हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 87, कुल 185 में से
संदर्भ में पढ़ें३८ श्रीहम्मीरमहाकाव्ये [ सर्गः
अकृत्रिमालंकृतिराननस्य तस्योत्थिते श्मश्रुलते व्यभातां ।
आधिक्यतो घ्राणयुगाध्वनिर्य—च्छृंगारधारे इव नेत्रपेये ॥ १५४ ॥
केशाः केकिकलापकांतिजयिनो वक्त्रं शशिप्रीतिभित्
कंठः कंबुरिपुः कपाटपटुताविशेषि वक्षस्थलं ।
दोर्दंडौ परिघापघातनिबिडौ पादौ कृताब्जापदौ
किंकिं रम्यतरं न यौवनपदं प्राप्तस्य तस्याभवत् ॥ १५५ ॥
विंध्ये सिंधुरवत् धने विधनवत् जातिप्रसूनेऽलिवत्
त्यागे याचकवत् गुणे सगुणवन्न्याये महीपालवत् ।
माकंदे पिकवच्छ्रुते विदुरवत्पाथोरुहे हंसवत्
तस्मिन् संसृजतिस्म वागविषयां प्रीतिं मनो योषितां ॥ १५६ ॥
नारीभिः सुमचाप इत्यमरभूजन्मेति च प्रार्थिभि-
र्गंगाभूरिति सत्यसंगरपरै र्ब्रह्मेति तत्वोन्मुखैः ।
स्वर्भूभूरिति योद्धृभिर्यम इति प्रत्यर्थिपृथ्वीधवैः
कैः कैरेष कथं कथं न युवतामध्याश्रितस्तर्कितः ॥ १५७ ॥
सौंदर्यधन्या अथ सप्तकन्या पित्रा प्रमोदात्परिणायितोसौ ।
चिक्रीड ताभिः सह शश्वदस्तव्रीडं यथा दुश्चवनः शचीभिः ॥ १५८ ॥
हम्मीरादितरावपि क्षितिपतेर्जैत्रस्य पित्र्यानुजौ
जज्ञातेऽगरुहौ गुहाविव जगज्जैत्रप्रतापोदयौ ।
आद्योभादनयोर्नयोदयदलद्दल्लीवसंतः सुर-
त्राणोन्यः परवीरदारणरणारंभप्रभो वीरमः ॥ १५९ ॥
पूर्द्धारार्गलदीर्घपीनभुजभू प्रौढप्रतापज्वलत्-
ज्वालाजिह्वविषावलीकवलितप्रत्यर्थिभूमीधवैः ।
इत्यभ्यस्तनयैस्त्रिभिः स्वतनयैः संसेव्यमानोन्वहं
श्रीजैत्रः क्षितिपः स्म वीरजनकोत्तंसत्वमास्तिष्ठते ॥ १६० ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते हम्मीरमहा-
काव्ये वीरांक तज्जन्मवर्णनोनाम चतुर्थः सर्गः समाप्तः ॥