सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 308, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 308

चतुर्विंशः पटलः । २२७
कुर्याद्वै महतीं पूजां संपन्नाङ्गविभूषिताम् ॥ २० ॥
उपहारैर्बहुविधैरलंकृतसुविग्रहाम् ।
नित्यमेवार्चनं देव्या नित्यमेव समाचरेत् ॥ २१ ॥
नित्याचारपरो मन्त्री नैमित्तिकवि(धं?धिं) चरेत् ।
नित्यनैमित्तिकपरः साधुः काम्यं विचिन्तयेत् ॥ २२ ॥
काम्यान्नैमित्तिकं नित्यं नित्यं नैमित्तिकात् परम् ।
नित्याचारविलोपी यः काम्यं नैमित्तिकं च वा ॥ २३ ॥
करोति स च दुर्मेधा नाप्नोति तस्य तत्फलम् ।
नित्याचारमनादृत्य यदन्यत्तु समीहते ॥ २४ ॥
निष्फलं तस्य तत्कर्म वन्ध्यास्त्रीमैथुनं यथा ।
अपि पुष्पफलैर्वापि पूजयेच्चक्रदेवताः ॥ २५ ॥
अङ्गहीनं तु पुरुषो न सम्यग्याज्ञिको भवेत् ।
अङ्गहीना तथा पूजा न सम्यक्फलदायिनी ॥ २६ ॥
ध्यानं पूजा जपो होम इति हस्तचतुष्टयम् ।
शरीरं न्यासजालं तु आत्मा तज्ज्ञानमेव च ॥ २७ ॥
भक्तिः शिरोऽत्र हृच्छ्रद्धा कौशलं नेत्रमीरितम् ।
एवं यज्ञशरीरं तु मत्वा साधकसत्तमः ॥ २८ ॥
यज्ञं समापयेन्नित्यं साङ्गमेवं खलु प्रिये ।
अङ्गहीने महान् दोषस्ततोऽङ्गं नावधीरयेत् ॥ २६ ॥
सर्वाङ्गपूर्णपुरुषो यज्ञाख्यः सर्वसिद्धिदः ।
तत्तदीहापरा शक्तिः सिद्धिः संयोगतस्तयोः ॥ ३० ॥
१ 'कर्मेव वा' ख पाठः । २ 'साङ्गेनैव' ख. पाठः । ३ 'पूर्णयज्ञः' क. पाठः ।