सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 319, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 319

षड्विंशः पटलः ।
देव्युवाच
कीदृशो वा भवेच्छिष्यः कीदृशो वा भवेद्गुरुः ।
कीदृशी वा भवेद् दीक्षा कथं कुर्याद्वद प्रभो ॥ १ ॥
ईश्वर उवाच
अथ दीक्षां प्रवक्ष्यामि मन्त्रिणां हितकाम्यया ।
विनानया न चैव स्यात् सर्वमन्त्रफलं यतः ॥ २ ॥
ज्ञानं दिव्यं यतो दद्यात् कुर्यात् पापक्षयं यतः ।
अतो दीक्षेति सा प्रोक्ता गुरुशिष्यौ वदामि ते ॥६३॥
आदौ विद्यावतारोऽयं दक्षिणामूर्तिरव्ययः ।
गुरुर्भूत्वैव भगवान् महाविद्यां ददानि वै ॥ ४ ॥
दिव्यो गुरुऋषिः सोऽथ दिव्यां विद्यां प्रकाश्य च ।
दिव्यौघान् अकरोच्छिष्यान् वक्ष्येऽथ शृणु पार्वति ।
प्रकाशोऽथ विमर्शो(र्शे)ऽन्यस्त्वानन्दोऽपर इत्यपि ॥ ५॥
नामभेदादहं लोकेऽकल्पयं दिव्यरूपतः ।
त्रयस्तेभ्यः समुत्पन्नाः सिद्धाश्च त्रय एव ते ॥ ६ ॥
ज्ञानं सत्यं पूर्ण इति श्रीमुखास्ते समीरिताः ।
दिव्या मदन्तिके नित्यं सिद्धा भूमाविहापि च ॥ ७॥
निवसन्ति ततस्तेभ्यः समभूवंस्त्रयस्तथा ।
खभावः प्रतिभस्तद्वैत सुभगश्चेति नामतः ॥ ८ ॥
१ 'स्व' क पाठ ।