गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 188, कुल 332 में से
संदर्भ में पढ़ें२ कण्डिका ] गोभिलगृह्यसूत्रे- १५७
'मम चित्तमनु' मच्चित्तानुकूलं 'ते' तव 'चित्तं' मनः 'अस्तु' भवतु । 'एकमनाः'
अनन्यचित्ता त्वम् 'मम वाचं' 'जुषस्व' सेवस्व(१) । हृष्टचित्ताऽऽदरेण कुरु ।
'त्वा' त्वां स 'मह्यम्' मदर्थं ( माम्प्रसादयितुम् ) 'नियुनक्तु' नियोजयतु
अन्तर्भावितण्यर्थो युजिरत्र ॥ इति ॥ १५ ॥
समाप्तासूहन्ति(२) ॥ १६ ॥
इति श्रीमद्गोभिलीये गृह्यसूत्रे द्वि० प्र० स्य द्वितीया कण्डिका ॥ २ ॥ २ ॥ ॐ ॥
समाप्तासु पाणिग्रहणक्रियासु वरसहाया वधूं विद्यादिसम्पन्नं ब्राह्मणकुलं
यत्र तत्र उद्वहन्ति—उद्वहेयुर्नयेयुरित्यर्थः । तथाच गृह्यसंग्रहे—
“यत्र विद्या च वृत्तञ्च सत्यं धर्मः शमोदमः ।
अभिरूपः स विज्ञेयः स्वाश्रमे यो