मुहुर्मुहुरशोकतरुः ॥ २२ ॥
परिलोभयन् मधुकरप्रकरान् मधुसंगमेन मधुरै र्मधुभिः ।
तिलकद्रुमस्तिलकवन्निखिले—ष्वपि भूरुहेषु लभतेस्म रुचिं ॥ २३ ॥
अपि तन्मुखाभिषवसेकमृते श्रियमुद्वहन्नतिवचोविषयां ।
अधरीचकार सुदृशामखिला मपि मानसंस्थितिं मगो बकुलः ॥ २४ ॥
निजकालिमोल्लसितसंजनिता ऽसमयक्षपालिषु वनीततिषु ।
अलभंत चंपकतरोः कलिकाः स्मरराजदीपकलिकोपमितिं ॥ २५ ॥

५ ] वसंतवर्णनम् ४१
भृशलीनषट्चरणचक्रवशा ऽधिकनीलनीरजदले सरसि ।
. कमलै रलंभिविलसत्कमलैर्गगने नवोदितशशांकरुचिः ॥ २६ ॥
मलिनांबुबिंदुतुलनां कलय—न्विकसत्पलाशकुसुमवृंतमभात् ।
शिरसाऽग्निसाधनतपो रचय न्निव मालतीविरहतोऽलियुवा ॥ २७ ॥
कृतवेलनामलयदिक्पवनै र्धनवलयो रुरुचिरेऽतितरां ।
उपगूहनानि चिरकालभवन् मिथः प्रविरतं - - त्य इव ॥ २८ ॥
सकलत्रिलोकविजयप्रभवं श्रमवारिसंगतमनंगपतिं ।
इव वीजयंत्यभिबभौ सुरभौ कदलीदलै रनिलसंगचलैः ॥ २९ ॥
हृदयेश्वरं भजत मानममुं त्यजताशु नैति समयो हि गतः ।
इति बोधयन्निव कुरंगदृशो रुचिरं चिकूज परपुष्टयुवा ॥ ३० ॥
किमु चुंबनं किमथवा मधुरं मधु इत्यसाविव विवेचनकृत् ।
क्षणमंबुजं क्षणमथ भ्रमरी—वदनं चुचुंब मधुकृत्प्रवणः ॥ ३१ ॥
विलसद्विलासिनि वसंतऋतौ कुसुमानि कानिचिदिहाविदुषां ।
इदमीददेतदिदमित्यवदन् इव झंकृतैर्मधुकराः कतिचित् ॥ ३२ ॥
विधुतत्वराणि विदधन्नितरां युवमानसानि दयितानुनये ।
चटुकूजितैः कलरवो मदयन् दयितां चुचुंब परिरभ्य मुहुः ॥ ३३ ॥
विकसत्सुमस्तबकचारुकुचा नवपल्लवाद्भुतकरक्रमणाः ।
मधुमागताः समवलोकयितुं वनदेवता इव लता व्यरुचन् ॥ ३४ ॥
अधिकाधिकं तनुविलेपविधौ प्रमदाभिराद्रियत वह्निशिखं ।
उपकारकारि सुचिरोपनतं सहसैव हेयमिह वस्तु कथं ॥ ३५ ॥
पथिकांगनाजनपरासनजै र्गुरुपाततैकैरिव नितांतचिताः ।
हविराचिताऽजनघनद्युतयो भ्रमरा बभुः प्रतिवनभ्रमिराः ॥ ३६ ॥
इति वीक्ष्य वीक्षणयुगप्रसभा—हृतसंमदं सुरभिकालमिमं ।
परिपृच्छय जैत्रजगतीदयितं सहि वीरमाग्रजकुमारवरः ॥ ३७ ॥
अदसीयरूपविलुलोचयिषा—नुग्रहाधिरूढललनावदनैः ।
दिवसेपि विस्फुरदनेकसुधा—करबिंबमंबरतलं जनयन् ॥ ३८ ॥
6 k

४२ श्रीहम्मीरमहाकाव्ये [सर्गः
घनसारसारमृगनाभिमिलन्—मलयद्रुनागरजःप्रकरैः ।
कृतदेवनो वनविनोदचिकी—रवरोधवंधुरवधूमधुरः ॥ ३९ ॥
प्रचलदलावलिलसत्पवनं तरुराजिराजितपुरोपवनं ।
प्रययौ स यौवनवयः सवयः—परिहासभासुरतरास्यशशी ॥ ४० ॥
चतुर्भिः कलापकं
तरुणा लसन्नवनवाभरणा अय चेलुरर्हन्तमचेलभृतः ।
मदकृन्मधूत्सवकृते मदनो—द्यमदीप्तदीप्तिमुतनूभिरमा ॥ ४१ ॥
कृतभूष्यापि वदनांबुरुहः सखि सांप्रतं तव रुषोदिषया ।
कृतमेहि सत्वरममुं दयितं सुतरां प्रसाद्य जहि वैरिमुदं ॥ ४२ ॥
इति काचन प्रियसखीवचनैः सुचिरं विमृश्य हृदये निपुणं ।
परिहृत्य मानमुपगत्य पतिं विशदप्रसादललितं व्यतनोत् ॥ ४३ ॥ युग्मं
अनुनेतुमन्यतर इंदुमुखीं विविधेंगितानि विदधन्निपुणं ।
परिरभ्यतेस्म तरसैव तया सपूर्वसूचिततदिंगितया ॥ ४४ ॥
प्रचलालिकाननमितः कितवो विरहा तवांग स किमातनुते ।
प्रविलोकयाव इति कांपि मिषादुपनीय तां प्रियतमाय ददौ ॥ ४५ ॥
अनुनेतुमंबुजदृशः पदयोः पतितस्य कस्यचन वेणिरभात् ।
इदमीयमानमभिपाटयितुं कुसुमायुधस्य तरवारिरिव ॥ ४६ ॥
अयि पश्य शस्यवदने मधुरा मधुवासरा झटिति यांति कथं ।
अधुनापि मानमिममादधती स्वपराहिलं किमु चिकीर्षसि हा ॥ ४७ ॥
इति कश्चन प्रकुपितां दयिता मनुनीय योषिदनुनीतिचणः ।
उपगूहनं प्रतिपदं वितरन्नचलन्मधूत्सवकृते सुकृती ॥ ४८ ॥
न विलोकसे न च ददासि वचः कथमेष जीवतु तवानुचरः ।
इति पीतवल्लभतचा इतरा मदपानतोप्यधिकमाप मदं ॥ ४९ ॥
नवपल्लवाङ्गुतकरां मधुपा—वलिवेणिमिद्धसुमगुच्छकुचां ।
नववल्लभाभिव विलोक्य वनीं दधुरुत्सुकत्वमथ रंतुममी ॥ ५० ॥

५] वसंतवर्णनम् ४३
तरुणीगणे विकरुणं प्रसवा—वचयं विधातुमभियोगवति ।
तरुभिः प्रकंपितमिव प्रवह—त्पवमानेवेलितदलालिमिषात् ॥ ५१ ॥
प्रविहाय काननसुमान्यभितो निपतद्भिरंबुजधिया वदने ।
भृशमुन्मदिष्णुमधुकान्निकरैरुदवेजि काचन सरोजमुखी ॥ ५२ ॥
दयितां लताग्रमपिरोहयता क्वच नापि केनचिददायि तनौ ।
नखरक्षतं यदतनोत्किलितं न मुदं तदीयहृदये कियतीं ॥ ५३ ॥
सुमकंदुकौ निजकरग्रथितौ सहसं प्रदर्श्य किल केन च न ॥
त्वदुरोजकौ ध्रुवमित्यममौ वदतेत्यहासि कुपितापि सुदृक् ॥ ५४ ॥
अयि वल्लभे मधुरगंधमिदं कुसुमं वदन्नितिपरो विदुरः ।
उपनासमाप्य किल सिंघयण—च्छलतः करं न्यधित तामधरे ॥ ५५ ॥
मुखचुंबनं यदि ददासि सकृत् प्रददे तदा कुसुममाल्यमिदं ।
गदतीति भर्त्तरि सखीविदितं त्रपया मुदा च समगदि परा ॥ ५६ ॥
दयितस्य वृक्षमधिरूढवतः पदमाशु पल्लवधिया विधृतं ।
न चकष्र्ष नैव च मुमोच परा तदवाप्तिजातपुलकप्रसरा ॥ ५७ ॥
पुरतो लताततिषु रम्यतमाः प्रसवाः स्फुरंति ननु चंद्रमुखी ।
इति विप्रलोभ्य दयितामितरो विजनप्रदेशमनयद्रतये ॥ ५८ ॥
अयि पश्यतोपि कुसुमस्तवकः क्व गतो ममेति कितवोक्तिपरः ।
करसाद्विधाय दयितोरसिजं निजगाद लब्धमिति कोपि हसन् ॥ ५९ ॥
अयि पश्यतोपि कुसुमस्तवकः क्व गतो ममेति कितवोक्तिपरः ।
प्रममर्द नैकयुवतेः कुचयो र्युगुलं गवेषणपरः--- ॥ ६० ॥
तनुवल्लिवद्धनवपुष्पगलन्—मकरंदलुब्धमधुकृन्निकरः ।
परिरभ्यतेस्म तरुकैतवतो ऽनिविदग्धया प्रियतमः परया ॥ ६१ ॥
फलदाधिरूढहृदयाधिपति—प्रविलोकिनापहृतचेतनया ।
विनरेममंग वितरेममिति प्रसवं वृथैव परयाभिदधे ॥ ६२ ॥
इतरेण गोत्रभिदया प्रहितः कुसुमोच्चयानुवनितामनया ।
प्रहतो --- तव निःश्वसिते रनवेक्ष्य तां किमुदितः प्रति यां ॥ ६३ ॥

४४ श्रीहम्मीरमहाकाव्ये [ सर्गः
अयि पश्य पश्य पुरतो लकुचे सुकुचे कथं भ्रमति भृंगयुवा ।
इति विप्रलोभ्य दयितामितरो निपपौ परां सुचिरमर्द्धदृशा ॥ ६४ ॥
तरुराजितो विकसितप्रसव—प्रकरान्निधाय शिरसि प्रयतान् ।
गुरुझंकृतिप्रमुखरा भ्रमरा वनरक्षका इव परां रुरुधुः ॥ ६५ ॥
दधदंतरा नवतिरस्करिणीमिव तापनोदनमिषेण पटीं ।
वनितां विलोभ्य कितवो हृदयाधिकृतां चुचुंब गतभीरितरां ॥ ६६ ॥
उपवीजयन्निजकराग्रयित—प्रविकाशिभासिकुसुमव्यजनैः ।
कृतविप्रियोपि भृशमन्वनयत् सुदृशं परः स्मरकलाविदुरः ॥ ६७ ॥
तरुशृंगसंस्थितसुमग्रहणे—र्ध्वसरत्करत्वतः सुकृशादुदरात् ।
गलदंबराक्षणमभादपरा प्रकटीभवत्तनुकशक्तिरिव ॥ ६८ ॥
कितवेन पल्लवमिषादधरे विधृते प्रिया यदतनोद्वसितं ।
अभवत्तदेव किल तत्कपट—स्फुटपाटवस्य शशिभासि यशः ॥ ६९ ॥
जडगात्रवर्तनपराङ्ग्गमितां दधदेकबाहुलतया दयितां ।
नलिनं करेण च परेण परः शुशुभे स्मरः सशरचाप इव ॥ ७० ॥
कामिन्याः कुसुमानि चेतुमधिरोहंत्यास्तरुस्कंधकं
भूमौ स्थायिनि दक्षिणे पदतले वामे च शाखास्पृशि ।
कृत्वा किंचन कैतवं विनमितोऽधोनाभिमूलं परो
दृष्ट्वोदीरितकाम ऊर्ध्वसुरते वांच्छामतुच्छां दधौ ॥ ७१ ॥
शाखाग्रस्थमिदं ददासि कुसुमं चेत्तर्हि यद्याचसे
तत्तेहं प्रददे प्रिय ध्रुवमिति प्रोक्तेऽन्यया मुग्धया ।
नीत्वा लग्नकतां तदालिमचिराद्दत्वा च पुष्पं छलात्
आसीद्यद्धृदये द्वयोरपि तयोर्धूर्तेन तत्प्रस्तुतं ॥ ७२ ॥
करांबुजालंबितलंबशाखा मिथोपि संयोजितपादपद्माः ।
आंदोलनिता आलिजनैः स्वयं ता दोलातुलां शिश्रियुरंबुजाक्ष्यः ॥ ७३ ॥
कामिनीकरजकोटिविलून—स्रस्तपल्लववनावनीपीठे ।
पुष्पराजिभिरराजत मुक्ता—वेणिवद्विपुलविद्रुमपात्रे ॥ ७४ ॥

५ ] . वसंतवर्णनम् ४५
प्रसवचोलवतंसककंकण—स्तबकराजिविराजितविग्रहाः ।
शुशुभिरे सुदृशो धृतकंकटा इव भटाः कुसुमायुधभूपतेः ॥ ७५ ॥
इति रुचिरविधाभिः स्वांगसंगोपभोग-
स्फुरितविततलीलाश्रेणिभिः श्रेयसीभिः ।
ऋतुपतिसमयोत्थां काननीं पुष्पलक्ष्मीं
झगिति सफलभावं निन्यिरे पौरवीराः ॥ ७६ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा-
काव्ये वीरांके वसंतवर्णनोनाम पंचमः सर्गः समाप्तः ॥
अथ षष्ठः सर्गः
प्रेक्ष्य काननविलासवशेन स्वेदिनोऽथ तरुणांन्नृपपुत्रः ।
वारिकेलिकलनाय जगन्वान् जैत्रसागरसरः सरसश्री ॥ १ ॥
उलसच्छुकगरुत्समकांति र्यस्यतीरतरुराजिरराजत् ।
चंद्रबिंबमभितः प्रसरंती सिंहिकांगजगजाध्वजिनीव ॥ २ ॥
अंतराप्रतिफलद्रणपूर्व—स्तंभनामपुररम्पतरात्रि ।
यन्नहास विपुलांकविलासि—द्वारकं किल सरिद्दूदयेशं ॥ ३ ॥
तीरूढतरुनीलपलाश—स्मेरजालकहरिन्मणिमुक्तं ।
वृत्तरम्यमवनीवनितायाः कर्णकुंडलतुलामवहद्यत् ॥ ४ ॥
नीलनीरजदलावलिदंभ—व्यक्तलक्ष्मविधृतामृतपूरं ।
यत्कृतावतरणं भुवि रेजे चंद्रबिंबमिव राहुभयेन ॥ ५ ॥
कर्णिकांकविचरन् मधुपोद्य—तारकोन्मिषितपंकजदंभात् ।
आलुलोकिषुनिकामिव लक्ष्मीं यद्दधार शतशो नयनानि ॥ ६ ॥ षद्भिः कुलकं
आयतैश्चलदृशोथ नितंबैः सत्वरं रुरुधिरे वनवर्त्म ।
अग्रतोंबुललनाय यियासू न्वार्यंय इव जीवितनाथान् ॥ ७ ॥
स्वां श्रियं पयसि वीक्ष्य तरुण्यो द्राग्मनांसि चक्रुषुर्मुकुरेभ्यः ।
तत्किमत्र यदि वा प्रमदानां यत्र तिष्ठति मनश्चिरमेव ॥ ८ ॥

यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण प्रस्तुत है:

४६ श्रीहम्मीरमहाकाव्ये [सर्गः
उत्तरंगिणि सरोभसि नार्य श्चिक्षिपुर्विकसितानि सुमानि ।
उज्जिजीविषयेव यजंत्यो मन्मथस्य गिरिशं जलमूर्त्तिं ॥ ९ ॥
तीरसंस्थितविलासवतीनां वारिणि प्रतिफलत्सु मुखेषु ।
स्मेरवारिजधिया निपंततो हासयन्मधुकरास्तरुणौघान् ॥ १० ॥
वारिगोचरजुषां युवतीना मुल्लसत्प्रतिनिधिव्यपदेशात् ।
आतिथेयमिव कर्तुममूषा माविरासतं सरोजलदेव्यः ॥ ११ ॥
अयगाधजलदर्शनजाता—त्तंककंपिततनूस्तनुमध्याः ।
पाणिनाऽथ विनिगृह्य कथंचि द्द्वेशयंति सलिलं स्म युवानः ॥ १२ ॥
किं पुरो विदधतीं जलकेलिं स्वां सखीमपि न पश्यसि मुग्धे ।
दर्शयन्निति च तत्प्रतिबिंबं तां व्यशिश्वसदहो चतुरोन्यः ॥ १३ ॥
अस्यगाधमिह वारि तदेवं न प्रवेष्टुमुचितं तव मुग्धे ।
इत्युदीर्य विविशे कितवेना—न्येन वक्षसि निधाय मृगाक्षीं ॥ १४ ॥
उत्सुकापि सुतरां जलकेला-—वंचले प्रणयिना विधृतापि ।
तद्विलोकरसभावशात्मा काप्यवास्थित तथैव परोपि ॥ १५ ॥
आहतः कुचतटैः प्रमदानां चेतनाविरहितोपि तडागः ।
क्षोभभावमगमत् सहसा य—त्तत्र कारणमसौ रसवत्ता ॥ १६ ॥
अस्पृशत्प्रथममंबु वधूना मंगसंगचपलं जघनानि ।
खेलतिस्म तदनूरुसिजेषु क्व क्रमः स्फुरति हंत जडानां ॥ १७ ॥
जानुदघ्नमपि तत्सरसौभः कंठदघ्नमभवद्द्रुतमेव ।
योषिदंगविगलल्लवणिम्ना स्फीततामुपगृहीतमिवोच्चैः ॥ १८ ॥
आजनेरपि वितीर्णमरंदा—न्यंबुजानि मधुपाः प्रविहाय ।
भेजिरे मृगदृशां वदनानि स्यात्कुतोहि मलिनेषु विवेकः ॥ १९ ॥
संचरच्चटुलदृग्वदनाब्जा—लोकतर्कितनिशाकरबिंबैः ।
खादितुं बिसलतोपगृहीता त्यजे न बुभुजे न च चक्रैः ॥ २० ॥
योषितां स्तनतटे स्खलतोच्चै रस्म्रियंत पयसा पुनरेव ।
शैशवे प्रवहता गिरिमार्गे कूलशैलसबलास्फालनानि ॥ २१ ॥

६ ] जलक्रीडावर्णनम् ४७
प्रेयसीवदनमुक्षितुमात्तं नीरमंजलिपुटे दयितेन ।
तत्र बिंबितमवेक्ष्य तदेवा--मोचिनोपचितभंगभयेन ॥ २२ ॥
सेसिचत् प्रियतमो मदिराक्ष्या शक्तया कुलतया प्रतिसेके ।
गृह्यतेस्म भुजया लघु कंठे बाणयुद्धविदिवासि करेण ॥ २३ ॥
वल्लभे विकसितंबुजमुख्या उन्मदे पिबति वक्त्रसरोजं ।
भ्रश्यदंबुकणकेशकलाप--च्छद्मनालिभिररोदि शुचेव ॥ २४ ॥
गाढपीडितरदावलिरंध्रै र्याः स्त्रियो मुमुचिरे जलधाराः ।
ताभिरास्त मदनः सलिलाश्रो भर्तृमानदहनास्त्रशमाय ॥ २५ ॥
कंठदघ्नपयसि स्थितवत्या जीविताधिपतिना गजगत्याः ।
यद्यबुध्यत तयोर्द्युतिहान्या--ब्जद्वयांतरगतं वदनाब्जं ॥ २६ ॥
श्रीरपाहियत नो नयनाना मेभिरेभिरिति संभृतकोपाः ।
मज्जयंति कमलानि सरस्तू--न्मज्जयंति च मुहुः सुदृशः स्म ॥ २७ ॥
वारिणि प्रतिनिधिव्यपदेशात् व्यत्ययेन मदनश्च रतिश्च ।
तत्तदाप्तरुचिरत्वविशेषौ संश्रिताविव वधूं च वरं च ॥ २८ ॥
कैतवेन करवारिभिरेकां प्राप्य कश्चन पराङ्मुखभावं ।
चुंबतिस्म विदितोदितरागो ऽन्यां मुहुः कमलिनीमिव भृंगः ॥ २९ ॥
शैलसारकठिने प्रमदाना मंभसां स्तनतटे स्खलितानां ।
फेनपंक्तिरिव हारलताया द्विगुते सरसि मौक्तिकपंक्तिः ॥ ३० ॥
अंभसाहृतविलेपनभंगौ योषितां वपुषि कांतकृतानि ।
रेजिरे नखपदानि सपत्न्यु--च्चाटनार्थमिव मंत्रपदानि ॥ ३१ ॥
त्रुट्यतोपि जलपूरितरंध्रैः शुक्तिजन्मभिरपाति न हारात् ।
के त्यजंति सुदृशां कुचयुग्म--स्पर्शसौख्यमभिलब्धरसा वा ॥ ३२ ॥
नीरपूरणवशाद्रितमौनं नूपुरं चटुलपादसरोजे ।
संननाय्यसदवेदि मृगाक्ष्या गुह्यको वट इवानुपलब्धेः ॥ ३३ ॥
कंठदघ्न उदके विहरंती वाणिनीविशदपक्ष्मधत्त ।
स्मेरमब्जमिति तन्मुखवीक्षा--सख्यविश्वसितमानसमाशु ॥ ३४ ॥