सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

२२६ गन्धर्वतन्त्रे ।
गुरुं संपूज्य विधिवत् तदा पूजां समापयेत् ॥ ९ ॥
कुमार्यै भोजनं दत्त्वा विप्रानपि च भोजयेत् ।
अत ऊर्ध्वं पुनर्दीक्षां लज्जजापं समाचरेत् ॥ १० ॥
महात्रिपुरसुन्दर्या योगिनीनां तथैव च ।
द्व्यहं वाथ त्र्यहं वापि पूजाशून्यं करोति यः ॥ ११ ॥
सिद्धिहानिर्भवेत् तस्य योगिनीशापमालभेत् ।
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ॥ १२ ॥
तस्य मांसं च शुक्रं च रूपशोणितमेव च ।
अभीष्टानपि कामांश्च हिंसन्ति योगिनीगणाः ॥ १३ ॥
बन्धुभिः कलहो घोरः कलत्रैश्च विशेषतः ।
सस्यशून्या भवेदुर्व्वी विघ्नस्तस्य पदे पदे ॥ १४ ॥
सत्यं सत्यं भवेद्रोगी दरिद्रश्चोपजायते ।
इहैव दुःखमाप्नोति त्रिविधं लोमहर्षणम् ॥ १५ ॥
परे स्वर्गात् परिभ्रष्टः क्षितौ क्षितिप[ला?ना]यकः ।
अतुलां भक्तिमासाद्य कैवल्यं लभते ततः ॥ १६ ॥
ब्रह्मचिन्ताप्रवृत्तो यः सोऽपहाय च दैवतम् ।
विना(ल?न)या प्रवर्तेत ब्रह्मघाती स एव तु ॥ १७ ॥
जपध्यानपरो मन्त्री योगक्षेमपरायणः ।
स्वयं यदि भवेन्मूढो गुरुं तत्र नियोजयेत् ॥ १८ ॥
ज्ञानकर्मपरः शुद्धः सर्वदेवमयः प्रभुः ।
सिद्धयः सकलास्तस्य गुरुर्यस्य हिते रतः ॥ १६ ॥
मासतो वर्षतो वापि स्वयं पुण्याहयोगतः ।

चतुर्विंशः पटलः । २२७
कुर्याद्वै महतीं पूजां संपन्नाङ्गविभूषिताम् ॥ २० ॥
उपहारैर्बहुविधैरलंकृतसुविग्रहाम् ।
नित्यमेवार्चनं देव्या नित्यमेव समाचरेत् ॥ २१ ॥
नित्याचारपरो मन्त्री नैमित्तिकवि(धं?धिं) चरेत् ।
नित्यनैमित्तिकपरः साधुः काम्यं विचिन्तयेत् ॥ २२ ॥
काम्यान्नैमित्तिकं नित्यं नित्यं नैमित्तिकात् परम् ।
नित्याचारविलोपी यः काम्यं नैमित्तिकं च वा ॥ २३ ॥
करोति स च दुर्मेधा नाप्नोति तस्य तत्फलम् ।
नित्याचारमनादृत्य यदन्यत्तु समीहते ॥ २४ ॥
निष्फलं तस्य तत्कर्म वन्ध्यास्त्रीमैथुनं यथा ।
अपि पुष्पफलैर्वापि पूजयेच्चक्रदेवताः ॥ २५ ॥
अङ्गहीनं तु पुरुषो न सम्यग्याज्ञिको भवेत् ।
अङ्गहीना तथा पूजा न सम्यक्फलदायिनी ॥ २६ ॥
ध्यानं पूजा जपो होम इति हस्तचतुष्टयम् ।
शरीरं न्यासजालं तु आत्मा तज्ज्ञानमेव च ॥ २७ ॥
भक्तिः शिरोऽत्र हृच्छ्रद्धा कौशलं नेत्रमीरितम् ।
एवं यज्ञशरीरं तु मत्वा साधकसत्तमः ॥ २८ ॥
यज्ञं समापयेन्नित्यं साङ्गमेवं खलु प्रिये ।
अङ्गहीने महान् दोषस्ततोऽङ्गं नावधीरयेत् ॥ २६ ॥
सर्वाङ्गपूर्णपुरुषो यज्ञाख्यः सर्वसिद्धिदः ।
तत्तदीहापरा शक्तिः सिद्धिः संयोगतस्तयोः ॥ ३० ॥
१ 'कर्मेव वा' ख पाठः । २ 'साङ्गेनैव' ख. पाठः । ३ 'पूर्णयज्ञः' क. पाठः ।

२२८ गन्धर्वतन्त्रे ।
श्रीमत्त्रिपुरसुन्दर्याः पूर्णो यज्ञशरीरके ।
अङ्गबाधे यथा दोषो नान्यस्य हि तथा भवेत् ॥ ३१ ॥
स्वविभवा(न्न?नु)रूपा वै पूजा कार्या विभूतये ।
व्यतिक्रमात् तु हीनः स्याद् ब्रह्महत्यामवाप्नुयात् ॥ ३२ ॥
नाधिकं नैव च न्यूनमुभयं पापदायकम् ।
चतुर्दश्यामथाष्टम्यां पूर्णायां मासमध्यतः ॥ ३३ ॥
महाभूतदिने वापि यजेद् विभवविस्तरम् ।
कृष्णायाथ चतुर्दश्या युक्तं कुजदिनं यदा ॥ ३४ ॥
महाभूतदिनं तत्तु सर्वभूतवशंकरम् ।
यदि पुष्यो¹ भवेत् तत्र तदानन्तफलप्रदम् ॥ ३५ ॥
मन्त्रं यदि श्मशाने तु शवोपरि यथाविधि ।
अथवा प्रजपेद् देवीं मातृकां नीलरूपिणीम् ॥ ३६ ॥
कृत्वा जप्त्वा तदा कुर्याद् भूतप्रेतपिशाचकान् ।
तान् वशीकृत्य तल्लोके तथेह तैः सहा(स?ग)तः ॥ ३७ ॥
वशीकृत्य श्रिया युक्तो मोदते पुत्रपौत्रकैः ।
यथा तथा गृहे बाह्ये कृत्वा जप्त्वा नरो बुधः ॥ ३८ ॥
राक्षसान् किंनरान् कृत्वा तल्लोके च तथेह च ।
तैश्च प्रमुदितो भोगी भोगान् भुङ्क्ते यथेच्छया ॥ ३६ ॥
निजगृहे सदा यस्तु पवित्रे सुमनोहरे ।
कृत्वा जप्त्वा नरः प्राज्ञो यक्षान् सर्वान् वशं नयेत् ॥ ४० ॥
भुक्त्वा च मुदितो लोके धनी धनविशारदः ।


१ ' ष्या ' ख पाठ ।

चतुर्विंशः पटलः । २२६
धनप्राणो धनात्मा च सुखं तदनुचिन्तनात् ॥ ४१ ॥
अनुभूय तदानन्दं तदिहापि विराजते ।
नदीनद्समीपे तु पितृपीठेऽथवा प्रिये ॥ ४२ ॥
कृत्वा जप्त्वा च तल्लोके तथैह तैः प्रमोदितः ।
कामात्मा कामरूपी च कामी काममनोहरः ॥ ४३ ॥
कामयित्वाखिलान् कामान् कामराज इवापरः ।
राजते सततं राजा राजभिश्चैव वाजिभिः ॥ ४४ ॥
पुण्यक्षेत्रे महापीठे पुण्यवृक्षसमीपके ।
कृत्वा जप्त्वा नरो मानी मान्योऽयं यमलोकराट् ॥४५॥
सर्वदा[युञ्जते?यं जयो]लोके राजते सिद्धिं¹भूमिषु ।
मानुषत्वं विना सिद्धिः पुनः परमदुर्ल[भं?भा] ॥ ४६ ॥
यस्मात् तत् सर्वलोकानां भोगप्रत्यक्षदायकम् ।
प्रफुल्लकुसुमाकीर्णे उद्यानेऽतिमनोहरे ॥ ४७ ॥
प्रफुल्लकुन्दसंमोदप्रपूरितदिगन्तरे ।
वृक्षमूलेऽथवा जप्त्वा कृत्वा हस्तं स्वमस्तके ॥ ४८ ॥
गन्धर्वरूपवान् भूत्वा गीतनृत्यविशारदः ।
गन्धर्वान् किंनरान् कृत्वा तल्लोके च तथैह तैः ॥ ४६ ॥
आनन्दं परमं लब्ध्वा गीतनृत्यादिगोचरम् ।
तदानन्दमये रम्ये मोदते तत्प्रसादतः ॥ ५० ॥
नागलोकसंधिभूमौ वने गिरिगुहासु च ।
कृत्वा जप्त्वा सदा देवीं नागान् सर्वान् वशं नयेत् ॥५१॥
१ 'द्ध' ख पाठ. ।

२३० गन्धर्वतन्त्रे ।
तैः सह मुदितः प्राज्ञस्तल्लोके च तथेह च ।
भुङ्क्ते बहुविधान् भोगान् नागलोकप्रतिष्ठितान् ॥ ५२ ॥
परकीये यदा यत्र पश्यन्नच्छविलोकिते(?) ।
कृत्वा जप्त्वा नरो धर्मादाक्षरं लोकमाप्नुयात् ॥ ५३ ॥
तानेव वशगान् कृत्वा तल्लोके च तथेह च ।
मोदते सततं वीरः सुरासुरविचेष्टितैः ॥ ५४ ॥
यत्र कुत्र महापीठे सौरे सूर्यविलोकने ।
कृत्वा जप्त्वा महातेजा भवरोगतमोपहः ॥ ५५ ॥
उदेति सविता सूर्यः सूर्यलोके तथेह च ।
वने सर्वान् वशे कृत्वा वशी वशं नयेज्जगत् ॥ ५६ ॥
पुण्यनद्यां जलान्ते यस्तदन्तर्वा निरन्तरम् ।
सदा पुण्यज(न?ल)स्नायी तत्पायी तद्विहारवान् ॥ ५७ ॥
कृत्वा जप्त्वा नरः प्राज्ञो ब्रह्मर्षिलोकसंज्ञके ।
ब्रह्मर्षिभिर्मुदा तत्र तथेह तँत्प्रसादतः ॥ ५८ ॥
भोगान् भुङ्क्ते सै विप्रर्षिब्रह्मघोषपुरःसरान् ।
महत्या च(प्रि?श्रि)या युक्तो ब्राह्मया चैवातिशुद्धया ॥५६॥
राजते सततं राजा (रा?वा)जिराजविहारवान् ।
देवतायतने [ध?पु]ण्ये नित्यपूजागृहे तथा ॥ ६० ॥
देवताः प्रतिगृह्णन्ति देवतायतने कृ[ताः?ताम्] ।
उद्याने स्वस(मां?मी)पस्थे गृहे चातिमनोहरे ॥ ६१ ॥

१ 'तै स प्रमु' ख पाठ । २ 'पुण्यानदी' ख पाठः । ३ 'न्ते वा ' ख पाठः ।
४ 'ते प्र' ख पाठ । ५ 'भक्ते सविप्र भोगान्' ख. पाठः । ६ 'ब्राह्मया' ख पाठ ।

चतुर्विंशः पटलः । २३१
नित्यमावाहयेत् तत्र मधुपर्कादिभिर्यजेत् ।
देवांस्तत्र विजानीयात् तेषां सांनिध्ययोगतः ॥ ६२ ॥
देवताभवनैस्तुल्ये शोभिते देवशोभया ।
निर्जने चातिशुद्धे च गन्धधूपोत्करे शुभे ॥ ६३ ॥
दीपदर्पणघण्टादिकुसुमोत्करभूषिते ।
देवपीठे महापुण्ये मह(दु?त्यु)च्चग्रहे तथा ॥ ६४ ॥
कृत्वा जप्त्वा नरो देवि कारयेद्वशगान् सदा ।
भावनावशसंपन्नो नरो दि(व्यो?वि)तथेह च ॥ ६५ ॥
दीव्यते देववद् देवो देवभोगीविहारवान् ।
दिव्यदर्शी दिव्यरूपी दिव्यभोगविहारवान् ॥ ६६ ॥
देवैः संमानितो मानी देववद्विहरेत् क्षितौ ।
विमानगामिभिर्यानैर्गजवाजिपुरःसरैः ॥ ६७ ॥
शिवालये शिवक्षेत्रे शिवलिङ्गसमीपके ।
कृत्वा जप्त्वा शिवामोदी शिवलोके तथेह च ॥ ६८ ॥
मोद्ते सततं योगी युक्तः शिवद्किंकरैः ।
विष्णुक्षेत्रे महापुण्ये विष्णुगेहे तदन्तिके ॥ ६९ ॥
वैष्णवं भावमाश्रित्य कृत्वा जप्त्वाथ साधकः ।
वैष्णवान् वशगान् कृत्वा विष्णुलोके तथेह च ॥ ७० ॥
मोदते सततं शुद्धः स्वयं विष्णुरिवापरः ।
विष्णूपीठे परा सिद्धिः सद्यो देवत्वदायिनी ॥ ७१ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे कुमारीपूजामहिम-प्रयोगादिमाहात्म्य-
निरूपणं चतुर्विंशः पटलः ॥ २४ ॥
१ 'गी' क पाठ ।

पञ्चविंशः पटलः ।
—❧—
ईश्वर उवाच
पुण्यक्षेत्राणि वक्ष्यन्ते शृणु प्राधान्यतो मम ।
पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकम् ॥ १ ॥
तीर्थप्रदेशाः सिन्धूनां संगमः पावनं वनम् ।
उद्यानानि विविक्तानि बिल्वमूलं तटं गिरेः ॥ २ ॥
तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम् ।
अश्वत्थामलकीमूलं गोशाला जलमध्यतः ॥ ३ ॥
देवतायतनं कूलं समुद्रस्य निजं गृहम् ।
गुरूणां संनिधानं च चित्तैकाग्र्यस्थलं तथा ॥ ४ ॥
सर्वेषामुत्तमं प्रोक्तं निर्जनं पशुवर्जितम् ।
यत्र तत्र नरः पूजां निर्जने कुरुते तु यः ॥ ५ ॥
तस्यै दत्ते शुभं देवि पत्रं पुष्पं फलं जलम् ।
श्रद्धाभ[क्त्रा?त्त्यो]श्च बाहुल्यात् पूजाद्रव्यस्य विस्तरात् ।६।
देव्याः संनिधिरत्र स्यान्निर्जने पूजनात् तथा ।
वाराणस्यां सदा पूजा सम्पूर्णफलदायिनी ॥ ७ ॥
ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसंनिधौ ।
ततोऽपि द्विगुणा प्रोक्ता द्वारवत्यां विशेषतः ॥ ८ ॥
सर्वक्षेत्रेषु पीठेषु पूजा द्वारवतीसमा ।
विन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा ॥ ६ ॥

पञ्चविंशः पटलः । २३३
आर्यावर्ते मध्यदेशे ब्रह्मावर्ते$^१$ तथैव च ।
विन्ध्यवत् फलदा पूजा प्रयागे पुष्करे तथा ॥ १० ॥
ततश्चतुर्गुणा प्रोक्ता करतोयानदीजले ।
तस्माच्चतुर्गुणफला नन्दिकुण्डे च पार्वति ॥ ११ ॥
ततश्चतुर्गुणा प्रोक्ता जल्पीशेश्वरसंनिधौ ।
तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा मता ॥ १२ ॥
ततश्चतुर्गुणा प्रोक्ता लौहित्यनदपाथसि ।
तत्समा कामरूपे च सर्वत्रैव जले स्थले ॥ १३ ॥
सर्वश्रेष्ठो यथा विष्णुर्लक्ष्मीः सर्वोत्तमा यथा ।
देवीपूजा तथा शस्ता कामरूपे सुरालये ॥ १४ ॥
देवीक्षेत्रं कामरूपं विद्यतेऽन्यन्न तत्समम् ।
अन्यत्र विरला देवी कामरूपे गृहे गृहे ॥ १५ ॥
ततः शतगुणा प्रोक्ता नीलकूटस्य मस्तके ।
ततोऽपि द्विगुणा प्रोक्ता हारके शिवलिङ्गके ॥ १६ ॥
ततोऽपि द्विगुणा प्रोक्ता दाक्षायण्याः स्वयोनिषु ।
ततः शतगुणा प्रोक्ता$^३$ कामाख्यायोनिमण्डले ।
कामाख्यायां महादेवीपूजां यः कृतवान् सकृत् ॥ १७ ॥
स चेह लभते कामान् परत्र शिवरूपता(म्) ।
न तस्य सदृशोऽन्योऽस्ति रिपुस्तस्य न विद्यते ॥१८॥
वाञ्छितं समवाप्नोति चिरायुरभिजायते ।
वायोरिव गतिस्तस्य भवेदन्चैरबाधिता ॥ १६ ॥
१ ‘ह्मदेशे’ क. पाठ. । २ ‘ल्ले’ ख पाठ. । ३ ‘र्णां प्रोक्त’ ख पाठ ।

२३४ गन्धर्वतन्त्रे ।
संग्रामे शास्त्रवादे च दुर्जयः स हि जायते ।
मूलमूर्तिर्महादेव्या योनिरूपा निगद्यते ॥ २० ॥
तत्र संपूज्य तां देवीं पुनर्जन्म न विद्यते ।
पुण्यक्षेत्रमिति प्रोक्तं न प्रकाश्यं कदाचन २१
देव्युवाच
संग्रामे सूतके चैव रोगभीतौ तथापदि ।
तदा किं स्यान्महादेव तदिह कथयस्व मे ॥ २२ ॥
ईश्वर उवाच
अशौचं साधकेन्द्राणां नास्ति रोगभयं तथा ।
शुचीनां धर्मचर्याणामापदामुद्भवः कुतः ॥ २३॥
यदि विघ्नो भवेद् देवि पूर्वकर्मनिबन्धनात् ।
तदैवं परमेशानि विधिं कुर्याद्विचक्षणः ॥ २४ ॥
गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ।
एतैर्हीना तु या पूजा न सा कल्याणदायिनी ॥२५॥
पुष्पाञ्जलिं विधायाथ पूजयेच्चक्रदेवताः ।
अष्टकोणं त्रिकोणं वा बैन्दवं परिपूजयेत् ॥ २६ ॥
एवं कृत्वा जपेद्विद्यां समर्प्य च विसर्जयेत् ।
कुमार्यै भोजनं दत्त्वा संपूर्णफलभाग् भवेत् ॥ २७ ॥
अथवाऽद्वैतभावेन आत्मानं तन्मयं स्मरेत् ।
अद्वैतभावसंपन्नास्त्रिपुरीकृतविग्रहैः ॥ २८ ॥
आत्मन्येव यजेद् देवीमुपचारैर्यथाविधि ।
१ 'हे' ख पाठ ।

पञ्चविंशः पटलः । २३५
निजदेहाख्ययन्त्रं तु सर्वयन्त्रात् परं शिवम् ॥ २६ ॥
आनन्दहृदयं कृत्वा स(दोन्ना?दा न्या)सेन मानवः ।
गुरून् नुत्वा विधानेन जपेद्विद्यामनन्यधीः ॥ ३० ॥
सुगन्धिपुष्पमालाभिः स्वर्णांलंकारभूषणैः ।
स्निग्धं सुमधुरं यन्त्रं कामरूपं मनोहरम् ॥ ३१ ॥
कृत्वा सुमङ्गलं देहे मृदुभाषणसस्मितम् ।
अहिंसावृत्तमाश्रित्य सर्वप्राणिहिते रतः ॥ ३२ ॥
निजभावे सदा तिष्ठेद् देववद्विहरेत् क्षितौ ।
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ॥ ३३ ॥
वीतरागभयक्रोधो मनोऽहंकारवर्जितः ।
योषिदन्ते पुरश्चर्या कार्या रात्रौ नचान्यथा ३४
मनस्तुष्टौ समुत्पा(न्ने?ते) सिंहव्याघ्रसमाकुले !
परसैन्यागमे वापि कुर्यान्मानसपूजनम् ॥ ३५ ॥
कारागारनिबन्धे वा पूजाद्रव्यविहीनकः ।
इदं रहस्यं परममिदं स्वस्त्ययनं महत् ॥ ३६ ॥
मन्त्रवेदमयं शुद्धं पूजाक्रममनुत्तमम् ।
गोपयेद् यत्नतो दिव्यं सर्वसिद्धिप्रदायकम् ॥ ३७ ॥
ज्ञानदं कामदं श्रेष्ठं सद्यः प्रत्ययकारकम् ।
यस्मै कस्मै न दातव्यं नास्तिकाय कदाचन ॥ ३८ ॥
एतज्ज्ञानात् परं ज्ञानी सद्यो भवति तत्क्षणात् ।
देव्युवाच
कथं तन्मानुषे लोके लोकानां दर्शनं भवेत् ॥ ३६ ॥

२३६ गन्धर्वतन्त्रे ।
तत्कथय महादेव लोकदेशविभेदतः ।
ईश्वर उवाच
मानुषे¹ भारतं श्रेष्ठं तत्र च पुण्यदेशकम् ॥ ४० ॥
लोकाः पुण्यपराः श्रेष्ठास्तेषां ज्ञानी विशिष्यते ।
ज्ञानपुण्यविहीनास्तु पिशाचा भोगतत्पराः ॥ ४१ ॥
पशुप्रायजना म्लेच्छाः प्रेतलोकनिवासिनः ।
तदस्तीति प्रमाणेन जानाति² न समीहते ॥ ४२ ॥
भुङ्क्ते बहुविधान् भोगान् भूतलोकप्रमाणकः ।
भक्ष्याभक्ष्यं न जानन्ति कार्याकार्यमथापि वा ॥ ४३ ॥
वर्तन्तेऽविधिना यज्ञे भोगैर्मधुपुरस्कृतैः ।
ते पुनरिह देवेशि निशाचरप्रमाणकाः ॥ ४४ ॥
जीवनं धनमेवात्र धनचिन्तारापयणैः³ ।
धनसंचयकारी च दानभोगवहिष्कृतः ॥ ४५ ॥
शिश्नोदरसुखै यस्तु केवलं वर्तते जनः ।
यक्षलोकप्रमाणी च यक्षलोके महीयते ॥ ४६ ॥
सदाचारमये देशे सदाचारविहारवान् ।
अरोगो रूपवान् भोगी पितृलोके महीयते ॥ ४७ ॥
मध्यदेशे महापुण्ये देवनदीसमन्विते ।
पूज्यपूजकभावेन यज्ञायज्ञविशारदः ॥ ४८ ॥
शुद्धान्तःकरणो विज्ञो मानुषैलोकसूचकः ।
१ ‘ष’ ख. पाठ । २ ‘नन्ति’ ख पाठ. । ३ ‘णा.’ ख. पाठ. । ४ ‘सु’ क.
पाठ. । ५ ‘षो’ ख पाठ ।

पञ्चविंशः पटलः । २३७
भोगमोक्षप्रदे शुद्धे कृष्णमृगविचेष्टिते ॥ ४६ !॥
कर्तव्यमिति सर्वाणि श्रुतिस्मृतिमयानि च ।
कुरुते सततं भोगी दानभोगपरायणः ॥ ५० ॥
देववद् विहरेल्लोके देवलोकप्रमाणकः ।
अथ त्रिगुणरूपिण्याः पीठे त्रैगुण्यहारिणि¹ ॥५१॥
महादेव्या महापुण्ये गुह्ये वा प्रकटेऽपि च ।
निरानन्दैरथानन्दैर्दक्षिणोत्तररूपकैः ॥ ५२ ॥
अतदात्मा तदात्मा च योगी वा भोगसंयुतः ।
निस्त्रैगुण्यो भवेद् देवि महादेवीप्रसादतः ॥ ५३ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पुण्यपीठ-आपत्कालपूजादिविधि-
निरूपणं पञ्चविंशः पटलः ॥ २५ ॥
१ 'निस्त्रैगुण्यदायके' क पाठः । २ 'थवा' क. पाठः ।

षड्विंशः पटलः ।
देव्युवाच
कीदृशो वा भवेच्छिष्यः कीदृशो वा भवेद्गुरुः ।
कीदृशी वा भवेद् दीक्षा कथं कुर्याद्वद प्रभो ॥ १ ॥
ईश्वर उवाच
अथ दीक्षां प्रवक्ष्यामि मन्त्रिणां हितकाम्यया ।
विनानया न चैव स्यात् सर्वमन्त्रफलं यतः ॥ २ ॥
ज्ञानं दिव्यं यतो दद्यात् कुर्यात् पापक्षयं यतः ।
अतो दीक्षेति सा प्रोक्ता गुरुशिष्यौ वदामि ते ॥६३॥
आदौ विद्यावतारोऽयं दक्षिणामूर्तिरव्ययः ।
गुरुर्भूत्वैव भगवान् महाविद्यां ददानि वै ॥ ४ ॥
दिव्यो गुरुऋषिः सोऽथ दिव्यां विद्यां प्रकाश्य च ।
दिव्यौघान् अकरोच्छिष्यान् वक्ष्येऽथ शृणु पार्वति ।
प्रकाशोऽथ विमर्शो(र्शे)ऽन्यस्त्वानन्दोऽपर इत्यपि ॥ ५॥
नामभेदादहं लोकेऽकल्पयं दिव्यरूपतः ।
त्रयस्तेभ्यः समुत्पन्नाः सिद्धाश्च त्रय एव ते ॥ ६ ॥
ज्ञानं सत्यं पूर्ण इति श्रीमुखास्ते समीरिताः ।
दिव्या मदन्तिके नित्यं सिद्धा भूमाविहापि च ॥ ७॥
निवसन्ति ततस्तेभ्यः समभूवंस्त्रयस्तथा ।
खभावः प्रतिभस्तद्वैत सुभगश्चेति नामतः ॥ ८ ॥
१ 'स्व' क पाठ ।

षड्विंशः पटलः । २३६
ते भूमावेव सततं निवसन्ति मदात्मकाः ।
प्रसन्नवदनाः सर्वे वराभयकरान्विताः ॥ ९ ॥
द्विनेत्रा द्विभुजा एते ललिताकारसंयुताः ।
मायालक्ष्म्यादिकास्तद्दारूया आनन्दनाथगाः ॥ १० ॥
नवानां नवनामानि नवार्णानि पृथक् पृथक् ।
तानि सप्ताक्षरीयोगात् प्रत्येकं षोडशाक्षरम् ॥ ११ ॥
नित्याषोडशरूपाणि तानि ज्ञेयान्यनुक्रमात् ।
विमला जयिनी मध्ये पूज्या एवं वरानने ॥ १२ ॥
नाम पर्यायतः प्राप्तं कालावाप्तमिति द्वयम् ।
प्रसिद्धं बाह्यतोऽन्यच्च त्रीणि नामानि साधके ॥ १३ ॥
मनुष्यरूपसंप्राप्तः सर्वतन्त्रार्थतत्त्ववित् ।
मन्त्रतन्त्रावता(वोध?राय)विचराम्यहमेव सः ॥ १४ ॥
गुरुः शाक्तो भवेद् ऋद्धयै तदन्यो विपरीतदः ।
गुरुः सर्वगुणोपेतो दोषैरस्पृष्टमानसः ॥ १५ ॥
अरोगी नातिवृद्धश्च(स?सु)वचा मि(स्व?ष्ट)भाषणः ।
सुन्दरः सुमुखः स्वच्छस्त्वलोभी बहुमन्त्रवित् ॥ १६ ॥
असंशयः संशयच्छिन्निन्रग्रहानुग्रहे प्रभुः ।
निर्द्वन्द्वो निरहंकारः सत्यवादी दृढव्रतः ॥ १७ ॥
आश्रम्याश्रमधर्मज्ञो मात्सर्यरहितः शुचिः ।
अबहुमन्त्रदो वाग्मी जपपूजापरायणः ॥ १८ ॥
सर्वतन्त्रार्थवेत्ता च दयावान् नच हिंसकः ।
१ ' सुलभो ' ख पाठ ।

२४० गन्धर्वतन्त्रे ।
यदृच्छालाभसंतुष्टः शान्तो नियमवानृजुः ॥ १६ ॥
स्मेरपूर्वाभिभाषित्त्वं स्वच्छताऽजि(च?ह्म)वृत्तिता ।
संतोषित्त्वमगर्वित्वमलोभित्वमनिन्दिता ॥ २० ॥
अपक्वत्वमवित्तेच्छा गुरुत्वं हितवादिता ।
एवंविधो गुरुर्ज्ञेयस्त्वितरः शिष्यदुःखदः ॥ २१ ॥
यथायोग्यगुणैः पूर्वैर्युक्तश्चातिप्रियंवदः ।
विशुद्धदेहवदनः शुद्धाम्बरधरः शुचिः ॥ २२ ॥
विमुखः परनिन्दासु देवतादर्शनेषु च ।
परान्नवनिभूमिपीडासु विगतस्पृहः ॥ २३ ॥
दयान्वितः सर्वजने प्रेक्षाकारी जितेन्द्रियः ।
आस्तिको गुरुभक्तश्च शुद्धि(वा?मा)न् सुस्थिराशयः ॥ २४ ॥
अलुब्धः स्थिरमैत्रश्च गुरुवाक्यप्रमाणकः ।
सर्वदा दृढभक्तिश्च गुरौ मन्त्रे सदैवते ॥ २५ ॥
एवंविधो भवेच्छिष्यस्त्वितरो दुःखकृद्गुरोः ।
दीक्षाकालं विनिश्चित्य मुहूर्ते दोषवर्जिते ॥ २६ ॥
गुरुं समाश्रयेच्छिष्यः प्रसादाय समाहितः । ,
प्रसीद नाथ देवेति तथेति च कृतादरः ॥ २७ ॥
प्रणम्योपविशेत् पार्श्वे तथा गच्छेद्वनुज्ञया ।
मुखावलोकी सेवेत कुर्यादादिष्टमादरात् ॥ २८ ॥
असत्यं न वदेदग्रे न बहु प्रलपेदपि ।
कामं क्रोधं तथा लोभं मानं प्रहसनं स्तुतिम् ॥ २६ ।
१ ' नैरपेक्ष्य ' क पाठः ।

षड्विंशः पटलः । २४२
चापलानि च जि(ह्मा?ह्ला)नि कार्याणि परिदेवनम् ।
ऋणदानं तथादानं वस्तूनां क्रयविक्रयम् ॥ ३० ॥
न कुर्याद् गुरुणा सार्धं शिष्योऽपि च कदाचन ।
यतो गुरुः शिवः साक्षात्तं स्तुवन् प्रणमन्(त्य?भ)जेत् ॥३१॥
यथा देवे तथा मन्त्रे यथा मन्त्रे तथा गुरौ ।
यथा गुरौ तथा चात्मन्येवं भक्तिक्रमः प्रिये ॥ ३२ ॥
अवमन्य गुरोर्वाक्यं स्वबुद्ध्या कुरुते तु यः ।
न कदाचिद्भवेत् सिद्धिर्मन्त्रैर्देवप्रपूजनैः ॥ ३३ ॥
मन्त्रेण तस्य नियतं पूजां कुर्याद्यथोदितम् ।
आसनं शयनं वस्त्रं भूषणं पादुकां तथा ॥ ३४ ॥
छायां कलत्रमन्यच्च यद् गुरोस्तत् प्रपूजयेत् ।
गु[रु?रोः]शय्यासनं पीठमुपानच्छत्रपादुकाम् ॥ ३५ ॥
स्नानोदकं तथा छायां लङ्घयेन्न कदाचन ।
गुरुं दृष्ट्वा भवेद् हृष्टः परमानन्दनिर्भरः ॥ ३६ ॥
भीतभीतः पदाम्भोजं पश्येच्चकितलोचनः ।
(उो?उ)पदीकृत्य सर्वस्वं तदादिष्टं मुदान्वितः ॥ ३७ ॥
कुर्यात् सर्वप्रयत्नेन यथा तुष्टो भवेत् तु सः ।
सकृत् प्रणम्य दण्डवदिष्टदेवधिया गुरुम् ॥ ३८ ॥
पुलकाश्रितसर्वाङ्गः पूजाकोटिफलं लभेत् ।
यद्यत् प्रियतमं वस्तु भक्त्या तस्मै निवेदयेत् ॥ ३६ ॥
अदत्त्वा गुरवे वस्तु यत्किंचिदिह भूतले ।
आत्मसात् कुरुते यस्तु स भवेद्योगिनीप(तिः?शुः) ॥ ४० ॥

२४२ गन्धर्वतन्त्रे ।
यंदेव लभ्यते वस्तु भिक्षया वान्यचेष्टया ।
तन्निवेद्य तदादिष्टं स्वयं भुञ्जीत सादरम् ॥ ४१ ॥
इदमेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतिः ।
येन विशुद्धभावेन सर्वथात्मार्पणं गुरौ ॥ ४२ ॥
गुरुता शिष्यता चैव तयोर्वत्सरकालतः ।
दापयेत् स्वकृतं दोषं पत्नी पापं स्वभर्तरि ॥ ४३ ॥
तथा शिष्यार्जितं पापं गुरुमाप्नोति निश्चितम् ।
सद्गुरुः स्वाश्रमे शिष्यं वर्षमेकं परीक्ष्य वै ४४
दीक्षाकालं ततः प्राज्ञो भावयेत् सुसमाहितः ।
शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा ॥ ४५ ॥
फाल्गुने मार्गशीर्षे च ज्येष्ठे दीक्षा च मध्यमा ।
आषाढो माघमासश्च कनिष्ठौ सद्भििरादृतौ ॥ ४६ ॥
निन्दितः श्रावणश्चैत्रः पौषो भाद्रपदस्तथा ।
निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा ॥ ४७ ॥
विषुवायनयोर्द्वन्द्वे आषाढे मदनोत्सवे ।
ग्रहणेऽर्कस्य चेन्दोर्वा दिनं तत्फलदं भवेत् ॥ ४८ ॥
मन्त्रारम्भं सुधीः कुर्याच्छुक्लपक्षे शुभेऽहनि ।
रवौ गुरौ सिते सोमे कर्तव्यं बुधवासरे ॥ ४९ ॥
पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा ।
त्रयोदशी च दशमी प्रशस्ता सर्वकामदा ॥ ५० ॥
पञ्चाङ्गशुद्धदिवसे स्वोदये राशितारयोः ।
१ 'दै' क पाठ ।

षड्विंशः पटलः । २४३
गुरुशुक्रोदये शुद्धे लग्ने द्वादशशोभिते ॥ ५१ ॥
चन्द्रतारानुकूले च स्थिरे दीक्षा शुभा प्रिये ।
त्रिविधा सा भवेद् दीक्षा मान्त्री शाक्ती च शांभवी ॥५२॥
मन्त्रार्चनासनस्थानध्यानयोगादिभिः कृता ।
मान्त्री दीक्षा च सा प्रोक्ता यथाशास्त्रोक्तरूपिणी ॥५३॥
सिद्धैः स्वशक्तिमालोक्य तया केवलया शिशोः ।
निरुपायकृता दीक्षा शा[केयो?क्रीयं]परिकीर्तिता ॥५४॥
अभिसंधिं विनाचार्यशिष्ययोरुभयोरपि ।
देशिकानुग्रहेणैव शिवताव्यक्तिकारिणी ॥ ५५ ॥
शिष्टा तु शांभवी दीक्षा शिवावेशनकारिणी ।
अज्ञानाद् विश्वविज्ञानं त्राणं संसारबन्धनात् ॥ ५६ ॥
यतः करोति संसिद्धयै मन्त्र इत्युच्यते तदा ।
भूमेः परिग्रहं कुर्याद्यथोक्तं ते मया पुरा ॥ ५७ ॥
शल्यादिशोधनं कुर्याद् याज्ञे विधिविधानतः ।
विप्राशि[रा?षा] वेदघोषैर्मङ्गलाचारपूर्वकम् ॥ ५८
वास्तोर्बलिं प्रकुर्वीत मण्डलं रचयेत् तथा ।
सर्वमङ्गलसंपत्त्यै विदध्यादङ्कुरार्पणम् ॥ ५६ ॥
गुरुः कालं विनिश्चित्य प्रागेव सप्त वासरान् ।
शिष्यानुकूलमन्त्रेण पूजयेत् परदेवताम् ॥ ६० ॥
प्रणवाद्यैर्नमोऽन्तैश्च रात्रौ रात्रीशनामभिः ।
प्रो(क्त?क्तान्)बलींस्तु तेषां वै वितरेद्विधिना गुरुः ॥६१॥
१ 'शेषं' क पाठः । २ 'याज्ञी' क पाठ ।

२४४ गन्धर्वतन्त्रे ।
पूजां रात्रौ प्रकुर्वीत दिक्पालानपि पूजयेत् ।
तत्तद् ध्वजमधिष्ठाय तत्तद्वर्णविराजितम् ॥ ६२ ॥
पायसान्नैर्बलिं तेभ्यो दत्त्वा तान् प्रार्थयेद् गुरुः ।
धारायुक्तं वारिपात्रं तत्तन्मन्त्रानुमन्त्रितम् ॥ ६३ ॥
शिरस्याधाय देवेशि प्रदक्षिणमनुव्रजेत् ।
यज्ञं संरक्षयेद् दिव्यमादौ गुरुरनन्यधीः ॥ ६४ ॥
शक्रादिसहिता देवाः पूजितास्तर्पितास्तथा ।
म(थं?खं)रक्षन्तु संतुष्टा लोकपाला नमोऽस्तु वः ॥ ६५ ॥
म(थे?ख)ग्रहणपूर्वेद्युः सायमेव निवासनेम् ।
गुर्वादिসহিতो वासो रात्रौ नियमपूर्वकम् ॥ ६६ ॥
विधिवन्मण्डपं चारुवेदिकामध्यशोभितम् ।
पताकाध्वजसंकीर्णं वितानादिविभूषितम् ॥ ६७ ॥
निर्धूमशान्तसंबुद्धदीपावलिभिरञ्चितम् ।
पुष्पाक्षतफलैः कुम्भैर्लाजैरर्चिर्भिरर्चितम् ॥ ६८ ॥
तरुपल्लवमालाभिः सर्वतः समलंकृतम् ।
संवृतं कदलीस्तम्भैः पूगोपेतैरैरंकृतम् ॥ ६६ ॥
पञ्चगव्येन तद्गेहं चक्रराजं शिशुं तथा ।
शोधयेन्मूलमन्त्रेण मन्त्रितेन वरानने ॥ ७० ॥
समानं पञ्चगव्यानां कृत्वा भागं विशोधयेत् ।
मूलमन्त्रेण संमन्त्र्य कुशाग्रेणैव शोधयेत् ॥ ७१ ॥
तेन सर्वविशुद्धिः स्यात् सर्वपापनिकृन्तनम् ।
१ 'रवि' ख. पाठः । २ 'न्तै.' ख. पाठ. । ३ 'पात्रै' ख पाठ ।

षड्विंशः पटलः । २४५
महापातकजातानि कृत्वा गव्यं पिबेद्यदि ॥ ७२ ॥
नाशयेत् पानमात्रेण इत्याहुर्वेदवेदिनः ।
सुस्नातं शुद्धवेशं च शिष्यं सुस्थिरमानसम् ॥ ७३ ॥
आरात् (स्थोऽयं?संस्थाप्य)विधिवद् यजेदनुदिनं गुरुः ।
होमयेत् संस्कृते वह्नौ पायसैर्मधुराप्लुतैः ॥ ७४ ॥
आचार्यः कुण्डे विधिवत् सपूज्य परदेवताम् ।
मूलेनैव शिखां बद्ध्वा ततः शय्यागतं शिशुम् ॥ ७५ ॥
स्वप्नमानवमाश्रित्य (स्वाद?स्वाप)येत् पूर्वमस्तकम् ।
तारो हिलिद्वयं शूलपाणये द्वि(ज?ठ) ईरितः ॥ ७६ ॥
स्वप्नमानवमन्त्रोऽयं शयने परिकीर्तितः ।
नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने ॥ ७७ ॥
रामाय विश्वरूपाय स्वप्नाधिपतये नमः ।
स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः ॥ ७८ ॥
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ।
मन्त्रेण स्वापकाले तु देवं प्रार्थ्य ततः स्वपेत् ॥ ७९ ॥
स्वप्ने शुभाशुभं दृष्टं पृच्छेत् प्रातः शिशुं गुरुः ।
गुरुणां वार्चनं कृत्वा उपवासी जितेन्द्रियः ॥ ८० ॥
दर्भशय्यागतो रात्रौ दृष्ट्वा स्वप्नं निवेदयेत् ।
कन्यां छत्रं रथं दीपं प्रासादं (मङ्क?कम)लं नदीम् ॥ ८१ ॥
कु(कुमंकुषयं?अरं वृषभं)माल्यं स्वर्णं च फलिनं द्रुमम् ।
पर्वतं च हयं मेध्यमाममांसं सुरासवम् ॥ ८२ ॥
१ 'वा' क पाठ. । २ 'स्वपि' ख पाठः