सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

द्वांविंशः पटलः । २११
अदत्तं नोपतिष्ठेत दद्यात् तस्मादतः परम् ।
गोभूहिरण्यरत्नादि भक्ष्यभोज्यानि यानि च ॥ ३१ ॥
वासिनीभ्यो द्विजेभ्यश्च दीनान्धकृपणाय च ।
त्यक्त्वा चावश्यकं कर्म लौकिकं भावतत्परः ॥ ३२ ॥
योगक्षेमे हितं यत्तु कुर्यात् तदनुशासनात् ।
समर्थो जीवयेत् स्नेहात् स्वकीयाननुजीविनः ॥ ३३ ॥
दुष्टेभ्यो दुष्टचित्तेभ्यो हिंस्रे साहसिकात् तथा ।
बलिभ्यो धनमत्तेभ्यः कायस्थेभ्यो विशेषतः ॥ ३४ ॥
रक्षयेत् पालयेत् साधुः पुत्रानिव (नि?पि)तौरसान् ।
लोकांश्च त्रिविधान्मत्वा लालयेत् पालयेत् सदा ॥ ३५॥
वध्यान् वध्यात्तथा दण्ड्यान् दण्डयेच्छास्त्रदर्शनात् ।
अवध्यस्य वधे यावांस्तथादण्ड्यस्यै दण्डने ॥ ३६ ॥
दण्ड्यस्यादण्डने पापस्तावान् वध्यस्य रक्षणे ।
इति विज्ञाय योगात्मा योगक्षेमं समाचरेत् ॥ ३७ ॥
विभूतीरात्मनः पश्येत् तत्प्राप्त्या तन्निवेदयेत् ।
विभूतीरात्मनो यस्तु महादेव्यै प्रदर्शयेत् ॥ ३८ ॥
ताभिरेव युतो भूयादणिमादिविभूतिभिः ।
मुहूर्त्तत्रयमात्रं तु कुर्यात् तनुविचिन्त(येत?नम् ) ॥ ३६॥
चिन्तयेत् परं ब्रह्म मध्याह्ने समुपगते ।
मुहूर्त्तत्रयमात्रं तु निद्रया समुपासयेत् ॥ ४० ॥
ततो बुद्धौ यथाकाले तामेव समुपासयेत् ।
१ 'र्थे' ख पाठ. । २ 'हिंस्रेभ्य' क पाठ । ३ 'दण्डस्तस्य तु' क. पाठ ।
४ 'द्वया' क पाठ ।

२१२ गन्धर्वतन्त्रे ।
ललितानि च नृत्यानि गीतानि मधुराणि च ॥ ४१ ॥
दर्शयेच्छावयेद् देव्यै भावात्मा तद्विलोकयेत् ।
नृत्येषु गीतानियता देव्यः स्रक्चन्दनार्चिताः ॥ ४२ ॥
भूषिताश्चारुभूषाभिर्वि[दुवे?हरे]त् ताभिरेव च ।
ततो मध्ये स्वयं देवः कामेश्वर इवापरः ॥ ४३ ॥
कामेश्वरीयुतो भूत्वा यजेत् कामेश्वरीं ततः ।
ब्रह्मचिन्तापरामोदमुदितो राज्यचिन्तकः ॥ ४४ ॥
मुहूर्तत्रयमात्रं तु निद्रया समुपासयेत् ।
दिवा दद्यात् पितृभ्यस्तु मातृभ्यो निशि तत्परः ॥ ४५ ॥
माता रात्रिः समाख्याता पिता दिवस एव च ।
उभयोरेकतां मत्वा सिद्धो भवति नान्यथा ॥ ४६ ॥
सोमः शक्तिः शिवः सूर्यो निशा शक्तिर्दिवा शिवः ।
यदा स भगवान् देवो महात्रिपुरभैरवः ॥ ४७ ॥
परापरायणोऽनन्तः परमानन्दनिर्भरः ।
परापररहस्याख्यां योगिनीं ब्रह्मरूपिणीम् ॥ ४८ ॥
शिवानन्दानन्दमयीं महात्रिपुरसुन्दरीम् ।
आकृष्योर्ध्वं यदा तिष्ठेत् तदहः परिकी(र्त?र्त्य)ते । ४६॥
शक्तिभैरवसंयोगादानन्दानन्दनिर्भ(या?रा)त् ।
भैरवानन्द[नम्रा?मग्ना]न्तर्लीला सा परमा कला ॥५०॥
मध्याह्नं तद्विजानीयान्मुहूर्तत्रयलक्षितम् ।
तौ तदा समभागेन तिष्ठेतां शक्तिभैरवौ ॥ ५१ ॥
पूर्वापरौ तदा ज्ञेयावेतद्विगुणलक्षितौ ।

द्वाविंशः पटलः । २१३
परस्पराद्वैतेप्सन्तौ प्राप्ताद्वैतौ तु मध्यतः ॥ ५२॥
अभिजिन्न नाम जानीयात् तत्कालं सुरवन्दिते ।
तत्तत्तेजोभिराकीर्णं तयोरैक्यं तदा भवेत् ॥ ५३ ॥
सूर्यकोटिप्रतीकाशं चन्द्रकोट्ययुतप्रभम् ।
तदा दशभुजो देवः पञ्चवक्त्रस्त्रिलोचनः ॥ ५४ ॥
शुक्लाम्बरधरः शुक्लः शुक्लमाल्यानुलेपनः ।
तस्योत्सङ्गे महादेवी चन्द्रकोट्ययुतप्रभा ॥ ५५ ॥
प्रहसन्ती विशालाक्षी परमानन्दनन्दिता ।
तद्रूपतामभीप्सन्ती तद्रूपेक्षणलालसा ॥ ५६ ॥
शुक्लवेशं विना देवि नान्यत् तत्प्रीतये तदा ।
तत्रान्यद्रूपमापन्ने साधके दैवचोदिते ॥ ५७ ॥
क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम् ।
सर्वैः शुक्लमयैर्द्रव्यैः शुक्लवेशैर्यजेत् तदा ॥ ५८ ॥
दिवि देवी भवेद् दृश्या शरच्चन्द्रनिभानना ।
तत्र पूजा सदा कार्या विशेषेण वरानने ॥ ५९ ॥
पेयं चो[षं?ष्यं] तथा लेह्यं चर्व्यं भक्ष्यं च तर्पणैः ।
निवेदयेत् सदा भक्त्या यत्पुनः सुमनोहरम् ॥ ६० ॥
उपचारैर्यजेत् प्रातर्मध्ये रस्यानपानकैः ।
गीतनृत्यादिना साकं रात्रौ यागपुरःसरम् ॥ ६१ ॥
प्राङ्मुखो हि यजेत् प्रातर्मध्याह्ने दक्षिणामुखः ।
सायं प्रत्यङ्मुखो भूत्वा रा(हु?त्रा)वुदङ्मुखः सदा ॥ ६२॥


पाद-टिप्पणी (Footnotes):
१ ‘र्णा’ क पाठ । २ ‘श्या’ क पाठ । ३ ‘निर्भोपमा’ क पाठ । ४ ‘च’ क पाठ । ५ ‘सा’ क पाठ ।

२१४ गन्धर्वतन्त्रे ।
तत्र शांभवभेदेन जपेद्विद्यामनन्यधीः ॥ ६२ ॥
वर्जयेच्छक्तिभेदं तु यदीच्छेदात्मनो हितम् ।
अरुणकिरणाच्छन्नं यत्पूर्वं भैरवोदयात् ॥ ६३ ॥
अर्धनारीश्वरं ज्ञेयं तत्र पूजा(च?क्रि)याः समाः ।
उपचारैस्तदा कुर्यात् सपर्यां विधिना तथा ॥ ६४ ॥
वरिवस्यां गृही, समभागेन संस्थितौ यदि ।
आनन्दपारमिच्छन्तौ सदानन्दविवर्धिनौ ॥ ६५ ॥
पूर्वापरौ महापुण्यौ यदा तौ समरूपिणौ ।
चिन्तयेत् सततं भक्त्या तौ तत्कालविधानतः ॥ ६६ ॥
शक्तिशांभवभेदेन जपेद्विद्यामनन्यधीः ।
शुक्लाम्बरो भवेत् तत्र शुक्लमाल्यानुलेपनः ॥ ६७ ॥
रक्ताम्बरधराः पश्येद् रक्तमाल्यानुलेपनाः ।
दिशश्च विदिशश्चैव रक्ता दृश्या मनीषिभिः ।
लाक्षारुणमयं विश्वं स्वयं च तत्र तद्भवेत् ॥ ६८ ॥
पद्मरागप्रतीकाशैः² कोटिसूर्यसमद्युतिः ।
नाथः कामेश्वरस्तत्र ह्येकवक्त्रश्चतुर्भुजः ॥ ६६ ॥
रक्तपद्मनिभां³ देवी बालार्ककिरणारुणाँ ।
इच्छंस्तद्रूपतां प्राप्तुं तद्रूपा तैं⁴ विशन्त्यतः⁵ ॥ ७० ॥
अनुभूय तदाबन्धं भैरवानन्दसंकुलम् ।
विपरीतमभीप्सन्ती तदाक्रमणलालसा ॥ ७१ ॥
तदा स[रो?मो]भवेत् कालः सायंसंध्येति गीयते ।
'कार्या सपर्या' ख पाठ । २ 'सुरराजममन्त्रिभ' क पाठ । ३ 'भा देवी' क.
पाठः । ४ 'शाम्' क पाठ । ५ 'पा ता' क. पाठ. ।

द्वाविंशः पटलः । २१५
शोणितैश्च समाक्रान्तां प्रतीचीमवलोकयन् ॥ ७२ ॥
पूजयेत् साधको भक्त्या चोपचारैर्यथाविधि ।
यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ॥ ७३ ॥
अधः कृत्वा तु पुरुषं (वर्णं?रन्तु)मिच्छा भवेद्यदा ।
तदाक्रम्य स्वयं देवी भैरवोपरिसंस्थिता ॥ ७४ ॥
सहजानन्दसन्दोहैर्निजानन्दप्रवर्धिनी ।
तदा नैजं भवेद्विश्वं तत्र पूजा महोदया ॥ ७५ ॥
तत्तद्दृ(ष्टृ?ष्टि)मयैर्दीपै(र्भा?र्भो)गैश्च विविधैः सदा ।
लाक्षारुणमयं सर्वं स्वयं तावत्तथा भवेत् ॥ ७६ ॥
शक्तिभेदात्मिकां विद्यां हंसबीजपुटीकृताम् ।
प्रणवान्तरितां शुद्धां नादलीलां तदात्मिकाम् ॥ ७७ ॥
मूलाद्ब्रह्मरन्ध्रान्तां विषतन्तुतनीयसीम् ।
अर्धे^१राम्बुरुहहंसीं सुस्थिरामिव चञ्चलाम् ॥ ७८ ॥
सं(श्र?स्र)वन्तीं सुधाधारां शुद्धलाक्षारसोपमाम् ।
आवाह्य पूजयित्वा खं कमलाङ्कपुरान्तरे ॥ ७९ ॥
विनिर्जि(त?त्ये)न्द्रियमनो जपेदानन्दरूपिणीम् ।
मध्यं मुखं विजानीयात् पूर्वापरौ स्तनद्व[यौ?यम]् ।८०॥
अर्धमात्रां^३ परं रूपं निशामध्यं तयोरधः ।
अनन्तफलदं पुण्यं भोगमोक्षफलप्रदम् ॥ ८१ ॥
संध्याचतुष्टयं भद्रे कथितं भुवि दुर्लभम् ।
चतुर्भुजं महादेव्या ज्ञेयं कालचतुष्टयम् ॥ ८२ ॥
आत्मा सा परमेशानी परमेश्वर एव च ।
१ 'हराम्बुव' क पाठ । २ 'सुख' क पाठ । ३ 'त्रा' क पाठ ।

२१६ गन्धर्वतन्त्रे ।
यदङ्गं तु विहीयेत तदङ्गच्छेदकं तयोः ॥ ८३ ॥
तत्र यत् क्रियते कर्म मङ्गल्यं मङ्गलं परम् ।
ध्यानं पूजा जपञ्चैव होमो न्यासश्च तर्पणम् ॥ ८४ ॥
अत्र वै पूजिता देवी पूरयेत् तन्मनोरथान् ।
अत्र यत् पुण्यमनघे भक्तिश्रद्धासमन्विते ॥ ८५ ॥
विधिना विहिते यज्ञे परमानन्दसंकुले ।
वक्त्रकोटिसहस्रैस्तु ह्यनन्तो वक्तुमक्षमः ॥ ८६ ॥
अमृताञ्जलिरेप्यत्र [सुधाब्धितुलनोपमैः] ।
अत्र यो नार्चयेद् देवीं जलेनापीह पार्वति ॥ ८७ ॥
न नमेद्वा गुरून् भक्त्या ब्रह्महा स निगद्यते ।
अत्र निद्रापरा यान्ति महाकालपुरं प्रिये ॥ ८८ ॥
दम्भं मोहं तथा निद्रामालस्यं बाह्यचिन्तनम् ।
कामं क्रोधं तथा लोभं हिंसां मात्सर्यमेव च ॥ ८९ ॥
वर्जयित्वा प्रयत्नेन विद्यामेव समभ्यसेत् ।
दुर्वासनां परित्यज्य कोटिजन्मसमद्भवैः ॥ ६० ॥
एकेन जन्मना मुक्तिं याति भोगी न संशयः ।
शक्तेर्मुखं विना नान्यत् पश्येद्वै कर्हिचित्तदा ॥ ६१ ॥
पशवो दूरतस्त्याज्याः पुरुषाश्चान्यपूजकाः ।
अत्रान्यचिन्तनाद्यान्ति म्लेच्छयोनिं पतन्त्यधः ॥ ६२ ॥
यान्ति चोर्ध्वं परं धाम चिन्तनाद् ब्रह्म शाश्वतम् ।
नास्ति पुरस्क्रिया तेषां कायक्लेशपुरस्सरा ॥ ६३ ॥
१ ' मध्य ' ख पाठ । २ ' सुधासागरतुलनाम् ' क पाठ । ३ 'वान्' ख पाठ. ।

नित्यं¹ पुरस्क्रियायुक्तास्त एव परिकीर्तिताः ।
तं तु देवा नमस्यन्ति किं पुनर्न(व?र)मर्कटाः ॥ ९४ ॥
देवीकला भवेत्तत्र सर्वलोकवशंकरी ।
अमर्त्या अ(र्पि?पि)तं म(न्य?र्त्य)मीहन्ते कुलवल्लभम् ॥९५॥
दृष्ट्वा युवतयः सर्वाः क्लि[न्नान्मा?द्यद्यो]न्यो मुदान्विताः ।
शरदिन्दुप्रभं देवं पूर्णेन्दुप्रतिमाननम् ॥ ९६ ॥
नानावैदग्ध्यचातुर्यस्निग्धपीयूषभाषिणम् ।
अपि चेत्तत्समा नारी तत्समः पुरुषोऽस्ति चेत् ॥६७॥
नरेन्द्रं नरशार्दूलं दृष्ट्वा क्षुब्धमना² भवेत् ।
पूर्वे यद् दीयते वस्तु परे तस्माच्चतुर्गुणम् ॥ ६८ ॥
नानाविधोपहाराणि महादेव्यै निवेदयेत् ।
राजोपचारं दत्त्वान्ते स्तुत्वा नुत्वा विसर्जयेत् ॥ ६६ ॥
कालत्रयेऽप्यशक्तश्चेच्चतुर्थे सर्वथा प्रिये ।
अनश्नन् पूजयेद्रात्रौ भयनिद्रापराङ्मुखः ॥ १०० ॥
प्रातर्होमं प्रकुर्वीत तथा मध्यन्दिनेऽथवा ।
निद्राकालं प्रवक्ष्यामि साधकानां हिताय च ॥ १०१ ॥
दिवानिशोर्महादेवि नव मुहूर्तास्ततः परम् ।
मुहूर्तत्रयमानं तु निद्रा देव्याः समीरिता³ ॥ १०२ ॥
अत्र निद्रापरां देवीं निद्रया समुपासयेत् ।
निद्राकाले जपेद्यस्तु पूजयेद्वा विमोहितः ॥ १०३ ॥
स्वापकालं विना देवि स्व(पे?प्या)दन्यत्र योऽबुधः ।


१ ' तद् ' क पाठः । २ ' ब्धं ' क पाठ. । ३ ' ता ' ख. पाठः ।

२१८ गन्धर्वतन्त्रे ।
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ॥ १०४॥
तस्मात् सर्वप्रयत्नेन बोधकाले प्रबोधयेत् ।
दर्शनं चावलोकं च संभाषं चान्यलोकनम् ॥ १०५॥
स्वयमावेशनं चैव मन्त्राणां पञ्चलक्षणम् ।
विदित्वा प्रजपेन्मन्त्रं सर्वसिद्धिमुपालभेत् ॥ १०६॥
वेदसंध्यं त्रिसंध्यं वा द्विसंध्यं वाथ सुव्रते ।
योगात्मा योगविज्ञानी योगमुद्रासमन्वितः ॥ १०७॥
अब्दमेकं जपेद्यस्तु ब्रह्मचर्यव्रते स्थितः ।
सहस्रं प्रजपेदादावन्तेऽपि च सहस्रकम् ॥ १०८॥
मध्ययोः¹ प्रजपेद्विद्यां शेषं य(च्छ्?त्स)मभागतः ।
लक्षमेकं भवेद् देवि त्रिंशदभ्यन्तरे तथा ॥ १०६॥
अस्तब्धाकुञ्चितं कार्यं न द्रुतं न विलम्बितम् ।
अक्षराक्षरसंचारिध्वनिमात्रं विभावयेत् ॥ ११०॥
मयाप्येतद् व्रतस्थेन जप्यतेऽद्यापि सुन्दरि ।
त्रिसंध्यं जप्यते ब्रह्म तत्पदप्राप्तिसिद्धये ॥ १११॥
एवं क्रमाद्भवेत् सिद्धो भोगी भोगपरायणः ।
एवं मासमृतुं चैव वत्सरं युगमेव च ॥ ११२॥
गमयेत् परमेशानि यद्वा म(न्न?न्व)न्तरादिकम् ।
एतद्रहस्यं परमं न प्रकाश्यं कदाचन ।
समयाचारसंकेतं भोगमोक्षफलप्रदम् ॥ ११३॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे समयाचारसंकेतवर्णनं
द्वाविंशः पटलः ॥ २२ ॥


१ 'मध्येऽपि' ख पाठः ।

त्रयोविंशः पटलः ।
—०—
ईश्वर उवाच
होमादिकं तु विफलं कुमारीपूजनं विना ।
कुमारी पूजिता येन त्रैलोक्यं तेन पूजितम् ॥ १ ॥
ब्रह्मा विष्णुश्च रुद्रश्च ऋषयो वासवस्तथा ।
पितरश्चैव दिक्पाला गन्धर्वाप्सरसोऽसुराः ॥ २ ॥
देवपत्न्यस्तथा नागा मातरः सिद्धचारणाः ।
विश्वेदेवाः सयक्षाश्च राक्षसाश्चैव देवताः ॥ ३ ॥
स्थावरा जङ्गमाश्चैव सर्वभूतानि जन्तवः ।
सर्वे ते तृप्तिमायान्ति कुमार्यो यत्र पूजिताः ॥ ४ ॥
बह्वीनामप्यलाभे तु एकैव^२ वरवर्णिनी ।
प्रमदा यौवनोन्मत्ता सा भवेत् सुन्दरी परा ॥ ५ ॥
अष्टाब्दावधि पञ्चाब्दात् पूजितव्या विधानतः ।
कुमार्यै यज्जलं दत्तं तज्जलं सागरोपमम् ॥ ६ ॥
यदन्नं दीयते तस्यै कुलाचलसमं प्रिये ।
कुमारीपूजनं देवि कुमारीमनुना भवेत् ॥ ७ ॥
यथा वा पूज्यते देवी पूजितव्यास्तथा^३ तथा ।
हेतुना भोजिताव्या*स्ताः पायसैर्मधुरान्वितैः ॥ ८ ॥
१ 'व' ख पाठः । २ 'कैक' ख पाठः । ३ 'ष्यात' ख पाठः ।

  • णिज्लोपः ऐश ।

२२० गन्धर्वतन्त्रे ।
बालप्रियैश्च नैवेद्यैस्त्रिपुरसुन्दरीधिया ।
स्तुत्या नत्वाथ संतोष्य स्वाभीष्टं प्रार्थयेत्ततः ॥ ९ ॥
पूजितायाश्च तुष्टाया हस्ताङ्कियुतो नरः।
शिरसा प्रतिगृह्णीयादाशीर्वादयुतान्क्षतान् ॥ १० ॥
यद्यद्वदति संतुष्टा तत्तद्भवति निश्चितम् ।
इति ते कथितं देवि रहस्यं परमाद्भुतम् ॥ ११ ॥
विना तेन महेशानि न पूजाफलभाग्भवेत् ।
नित्यार्चायां च दीक्षायां पुरश्चर्यादिकेषु च ॥ १२ ॥
आदौ पूर्णे च मध्ये च लक्षे पूर्णे विशेषतः ।
कुमार्यः पूजितव्याश्च कुमारीर्नार्चयेद्यदि ॥ १३ ॥
तस्य पूजाफलं सर्वं नीयते यक्षरक्षसैः ।
न पूजयति चेत् कन्यास्तदो विघ्नैः प्रभूयते ॥ १४ ॥
पूर्वार्जितफलं नश्येत् का कथा परजन्मनि ।
तस्मात् सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् ॥ १५ ॥
पूजितव्या महाभागाः कुमार्यः परमेश्वरि ।
प्रातरुत्थाय पूजायां स्नानकालेऽथवा पुनः ॥ १६ ॥
संस्कृतासंस्कृता वापि हीनजात्युद्भवास्तथा ।
नमस्याः साधकेन्द्राणां कुलीनानां परार्चने ॥ १७ ॥
ब्रह्मण्यार्पितचित्तानां नास्तीह भिन्नता क्वचित् ।
कुलपूजां विना देवि कुलदेवी पराङ्मुखी ॥ १८ ॥
परयोषा यदा भद्रे स्वयं तासां गुरुर्भवेत् ।
१ 'तद्धि' क पाठ । २ 'परि' क पाठः । ३ 'ते' क पाठ. ।

त्रयोविंशः पटलः । २२१
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च कुलभूषणा१ ॥ १९ ॥
वेश्या नापितकन्या च रजकी योगिनी तथा ।
नानाविदग्ध्यकुशलाः कलारूपगुणान्विताः ॥ २० ॥
तासां रूपं च भावं च विलोक्यामर्षचेष्टितम् ।
ब्राह्मयाद्यष्टशक्तीनां नामभिः कृतशब्दितैः२ ॥ २१ ॥
आसनं प्रथमं ताभ्यः स्वागतं च पुनः पुनः ।
अर्घ्यं पाद्यं च पानीयं मधुपर्काचमनीयकम् ॥ २२ ॥
स्नपयेद्३ गन्धपुष्पाद्भिः केशसंस्कारमेव च ।
धूपयित्वा तथा केशान् कौशेयं४ च निवेदयेत् ॥ २३ ॥
ततः स्थानान्तरे नीत्वा पीठमास्तीर्य भक्तितः ।
संवेशयेद्विधानेन पूर्वादिक्रमयोगतः ॥ २४ ॥
नानालंकारभूषाद्यैर्भूषयित्वानुलेपनैः ।
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ॥ २५ ॥
दुग्धं दधि घृतं तक्रं नवनीतं सशर्करम् ।
नारिकेलं कपित्थं च नागरङ्कमुत्तमम्५ ॥ २६ ॥
पिष्टकं पायसं चैव नानारससमन्वितम् ।
दत्त्वा संपूज्य विधिवत् स्तुतिभिस्तोषयेत्ततः ॥ २७ ॥
मातर्देवि नमस्तुभ्यं ब्रह्मरूपधरेऽनघे ।
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ २८ ॥
माहेशि वरदे देवि परमानन्दरूपिणि६ ।


पाद-टिप्पणी (Footnotes):
१ 'नटकी' ख पाठः। २ 'सञ्जका' ख पाठ. । ३ 'स्त्रा' ख. पाठ ।
४ 'षेयं' क पाठ । ५ 'ङ्गेर्धार' क पाठ । ६ 'णी' ख. पाठ ।

कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ २६ ॥
कौमारि सर्वविद्येशि कुमारक्रीडने परे ।
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३० ॥
वैष्णवि विष्णुरूपासि सर्वविघ्नविनाशिनि¹ ।
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३१ ॥
वाराहि वरदे देवि परमानन्दरूपिणि² ।
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३२ ॥
इन्द्राणि वरदे देवि गजस्कन्धस्थिता ह्यसि³ ।
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३३ ॥
चामुण्डे मुण्डमालास्स्रक्चर्चिते भयनाशिनि⁴ ।
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३४ ॥
महालक्ष्मि महामोहँक्षोभसंतानहारिणि ।
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३५ ॥
⁶मितिमातृमयि⁷ देवि ⁸मितिमातृवहि(स?ष्)कृते ।
एके बहुतरे देवि विश्वरूपे नमोऽस्तु ते ॥ ३६ ॥
एतत् स्तोत्रं पठेद्यस्तु कर्मारम्भेषु संयतः ।
विद्वग्धाश्चं समालोक्य तस्य विघ्नं न जायते ॥ ३७ ॥
आचम्य मुखवासेन ताम्बूलं च निवेदयेत् ।
ततो दद्यात् पुनर्माल्यं गन्धचन्दनपङ्किलम् ॥ ३८ ॥


पाद-टिप्पणी:
१ ‘विष्णुरूपधरे देवि विनतासुतवाहिनि’ ख पाठ । २ ‘दृष्टे दृष्टवसुन्धरे’ ख
पाठः । ३ ‘शक्ररूपधरे देवि शक्रादिसुरपूजिते’ ख पाठ । ४ ‘विघ्ननाशिनि’ ख.
पाठ. । ५ ‘महोत्साहे’ ख पाठ । ६ ‘इ’ क पाठ । ७ ‘ये’ क पाठ । ८ ‘स’
क पाठ । ९ ‘ग्धा वा’ ख पाठ’ ।

त्रयोविंशः पटलः । २२३
यदि क्रीडापरास्तास्तु भवन्ति भाग्ययोगतः ।
क्री(डाय?डये)त् क्रीडनैः सर्वाः क्रीडारसपरायणः ॥३६॥
तस्मात् सर्वप्रयत्नेन रक्षितव्याः सदा प्रिये ।
यथा तु नमिताः प्राज्ञे भक्तिभावपरायणैः ॥ ४० ॥
स्वेच्छाऋतुमती या स्याद्गृहीत्वा रक्तमुत्तमम् ।
रोचनाचन्द्रकाश्मीरकस्तूर्यगुरुसंयुतम् ॥ ४१ ॥
स्वयंभूकुसुमं दिव्यं फलं वा दिव्यमेव च ।
गृहीत्वा पूजयेद् देवीं महात्रिपुरसुन्दरीम् ॥ ४२ ॥
कुण्डगोलोद्भवं वापि नान्यत्र कुसुमं भवेत् ।
मद्यं मांसं मुद्रा शक्तिः स्वयंभूकुसुमं तथा ॥ ४३ ॥
एभिरेव महेशानि प्रत्यक्षीक्रियते परा ।
द्रव्यसंशोधनं कृत्वा शक्तिशोधनसंभवैः ॥ ४४ ॥
संपूज्य त्रिपुरां देवीमसाध्यमपि साधयेत् ।
अन्या यदि न गच्छन्ति निजकन्याऽनुजाऽत्मनैः ॥४५॥
अग्रजा मातुलानी तु माता वा तत्सपत्निका ।
वयसा.जातितो वापि हीना रक्ष्याः स्वसा यथा ॥ ४६ ॥
पूज्याः कुलवरैः सर्वैर्निजाऽहंकारवर्जितैः ।
स्वयमक्षोभितो भूत्वा मूलयोग न चाचरेत् ॥ ४७ ॥
मूलयोगकृतामायुःसिद्धोऽपि नश्यति ध्रुवम् ।
सर्वाभावे ह्येकतरा पूजनीया प्रयत्नतः ॥ ४८ ॥
संस्कृतासंस्कृता वापि बन्धकी वाथ निष्पतिः ।
१ 'त्मजा' क पाठ. ।

२२५ गन्धर्वतन्त्रे ।
पूर्वाभावे परा ज्ञेया तदंशा योषितो यतः ॥ ४६ ॥
एका चेत् कुलशास्त्रज्ञा लभ्या¹ कुलविशारदैः ।
पूजार्हा सा त(रा?दा)देवि भोगमोक्षप्रसाधिका ॥५०॥
एका च युवती यत्र पूजिता चावलोकिता ।
तदा देव्यश्च सर्वाश्च पूजितं सर्वदैवतम् ॥ ५१ ॥
इति ते कथितं देवि न प्रकाश्यं कदाचन ।
-------------------❦-------------------
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे कुमारीपूजनविधाननिरूपणं
त्रयोविंशः पटलः ॥ २३ ॥


१ 'भ्यते' क. पाठः ।

चतुर्विंशः पटलः ।
ईश्वर उवाच
एवं यः कुरुते पूजां नित्यं भक्तियुतो बुधः ।
कन्दर्पसदृशः स्त्रीषु गौरीपतिरिवापरः ॥ १ ॥
स एव सुकृती लोके स एव कुलभूषणम्१ ।
धन्या च जननी तस्य धन्यस्तस्य पिता खलु ॥ २॥
दैवी कला भवेत् तत्र मम तुल्यो महामतिः ।
अणिमाद्यष्टसिद्धीशो जायते नात्र संशयः ॥ ३ ॥
वह्निरिव रिपोर्हन्ता इन्दुरिव सुखप्रदः ।
पितृदेवसमः शास्ता शुचौ शुचिसमः खलु ॥ ४ ॥
बृहस्पतिसमो वक्ता धरणीसदृशः क्षमी ।
वक्त्रे सरस्वती तस्य लक्ष्मीस्तस्य सदा गृहे ॥ ५ ॥
तीर्थानि तस्य देहे वै नच तस्य पुनर्भवः ।
धनेन धननाथः स्यात् तेजसा भास्करोपमः ॥ ६ ॥
बलेन पवनो ह्येष दानेन वासवोपमः ।
गानेन तुम्बुरुः साक्षान्नित्यं येन समर्चिता ॥ ७ ॥
एकाहमपि देवेशि महात्रिपुरसुन्दरीम् ।
न पूजयेत्तथा(नस्यात्? तस्मात्) प्रायश्चित्तं समाचरेत् ॥ ८ ॥
उपोष्यैव चाधिवासं कृत्वा पूजां परेऽहनि ।
१ 'ण' ख पाठः ।

२२६ गन्धर्वतन्त्रे ।
गुरुं संपूज्य विधिवत् तदा पूजां समापयेत् ॥ ९ ॥
कुमार्यै भोजनं दत्त्वा विप्रानपि च भोजयेत् ।
अत ऊर्ध्वं पुनर्दीक्षां लज्जजापं समाचरेत् ॥ १० ॥
महात्रिपुरसुन्दर्या योगिनीनां तथैव च ।
द्व्यहं वाथ त्र्यहं वापि पूजाशून्यं करोति यः ॥ ११ ॥
सिद्धिहानिर्भवेत् तस्य योगिनीशापमालभेत् ।
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ॥ १२ ॥
तस्य मांसं च शुक्रं च रूपशोणितमेव च ।
अभीष्टानपि कामांश्च हिंसन्ति योगिनीगणाः ॥ १३ ॥
बन्धुभिः कलहो घोरः कलत्रैश्च विशेषतः ।
सस्यशून्या भवेदुर्व्वी विघ्नस्तस्य पदे पदे ॥ १४ ॥
सत्यं सत्यं भवेद्रोगी दरिद्रश्चोपजायते ।
इहैव दुःखमाप्नोति त्रिविधं लोमहर्षणम् ॥ १५ ॥
परे स्वर्गात् परिभ्रष्टः क्षितौ क्षितिप[ला?ना]यकः ।
अतुलां भक्तिमासाद्य कैवल्यं लभते ततः ॥ १६ ॥
ब्रह्मचिन्ताप्रवृत्तो यः सोऽपहाय च दैवतम् ।
विना(ल?न)या प्रवर्तेत ब्रह्मघाती स एव तु ॥ १७ ॥
जपध्यानपरो मन्त्री योगक्षेमपरायणः ।
स्वयं यदि भवेन्मूढो गुरुं तत्र नियोजयेत् ॥ १८ ॥
ज्ञानकर्मपरः शुद्धः सर्वदेवमयः प्रभुः ।
सिद्धयः सकलास्तस्य गुरुर्यस्य हिते रतः ॥ १६ ॥
मासतो वर्षतो वापि स्वयं पुण्याहयोगतः ।

चतुर्विंशः पटलः । २२७
कुर्याद्वै महतीं पूजां संपन्नाङ्गविभूषिताम् ॥ २० ॥
उपहारैर्बहुविधैरलंकृतसुविग्रहाम् ।
नित्यमेवार्चनं देव्या नित्यमेव समाचरेत् ॥ २१ ॥
नित्याचारपरो मन्त्री नैमित्तिकवि(धं?धिं) चरेत् ।
नित्यनैमित्तिकपरः साधुः काम्यं विचिन्तयेत् ॥ २२ ॥
काम्यान्नैमित्तिकं नित्यं नित्यं नैमित्तिकात् परम् ।
नित्याचारविलोपी यः काम्यं नैमित्तिकं च वा ॥ २३ ॥
करोति स च दुर्मेधा नाप्नोति तस्य तत्फलम् ।
नित्याचारमनादृत्य यदन्यत्तु समीहते ॥ २४ ॥
निष्फलं तस्य तत्कर्म वन्ध्यास्त्रीमैथुनं यथा ।
अपि पुष्पफलैर्वापि पूजयेच्चक्रदेवताः ॥ २५ ॥
अङ्गहीनं तु पुरुषो न सम्यग्याज्ञिको भवेत् ।
अङ्गहीना तथा पूजा न सम्यक्फलदायिनी ॥ २६ ॥
ध्यानं पूजा जपो होम इति हस्तचतुष्टयम् ।
शरीरं न्यासजालं तु आत्मा तज्ज्ञानमेव च ॥ २७ ॥
भक्तिः शिरोऽत्र हृच्छ्रद्धा कौशलं नेत्रमीरितम् ।
एवं यज्ञशरीरं तु मत्वा साधकसत्तमः ॥ २८ ॥
यज्ञं समापयेन्नित्यं साङ्गमेवं खलु प्रिये ।
अङ्गहीने महान् दोषस्ततोऽङ्गं नावधीरयेत् ॥ २६ ॥
सर्वाङ्गपूर्णपुरुषो यज्ञाख्यः सर्वसिद्धिदः ।
तत्तदीहापरा शक्तिः सिद्धिः संयोगतस्तयोः ॥ ३० ॥
१ 'कर्मेव वा' ख पाठः । २ 'साङ्गेनैव' ख. पाठः । ३ 'पूर्णयज्ञः' क. पाठः ।

२२८ गन्धर्वतन्त्रे ।
श्रीमत्त्रिपुरसुन्दर्याः पूर्णो यज्ञशरीरके ।
अङ्गबाधे यथा दोषो नान्यस्य हि तथा भवेत् ॥ ३१ ॥
स्वविभवा(न्न?नु)रूपा वै पूजा कार्या विभूतये ।
व्यतिक्रमात् तु हीनः स्याद् ब्रह्महत्यामवाप्नुयात् ॥ ३२ ॥
नाधिकं नैव च न्यूनमुभयं पापदायकम् ।
चतुर्दश्यामथाष्टम्यां पूर्णायां मासमध्यतः ॥ ३३ ॥
महाभूतदिने वापि यजेद् विभवविस्तरम् ।
कृष्णायाथ चतुर्दश्या युक्तं कुजदिनं यदा ॥ ३४ ॥
महाभूतदिनं तत्तु सर्वभूतवशंकरम् ।
यदि पुष्यो¹ भवेत् तत्र तदानन्तफलप्रदम् ॥ ३५ ॥
मन्त्रं यदि श्मशाने तु शवोपरि यथाविधि ।
अथवा प्रजपेद् देवीं मातृकां नीलरूपिणीम् ॥ ३६ ॥
कृत्वा जप्त्वा तदा कुर्याद् भूतप्रेतपिशाचकान् ।
तान् वशीकृत्य तल्लोके तथेह तैः सहा(स?ग)तः ॥ ३७ ॥
वशीकृत्य श्रिया युक्तो मोदते पुत्रपौत्रकैः ।
यथा तथा गृहे बाह्ये कृत्वा जप्त्वा नरो बुधः ॥ ३८ ॥
राक्षसान् किंनरान् कृत्वा तल्लोके च तथेह च ।
तैश्च प्रमुदितो भोगी भोगान् भुङ्क्ते यथेच्छया ॥ ३६ ॥
निजगृहे सदा यस्तु पवित्रे सुमनोहरे ।
कृत्वा जप्त्वा नरः प्राज्ञो यक्षान् सर्वान् वशं नयेत् ॥ ४० ॥
भुक्त्वा च मुदितो लोके धनी धनविशारदः ।


१ ' ष्या ' ख पाठ ।

चतुर्विंशः पटलः । २२६
धनप्राणो धनात्मा च सुखं तदनुचिन्तनात् ॥ ४१ ॥
अनुभूय तदानन्दं तदिहापि विराजते ।
नदीनद्समीपे तु पितृपीठेऽथवा प्रिये ॥ ४२ ॥
कृत्वा जप्त्वा च तल्लोके तथैह तैः प्रमोदितः ।
कामात्मा कामरूपी च कामी काममनोहरः ॥ ४३ ॥
कामयित्वाखिलान् कामान् कामराज इवापरः ।
राजते सततं राजा राजभिश्चैव वाजिभिः ॥ ४४ ॥
पुण्यक्षेत्रे महापीठे पुण्यवृक्षसमीपके ।
कृत्वा जप्त्वा नरो मानी मान्योऽयं यमलोकराट् ॥४५॥
सर्वदा[युञ्जते?यं जयो]लोके राजते सिद्धिं¹भूमिषु ।
मानुषत्वं विना सिद्धिः पुनः परमदुर्ल[भं?भा] ॥ ४६ ॥
यस्मात् तत् सर्वलोकानां भोगप्रत्यक्षदायकम् ।
प्रफुल्लकुसुमाकीर्णे उद्यानेऽतिमनोहरे ॥ ४७ ॥
प्रफुल्लकुन्दसंमोदप्रपूरितदिगन्तरे ।
वृक्षमूलेऽथवा जप्त्वा कृत्वा हस्तं स्वमस्तके ॥ ४८ ॥
गन्धर्वरूपवान् भूत्वा गीतनृत्यविशारदः ।
गन्धर्वान् किंनरान् कृत्वा तल्लोके च तथैह तैः ॥ ४६ ॥
आनन्दं परमं लब्ध्वा गीतनृत्यादिगोचरम् ।
तदानन्दमये रम्ये मोदते तत्प्रसादतः ॥ ५० ॥
नागलोकसंधिभूमौ वने गिरिगुहासु च ।
कृत्वा जप्त्वा सदा देवीं नागान् सर्वान् वशं नयेत् ॥५१॥
१ 'द्ध' ख पाठ. ।

२३० गन्धर्वतन्त्रे ।
तैः सह मुदितः प्राज्ञस्तल्लोके च तथेह च ।
भुङ्क्ते बहुविधान् भोगान् नागलोकप्रतिष्ठितान् ॥ ५२ ॥
परकीये यदा यत्र पश्यन्नच्छविलोकिते(?) ।
कृत्वा जप्त्वा नरो धर्मादाक्षरं लोकमाप्नुयात् ॥ ५३ ॥
तानेव वशगान् कृत्वा तल्लोके च तथेह च ।
मोदते सततं वीरः सुरासुरविचेष्टितैः ॥ ५४ ॥
यत्र कुत्र महापीठे सौरे सूर्यविलोकने ।
कृत्वा जप्त्वा महातेजा भवरोगतमोपहः ॥ ५५ ॥
उदेति सविता सूर्यः सूर्यलोके तथेह च ।
वने सर्वान् वशे कृत्वा वशी वशं नयेज्जगत् ॥ ५६ ॥
पुण्यनद्यां जलान्ते यस्तदन्तर्वा निरन्तरम् ।
सदा पुण्यज(न?ल)स्नायी तत्पायी तद्विहारवान् ॥ ५७ ॥
कृत्वा जप्त्वा नरः प्राज्ञो ब्रह्मर्षिलोकसंज्ञके ।
ब्रह्मर्षिभिर्मुदा तत्र तथेह तँत्प्रसादतः ॥ ५८ ॥
भोगान् भुङ्क्ते सै विप्रर्षिब्रह्मघोषपुरःसरान् ।
महत्या च(प्रि?श्रि)या युक्तो ब्राह्मया चैवातिशुद्धया ॥५६॥
राजते सततं राजा (रा?वा)जिराजविहारवान् ।
देवतायतने [ध?पु]ण्ये नित्यपूजागृहे तथा ॥ ६० ॥
देवताः प्रतिगृह्णन्ति देवतायतने कृ[ताः?ताम्] ।
उद्याने स्वस(मां?मी)पस्थे गृहे चातिमनोहरे ॥ ६१ ॥

१ 'तै स प्रमु' ख पाठ । २ 'पुण्यानदी' ख पाठः । ३ 'न्ते वा ' ख पाठः ।
४ 'ते प्र' ख पाठ । ५ 'भक्ते सविप्र भोगान्' ख. पाठः । ६ 'ब्राह्मया' ख पाठ ।