हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 88, कुल 185 में से
संदर्भ में पढ़ें५ ] वसंतवर्णनम् ३९
अथ पंचमः सर्गः
अथ जैत्रसिंहनृपतौ धरणिं करणिं दिवः श्रितहरेः सृजति ।
उदजृंभतप्रियसृहत्सुरभिः सुमसायकस्य किल विश्वजितः ॥ १ ॥
पुपुषे ध्रुवं मलयशैलभवोऽनिल एष भोगियुवतिश्वसितैः ।
कथमंन्यथास्य सहता भवति स्म वियोगिनो झगिति मूर्च्छयितुं ॥ २ ॥
ऋतुराजविक्षणरसान्नितरा मरुणेन न ध्रुव मनोदि रथः ।
कथमन्यथा दधु रमी दिवसा गुरुतां रथांगविहगैकहितां ॥ ३ ॥
अतिदुःसहप्रियसृहद्विरहैः प्रमदजनैः कथमिवैष स नः ।
महिमा सहिष्यत इतीव निशाः कृशता मधुमधुरिताः कृपया ॥ ४ ॥
समुदाचरंति मधुपा मलिना न च निर्मला स्फुरति जातिरिह ।
इति वा बभूव ऋतुराट्समयो नवरं न वल्लभतरो यतिनां ॥ ५ ॥
मलयानिलो मलयजैः सुरभौ सुदृशा मुरोजयुगले विलसन् ।
समुपागतं मलयशैलमहा—शिखराधिरोहण ममंस्त पुनः ॥ ६ ॥
अमुना विवर्णितदला मभितो नलिनीं विलोक्य नलिनीदयितः ।
कुपितः प्रहिंसितुमिवैष हिमो—च्चय मभ्यगा द्विमवतः ककुभं ॥ ७ ॥
स्थलतां प्रयाति गगने पवने—रितपुष्पराजिरजसां पटलैः ।
अचलन् यदर्कतुरगाः शनकै स्तदिवास वासरगणोत्र गुरुः ॥ ८ ॥
मधुकप्रसूनमधुपानवशा दतिमात्रमत्तमधुकृद्युवतेः ।
विनिशम्य झंकृतमं दधिरे कति रे न चेतसि विकारभरं ॥ ९ ॥
सहकारसारतरमंजरिका—प्रसनोल्लसन्मधुरिमांचितया ।
परपुष्टया कुसुमकांडकरे ऽरचि लीलया प्यखिलमेव जगत् ॥ १० ॥
इय मागतेव शशिनाशिकुहू रथचेयमान्यलपदन्यभृतः ।
पिककूजितेष्विति न का मुमुदे विषसाद चाध्वगवधू रसकृत् ॥ ११ ॥
शुकचंचुसंनिभपलाशदल—त्कुसुमानि रेजुरभितोनुवनं ।
शमदंतिनं भृशमुपानयतो वशमंकुशा इव सुमेपुविभोः ॥ १२ ॥