सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 189, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 189

बुधे रम्ये” इति मेदिनी । अत्राभिरूप्यं ब्राह्मणकुलं विशिंषदस्य गुणोभवति ।
स चेदुपादीयमानः प्रधानमुपरुणद्धि, गुणत्वमस्य नावकल्पते । गुणोहि प्रधान-
मुपकर्तुं व्याप्रीयते नैतदुपरोद्धुम् । अतएव वेद्यामेवान्ततः कर्म्म कर्त्तव्यम् ।
कर्म्मणः प्रधानत्वात् । तथाच गृहान्तरम्--“अथोत्तरविवाहः प्रागुदीच्याम-
न्यत्र(१) वा ब्राह्मणकुले मन्त्रवति, वेद्यां वा”इति । अस्मादप्यवगम्यते । इतः
प्रभृति “उत्तरविवाह”समाख्यं कर्म्मेति ॥ १ ॥
अत्राग्निरुपसमाहितोभवति ॥ २ ॥
अत्रोक्तविधे ब्राह्मणकुले । उपसमाहितः-लक्षणं कृत्वा स्थापितः । लक्षणं
कृत्वेति सूत्रशेषतयैव केचित्पठन्ति । वेद्याञ्च करणे प्रधानमात्रस्यैव कर्त्तव्यता,
आवृच्च तन्त्रेणैव स्यात् “गणेष्वेकम्परिसमूहनमि-”ति वचनात् । एवञ्च वेद्या-
ङ्करणपक्षे एतस्यापि कर्म्मणोऽनन्तरमेव मन्त्रसमापनं न तु पाणिग्रहणकर्म्मणः
परत एवेति बोध्यम् ॥ २ ॥
अपरेणाऽग्निमानडुहं रोहितञ्चर्म्म प्राग्ग्रीवमुत्तरलोमास्तीर्णम्भवति॥३॥
अपरेणाऽग्निम् । अग्नेः पश्चात् । आनडुहं-वार्षभं रोहितं लोहित(२)व-
र्णं, तदभावेऽन्यदपि “गुणलोपेन प्रधानस्ये-”ति न्यायात् । चर्म्म-शुष्कम् ।
प्राग्ग्रीवम्-पूर्वशिरस्कम् । उत्तरलोम-उत्तरे उपरिष्टालोमानि सन्त्यस्येति तथा-
विधं यथाभवति तथा । आस्तीर्णं प्रसारितम्भवति । उपवेशनार्थं वध्वाः । क-
र्तुरनियमः ॥ ३ ॥
तस्मिन्नेनां वाग्यतामुपवेशयन्ति ॥ ४ ॥
तस्मिंश्चर्म्मणि । एनां वधूं वाग्यतां-नियमितवचनाम् । ( कृतमौनाम् )
उपवेशयन्ति । य एव केचित्कन्यापक्षीयाः ॥ ४ ॥
सा खल्वास्त एवानक्षत्रदर्शनात् ॥ ५ ॥
सा वधूः । नक्षत्रदर्शनं यावदुपविष्टैव तत्र तिष्ठेत् । अन्यत्रात्ययिकादि-
त्यर्थः । एवशब्दादधुनाऽपीत्यर्थ इति भाष्यकारः । दिवा विवाहविषयमेतद्व-
चनम् ॥ ५१ ॥
प्रोक्ते नक्षत्रे षडाज्याहुतीर्जुहोति “रेखासन्धिष्वे”-तत्प्रभृतिभिः॥६॥
( मं० ब्रा० १।३।१-६ )
प्रोक्ते-इति । केनापि नक्षत्रमुदितमित्युक्ते इत्यर्थः । अत्राज्यतन्त्रविहितो-
( १ ) उक्तविध्युक्तब्राह्मणगृहे । तदलाभे वेद्यामपीत्यर्थः ॥
( २ ) “रोहितोलोहितोरक्तः” इत्यमराद्रक्तवर्णमित्यर्थः ॥ एष आचारोयुगान्तर-
विषयः ।