सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 296, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 296

द्वाविंशः पटलः । २१५
शोणितैश्च समाक्रान्तां प्रतीचीमवलोकयन् ॥ ७२ ॥
पूजयेत् साधको भक्त्या चोपचारैर्यथाविधि ।
यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ॥ ७३ ॥
अधः कृत्वा तु पुरुषं (वर्णं?रन्तु)मिच्छा भवेद्यदा ।
तदाक्रम्य स्वयं देवी भैरवोपरिसंस्थिता ॥ ७४ ॥
सहजानन्दसन्दोहैर्निजानन्दप्रवर्धिनी ।
तदा नैजं भवेद्विश्वं तत्र पूजा महोदया ॥ ७५ ॥
तत्तद्दृ(ष्टृ?ष्टि)मयैर्दीपै(र्भा?र्भो)गैश्च विविधैः सदा ।
लाक्षारुणमयं सर्वं स्वयं तावत्तथा भवेत् ॥ ७६ ॥
शक्तिभेदात्मिकां विद्यां हंसबीजपुटीकृताम् ।
प्रणवान्तरितां शुद्धां नादलीलां तदात्मिकाम् ॥ ७७ ॥
मूलाद्ब्रह्मरन्ध्रान्तां विषतन्तुतनीयसीम् ।
अर्धे^१राम्बुरुहहंसीं सुस्थिरामिव चञ्चलाम् ॥ ७८ ॥
सं(श्र?स्र)वन्तीं सुधाधारां शुद्धलाक्षारसोपमाम् ।
आवाह्य पूजयित्वा खं कमलाङ्कपुरान्तरे ॥ ७९ ॥
विनिर्जि(त?त्ये)न्द्रियमनो जपेदानन्दरूपिणीम् ।
मध्यं मुखं विजानीयात् पूर्वापरौ स्तनद्व[यौ?यम]् ।८०॥
अर्धमात्रां^३ परं रूपं निशामध्यं तयोरधः ।
अनन्तफलदं पुण्यं भोगमोक्षफलप्रदम् ॥ ८१ ॥
संध्याचतुष्टयं भद्रे कथितं भुवि दुर्लभम् ।
चतुर्भुजं महादेव्या ज्ञेयं कालचतुष्टयम् ॥ ८२ ॥
आत्मा सा परमेशानी परमेश्वर एव च ।
१ 'हराम्बुव' क पाठ । २ 'सुख' क पाठ । ३ 'त्रा' क पाठ ।