सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 321, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 321

२४० गन्धर्वतन्त्रे ।
यदृच्छालाभसंतुष्टः शान्तो नियमवानृजुः ॥ १६ ॥
स्मेरपूर्वाभिभाषित्त्वं स्वच्छताऽजि(च?ह्म)वृत्तिता ।
संतोषित्त्वमगर्वित्वमलोभित्वमनिन्दिता ॥ २० ॥
अपक्वत्वमवित्तेच्छा गुरुत्वं हितवादिता ।
एवंविधो गुरुर्ज्ञेयस्त्वितरः शिष्यदुःखदः ॥ २१ ॥
यथायोग्यगुणैः पूर्वैर्युक्तश्चातिप्रियंवदः ।
विशुद्धदेहवदनः शुद्धाम्बरधरः शुचिः ॥ २२ ॥
विमुखः परनिन्दासु देवतादर्शनेषु च ।
परान्नवनिभूमिपीडासु विगतस्पृहः ॥ २३ ॥
दयान्वितः सर्वजने प्रेक्षाकारी जितेन्द्रियः ।
आस्तिको गुरुभक्तश्च शुद्धि(वा?मा)न् सुस्थिराशयः ॥ २४ ॥
अलुब्धः स्थिरमैत्रश्च गुरुवाक्यप्रमाणकः ।
सर्वदा दृढभक्तिश्च गुरौ मन्त्रे सदैवते ॥ २५ ॥
एवंविधो भवेच्छिष्यस्त्वितरो दुःखकृद्गुरोः ।
दीक्षाकालं विनिश्चित्य मुहूर्ते दोषवर्जिते ॥ २६ ॥
गुरुं समाश्रयेच्छिष्यः प्रसादाय समाहितः । ,
प्रसीद नाथ देवेति तथेति च कृतादरः ॥ २७ ॥
प्रणम्योपविशेत् पार्श्वे तथा गच्छेद्वनुज्ञया ।
मुखावलोकी सेवेत कुर्यादादिष्टमादरात् ॥ २८ ॥
असत्यं न वदेदग्रे न बहु प्रलपेदपि ।
कामं क्रोधं तथा लोभं मानं प्रहसनं स्तुतिम् ॥ २६ ।
१ ' नैरपेक्ष्य ' क पाठः ।