गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 190, कुल 332 में से
संदर्भ में पढ़ें२ कण्डिका ] गोभिलगृह्यसूत्रे- १५६
महाव्याहृतिहोमः पुरस्ताच्चोपरिष्टाच भवति । आज्यभागौ स्विष्टकृच्च न
भवन्तीत्यवगन्तव्यम् ॥ ६ ॥
मन्त्रा यथा-
“रेखासन्धिषु पद्मस्वावर्त्तेषु च यानि ते ।
तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यह ँस्वाहा ॥ १ ॥
“केशेषु यच्च पापकमीक्षिते रुदिते च यत् । ” ” ॥ २ ॥
“शीले यच्च पापकम्भाषित हसिते च यत् । ” ” ॥ ३ ॥
“आरोकेषु च दन्तेषु हस्तयोः पादयोश्च यत् । ” ” ॥ ४ ॥
“ऊर्वोरुपस्थे जङ्घयोः सन्धानेषु च यानि ते । ” ” ॥ ५ ॥
यानि कानि च घोराणि सर्वाङ्गेषु तवाभवन् ।
पूर्णाहुतिभिराज्यस्य सर्वाणि तान्यशीशम ँ स्वाहा ॥ ६ ॥
एषामर्थाः । हे कन्यके ! ‘ते’ तव ‘रेखासन्धिषु’ हस्तादिरेखासन्धिस्यानेषु ।
‘पद्मषु’-नेत्रपिधानस्यानेषु । ‘आवर्त्तेषु’ ककुदावर्त्ताद्यभिधेषु लोमसन्निवेश-
विशेषेषु । ककुन्दरादिद्वारेषु वा ।(१) ‘च’ कारः समुच्चयार्थः । एवमनेकधा
‘यानि’ अलक्षणानि ‘ते’ तव सन्ति । ‘तानि’ ‘सर्वाणि’ अशेषारिण ‘अहं’
पाणिग्राहः ‘शमयामि’ शान्तिङ्गमयामि । तदेतत् ‘स्वाहा’ सुहुतमस्तु ॥ १ ॥
हे कन्ये ? ‘यत्’ ‘ते’ तव ‘केशेषु’ चिकुरेषु ‘ईक्षिते’ दर्शने । ‘च’ ‘यत्’ ‘रुदिते’
अश्रुविमोचने यत् किञ्चित् ‘पातकम्’ अलक्षणमस्ति । ‘तानि’ ‘सर्वाण्य’पि ‘ते’
तवसम्बन्धीनि‘पूर्णाहुत्ये’-त्यादि गतार्थम् ॥ २ ॥
हे कन्यके! ‘यत्’ ‘ते’ तव ‘शीले’ वृत्ते (चरित्रे) ‘च’ कारादामिरूप्ये ‘भा-
षिते’ वचने ‘हसिते’ हसने ‘च’ काराद्गमने ‘यत्पापकम्’ अलक्षणमस्ति । ता-
नि सर्वाणी” त्यादि गतार्थम् ॥३॥ हे कन्यके ? ‘यत्’ ‘ते’ तव ‘आ’ समन्तात्
‘रोकेषु’ दन्तच्छिद्रेषु ‘छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्र”-मित्यमरः । ‘दन्तेषु’
‘यच्चहस्तयोः पाद्योः’ ‘च’ कारादङ्गुलफयोः ‘पापकम्’ अलक्षणमस्ति । तानि
सर्वाणीत्यादि गतार्थम् ॥ ४ ॥ एवं ‘सन्धानेषु’ रेखासन्धिव्यतिरिक्तेषु सन्धि-
स्थानेषु ‘च’ कारान्मुखे यान्यलक्षणानीत्यादिगतार्थम् ॥ ५ ॥ ‘यानि’ प्रकृतान्य-
प्रकृतानि च ‘कानि च’ कानिचित् । ‘घोराणि’ क्रूराणि लक्षणानि ‘तव सर्वा-
ङ्गेषु’ अभवन्’ । तानि सर्वाणि’ ‘आज्यस्य पूर्णाहुतिभिः’ ‘अहम्’ ‘अशीशमम्’
अनाशयम् । तदेत‘स्वाहा’ सुहुतमस्तु ॥ ६ ॥
आहुतेराहुतेस्तु सम्पातं मूर्द्धनि वध्वा अवनयेत् ॥ ७ ॥
आहुतेराहुतेरिति । प्रत्याहुति शेषं स्रुवलग्नमाज्यं वधूरशिरसि दद्यात ।
( १ ) नितम्बस्थौ ( पृष्ठवंशाधोभागे विद्यमानौ ) कूपकौ ( गतौ ) कुकुन्दरे उच्ये-