गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 545, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० ६ । क० ६ ॥ ५०७
४। २४ । ११ ॥ (इन्द्र) हे इन्द्र ! [ बड़े ऐश्वर्य वाले राजन् ] (नु नु) अब
ही (स्तुतः) स्तुति किया गया और (गृणानः) उपदेश करता हुआ तू (नद्यः न)
नदियों के समान (जरित्रे) स्तुति करने वाले के लिये (इषम्) अन्न (पीपेः)
बढ़ा, (हरिवः) हे उत्तम घोड़ों वाले ! (ते) तेरे लिये (नव्यम्) अधिक नवीन
(ब्रह्म) अन्न (अकारि) किया गया है, (धिया) बुद्धि वा कर्म के साथ हम
(रथ्यः = रथ्याः) उत्तम रथों वाले और (सद.साः) सेवकों वाले (स्याम) होवें ॥
कण्डिका ६ ॥
तदाहुः, कथं द्वथुक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता इति । असौ
वै होता योऽसौ तपति, स वा एक एव, तस्मादेकसूक्तः । स यद्दिध्यातो द्वाविवां
भवति, तेज एव मण्डलं भा अपरं शुक्लमपरं कृष्णं, तस्माद् द्वथुक्थः । रश्मयो
वाव होत्राः, ते वा एकैकं, तस्मादेकोक्थाः । तद्यदेकैकस्य रश्मेद्वौ द्वौ वर्णौ भवतः,
तस्माद् द्विसूक्ताः । संवत्सरो वाव होता, स वा एक एव, तस्मादेकसूक्तः । तस्य यद्
द्व्व्यान्यहानि भवन्ति, शीतान्यन्यान्युष्णान्यन्यानि, तस्माद्व्युक्थः । ऋतवो वाव
होत्राः ते वा एकैकं, तस्मादेकोक्थाः, तद्यदेकैकस्यर्त्तौ द्वो द्वो मासो भवतः, तस्माद्
द्विसूक्ताः । पुरुषो वाव होता स वा एक एव, तस्मादेकसूक्तः । स यत्पुरुषो भवत्य-
न्यथैव प्रत्यङ् भवत्यन्यथा प्राङ्, तस्माद् द्वथुक्थः । अङ्गानि वाव होत्राः, तानि वा
एकैकं, तस्मादेकोक्थाः । तद्यदेकैकमङ्गं द्युतिर्भवति, तस्माद् द्विसूक्ताः । तदाहुः,
यद् द्वयुक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ताः, कथं तत् समं भवति, यदेव
द्विदेवत्याभिर्यजन्ति अथो यद् द्विसूक्ता होत्रा इति ब्रूयात्, तदाहुः, यदग्निष्टोम एव
सति यज्ञे द्वे होतुरुक्थे अतिरिच्येते, कथ ततो होत्रा न व्यवच्छिद्यन्त इति । यदेव
द्विदेवत्याभिर्यजन्ति, अथो यद् द्विसूक्ता होत्रा इति ब्रूयात्, तदाहुः, यदग्निष्टोम एव
सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्याप्याययन्ति, अथ कतमेन छन्दसायातया-
मान्युक्थानि प्रणयन्ति, कया देवतयेति । गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात् ।
देवान् ह यज्ञं तन्वानान् असुररक्षांस्यभिचेरिरे यज्ञपर्वणि, यज्ञमेषां हनिष्यामस्तृतीय-
सवनं प्रति तृतीयसवने ह यज्ञस्त्वरिष्टो बलिष्ठः प्रतनुमेषां यज्ञं हनिष्याम इति ।
ते वरुणं दक्षिणतोऽयोजयन्, मध्यतो बृहस्पतिमुत्तरतो विष्णुम् । तेऽब्रुवन् एकैकाः
स्मः, नेदमृतुसहामह इति, स्तु [ अस्तु ] नो द्वितीयो येनेदं सह व्यश्नवामहा इति ।
तानिन्द्रोऽब्रवीत्, सर्वे मद्दितीया स्थेति । ते सर्व इन्द्रं द्वितीयाः, तस्मादैन्द्रा-
वारुणमैन्द्राबार्हस्पत्यमैन्द्रावैष्णवमनुशस्यते । द्वितीयवन्तो ह वा एतेन स्वा भवन्ति,
द्वितीयवन्तो मन्यन्ते, य एवं वेद ॥ ६ ॥
कण्डिका ६ ॥ होताओं और होत्रक लोगों के उक्थों का वर्णन
और असुरों से यज्ञ की रक्षा ॥
(तत् आहुः, कथं होता द्वयुक्थः एकसूक्तः होत्राः एकोक्थाः द्विसूक्ताः
इति) वे कहते हैं—कैसे होता दो उक्थ वाला और एक सूक्त वाला होता है, और होत्रक