सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 301, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 301

२२० गन्धर्वतन्त्रे ।
बालप्रियैश्च नैवेद्यैस्त्रिपुरसुन्दरीधिया ।
स्तुत्या नत्वाथ संतोष्य स्वाभीष्टं प्रार्थयेत्ततः ॥ ९ ॥
पूजितायाश्च तुष्टाया हस्ताङ्कियुतो नरः।
शिरसा प्रतिगृह्णीयादाशीर्वादयुतान्क्षतान् ॥ १० ॥
यद्यद्वदति संतुष्टा तत्तद्भवति निश्चितम् ।
इति ते कथितं देवि रहस्यं परमाद्भुतम् ॥ ११ ॥
विना तेन महेशानि न पूजाफलभाग्भवेत् ।
नित्यार्चायां च दीक्षायां पुरश्चर्यादिकेषु च ॥ १२ ॥
आदौ पूर्णे च मध्ये च लक्षे पूर्णे विशेषतः ।
कुमार्यः पूजितव्याश्च कुमारीर्नार्चयेद्यदि ॥ १३ ॥
तस्य पूजाफलं सर्वं नीयते यक्षरक्षसैः ।
न पूजयति चेत् कन्यास्तदो विघ्नैः प्रभूयते ॥ १४ ॥
पूर्वार्जितफलं नश्येत् का कथा परजन्मनि ।
तस्मात् सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् ॥ १५ ॥
पूजितव्या महाभागाः कुमार्यः परमेश्वरि ।
प्रातरुत्थाय पूजायां स्नानकालेऽथवा पुनः ॥ १६ ॥
संस्कृतासंस्कृता वापि हीनजात्युद्भवास्तथा ।
नमस्याः साधकेन्द्राणां कुलीनानां परार्चने ॥ १७ ॥
ब्रह्मण्यार्पितचित्तानां नास्तीह भिन्नता क्वचित् ।
कुलपूजां विना देवि कुलदेवी पराङ्मुखी ॥ १८ ॥
परयोषा यदा भद्रे स्वयं तासां गुरुर्भवेत् ।
१ 'तद्धि' क पाठ । २ 'परि' क पाठः । ३ 'ते' क पाठ. ।