सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

सप्तदशः पटलः । १७५
अनेन तं समभ्यर्च्य निग(र्व?र्भ)योगि(नीं?नीः)यजेत् ॥७०॥
नायिकां तत्र संपूज्य मुद्रां संदर्शयेत् तथा।
तं[स्माद्?स्यास्त्य]नामिकायुग्ममधः कृत्वाऽङ्कुशाकृति । ७१।
तर्जन्‍यावपि तेनैव क्रमेन विनियोजयेत् ।
इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिका ॥ ७२ ॥
*कामदेवोऽग्निमारूढो बिन्दुनादकलान्वितः ।
त्रयोदशस्वरोपेतो मुद्राबीजमितीरितम् ॥ ७३ ॥
[७]अष्टकोणे महेशानि रहस्ययोगिनीर्यजेत् ।
वशिनीप्रमुखाः सर्वाः पूर्ववद्बीजसंयुताः ॥ ७४ ॥
पादुकां पूजयामीति न्यासादेव विशेषतः ।
चक्रेश्वरीं यजेच्छक्तिं (भ?भु)क्तिसिद्धिं च वामतः ॥ ७५ ॥
त(दङ्के?द्वत्ते)खेचरीमुद्रां तां च संदर्शयेत् ततः ।
सव्यं दक्षिणदेशे तु दक्षिणं वामदेशतः ॥ ७६ ॥
बाहुं कृत्वा महेशानि हस्तौ संपरिवर्त्य च ।
कनिष्ठानामिके देवि यु(क्ता?क्त्वा)तेन क्रमेण तु ॥ ७७॥
तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ।
अङ्गुष्ठौ च महेशानि कारयेत् सरलाविह ॥ ७८ ॥
इयं सा खेचरी मुद्रा नाम्ना सर्वोत्तमा प्रिये ।
रचितेयं महामुद्रा सर्वतेजोपहारिणी ॥ ७९ ॥
‡शिवं चन्द्रं तथा कान्तं पान्तं वह्निसमन्वितम् ।
१ 'अस्या' क पाठ । २ 'ज्ञानात्मिका' क पाठ । * रेफारूढ कामदेव-क ।
योदश स्वर, तेन क्रो इति । ‡ शिव ह चन्द्र स कान्त ख पान्त फ वह्नि रेफ, एकादश. स्वर ए
र्ध्वन् नादकलादियुत, तेन हसख्फ्रें इति खेचरीविद्या ।

१७६ गन्धर्वतन्त्रे ।
एकादशस्वरोपेतं बीजं तस्याः प्रकीर्तितम् ॥ ८० ॥
(८)मध्यत्रिकोणचक्रे च अग्रदक्षोत्तरे शिवे ।
ता एव पूजयेद्देवि विन्यासोक्तविधानतः ॥ ८१ ॥
पादुकां पूजयामीति विशेषोऽत्र प्रकाशितः ।
त्रिपुरा[पां?म्बां]तु चक्रेशीमिच्छासिद्धिं च वामतः ॥ ८२ ॥
परिवर्त्य करौ स्पृष्टावर्धचन्द्राकृती प्रिये ।
तर्जन्यङ्गुष्ठयुगलं युगपत् कारयेत् ततः ॥ ८३ ॥
अधः कनिष्ठाष्वष्ठधे मध्यमे विनियोजयेत् ।
तथैव कुटिले योज्ये सर्वाधस्तादनामिके ॥ ८४ ॥
बीजमुद्रेयमाख्याता परा त्रैलोक्यमातृका ।
सदाशिवस्य बीजाढ्या† दर्शयित्वा विधानतः ॥ ८५ ॥
[६]सर्वानन्दमये चक्रे ब्रह्मविष्ण्वीशरूपिणीम् ।
पूजयित्वा विधानेन चक्रेशीमपि भैरवीम् ॥ ८६ ॥
ज्ञानेच्छादिक्रियारूपां मोक्षसिद्धिं च वामतः ।
सिंहं च पुरतो देव्या जगदाधारमर्चितम् ॥ ८७ ॥
पूजयेत् सततं भक्त्या पश्यन्तमम्बिकामुखम् ।
वाग्बीजं पूर्वमुद्धृत्य योनिमुद्रां प्रदर्शयेत् ॥ ८८ ॥
अनामिकायुगं देवि परिवर्तनयोगतः ।
अङ्कुशाकाररूपाभ्यां तर्जनीभ्यां तु धारयेत् ॥ ८९ ॥
मध्यमे कुरु तन्मध्ये कनिष्ठिके तथाविधे ।
दण्डाकारौ ततोऽङ्गुष्ठौ कनिष्ठोपरिसंस्थितौ ॥ ९० ॥


  • 'त्र' क. पाठ. । † ह्रौं इति सदाशिवबीजम् ।

सप्तदशः पटलः । १७७
योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका ।
अत्रपदं समाभाष्य सर्वानन्दमयात् ततः ॥ ६१ ॥
चक्रराजपदस्यान्ते ब्रह्मस्वरूपमालिखेत् ।
संवि(देत्य?न्मय)पदं ब्रूयाद्विन्दुचक्रे ततः परम् ॥ ६२ ॥
एषा परापरशब्दाद्रहस्ययोगिनी ततः ।
ब्रह्मस्वरूपिणी पश्चान्महात्रिपुरसुन्दरी ॥ ६३ ॥
समुद्रा सायुधा चैव सवाहना तथैव च ।
तथा सपरिवारान्ते सर्वोपचारकैस्तथा ॥ ६४ ॥
पूजितास्तु तथा देवी तर्पितास्त्वं१ति पूर्ववत् ।
पुष्पाञ्जलिभिरभ्यर्च्य तर्पयेद्विधिना ततः ॥ ६५॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे प्रकटाप्रकटादिदेवीपूजनक्रम-
निरूपणं सप्तदशः पटलः ॥ १७ ॥
—=-!!:-=*—
१ 'तमीति' ख पाठः ।

अष्टादशः पटलः ।
--=:****:=--
ईश्वर उवाच
प्रसादसुमुखीं देवीं भावयन् प्रजपेन्मनुम् ।
सर्वयज्ञेषु सर्वत्र जपयज्ञः प्रशस्यते ॥ १ ॥
जपात्तुष्यन्ति देवाश्च जपात् सिध्यन्ति साधकाः ।
तस्मात् सर्वप्रयत्नेन जपनिष्ठापरो भवेत् ॥ २ ॥
जपः स्यादक्षरावृत्तिरद्रुतं न विलम्बितम् ।
पूजा ध्यानं जपो होम इति धर्मचतुष्टयम् ॥ ३ ॥
प्रत्यहं साधकः कुर्यात् स्वयं चेत् सिद्धिरिच्छति ।
जपस्यान्ते शिवं ध्यायेद् ध्यानस्यान्ते पुनर्जपेत् ॥ ४ ॥
जपध्यानसमायुक्तः शीघ्रं सिध्यति मन्त्रवित् ।
जपरूपा शिवा शक्तिर्ध्यानरूपः सदाशिवः ॥ ५ ॥
तयोर्योगान्भवेत् सिद्धिर्नान्यथा खलु पार्वति ।
संयुक्तं संयुतं कृत्वा यदयुक्तं न योजयेत् ॥ ६ ॥
यथा सिद्धिस्तथा माला मालाङ्गं जपकर्मणि ।
मालया जपतो नित्यं सिद्धिरेव न संशयः ॥ ७ ॥
आशुसिद्धिकरी माला वर्णमयी समीरिता ।
अनुलोमविलोमार्गेर्मातृकायाः सबिन्दुकैः ॥ ८ ॥
(सु?स)मेरुकैः सदा कार्या माला सर्वसमृद्धि[जाः?दा] ।
अष्टाधि(के?का)ष्टवर्गैस्तु पुनरेव समापयेत् ॥ ६ ॥
१ 'क.' क पाठ । २ 'द्धि' क पाठः ।

वर्णेनान्तरितमन्त्रं कृत्वा ज(प्येत?पेत्तु)साधकः ।
मालाभावे ततः स्वासु अङ्गुलीषु जपेद्बुधः ॥ १० ॥
नित्यं जपं करे कुर्यान्नतु काम्यं कदाचन ।
आरभ्यानामिकामध्यात् प्रादक्षि(णो?ण्ये)न वै क्रमात् ॥११।
तर्जनीमूलपर्यन्तं जपेन्नवसु पर्वसु ।
तर्जन्यग्रे तथा मध्ये यो जपेत् (तन्त्र?मति)मान्नरः ॥ १२ ॥
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ।
अनामामध्यपर्वं तु मेरुं¹ कृत्वा न लङ्घयेत् ॥ १३ ॥
मेरुं प्रदक्षिणं कुर्वन्ननामामूलपर्वतः ।
अङ्गुलीपर्वभिर्मन्त्रं जपन् रेखां न संस्पृशेत् ॥ १४ ॥
अङ्गुलीर्नापयुञ्जीत किंचिदाकुञ्चिता(:) तले ।
अङ्गुलीनां वियोगे तु छिद्रेण (श्र?स्र)वते जपः ॥ १५ ॥
स्फटिकादिभिरप्यत्र माला जपसमृद्धिदा ।
निधाय पुरतो मालां सव्यहस्तगतां च वा ॥ १६ ॥
जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः ।
इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् ॥ १७ ॥
ऐं मां माले महामाले सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १८ ॥
चन्द्रचन्दनकस्तूरी-रोचनागुरुकुङ्कुमैः ।
पूजयित्वा ततो मालां गृह्णीयाद् दक्षपाणिना ॥ १६ ॥
बीजं गणपतेः पूर्वमुच्चार्य तदनन्तरम् ।


पादटिप्पणी:
¹ 'रु.' ख. पाठ ।

१८० गन्धर्वतन्त्रे ।
अविघ्नं कुरु माले त्वं गृह्णीयादित्यनेन तु ॥ २० ॥
यथा हस्तान्न च्यवते जपत: (श्र?स्र)क् तथाचरेत् ।
हस्ताच्च्युतायां विघ्नं स्याच्छिन्नायां मरणं भवेत् ॥ २१॥
यत्नात् संगोपयेदेनां भ्रमयेन्न वि(धा?ध्रू)नयेत् ।
गुरुं प्रकाशयेन्नैव यन्त्रं मन्त्रं कदाचन ॥ २२ ॥
अक्षमालां च मुद्रां च गुरवेऽपि न दर्शयेत् ।
भूतराक्षसवेतालाः सिद्धगन्धर्वचारणाः ॥ २३ ॥
हरन्ति प्रकटं यस्मात् तस्माद्गुप्तं जपेत् सदा ।
मालां स्वहृदयासन्नां दक्षिणस्य करस्य च ॥ २४ ॥
मध्यमाया मध्यभागे वर्जयित्वा तु तर्जनीम् ।
अनामिकाकनिष्ठाभ्यां युताया नम्रभागतः ॥ २५ ॥
स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् ।
प्रत्येकं बीजमादाय कुर्याद्वामेन न स्पृशेत् ॥ २६ ॥
प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं न चालयेत् ।
तर्जन्या न स्पृशेन्मालां मुक्तितो गणनाक्रमः ॥ २७ ॥
अङ्गुष्ठपर्वमध्यस्थापरिवर्त्तं समाचरेत् ।
अङ्गुष्ठेन विना कर्म कृतं भवति निष्फलम् ॥ २७ ॥
अङ्गुष्ठं मोक्षदं देवि तर्जनी शत्रुनाशिनी ।
मध्यमा धनसिद्धौ स्याच्छान्तिकर्मण्यनामिका ॥ २६ ॥१
कनिष्ठाकर्षणे ज्ञेया जपकर्मणि सिद्धिदा ।
मालाबीजं तु जप्तव्यं स्पृशेन्नहि परस्परम् ॥ ३० ॥
१ 'स्तच्यु ' ख पाठः ।

अष्टादशः पटलः । १८१
पूर्वबीजं जपन् यस्तु परबीजं तु संस्पृशेत् ।
अङ्गुष्ठेन भवेत्त(स्य?त्र)निष्फलस्तस्य तज्जपः˙॥ ३१॥
किटिशब्दान्विता माला छिन्नाभिन्नापिवा भवेत् ¹
वामोरौ दत्तपादं च विन्यस्य परमेश्वरि ॥ ३२॥
बद्धवीरासनो मन्त्री दिशश्चानवलोकयन् ।
गुरुदैवतमन्त्राणा[मेकं?मैक्यं]संभावयन् धिया ॥ ३३ ॥
अथवा चिन्तयेन्मूर्ध्नि गुरुं वर्णादिभेदतः ।
मन्त्रं च कण्ठतो ध्यात्वा चिन्तयन् हृदि देवताम् ॥३४॥
निगदेनोपांशुना वा मानसेनाथवा प्रिये ।
जपारम्भं सुधीः कुर्याद् देवताभावतत्परः ॥ ३५ ॥
निःशङ्कः परमेशानि स्पष्टवाचा निगद्यते ।
अव्यक्तः प्रस्फुरद्दक उपांशुः परिकीर्तितः ॥ ३६ ॥
धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् ।
उच्चरेदनुसंस्मृत्य स(भ?प्रो)क्तो मानसो जपः ॥ ३७ ॥
सौषुम्नाध्वन्युच्चरितं ध्वनिमात्रं विभावयेत् ।
मन्त्राक्षराणि चिच्छक्तौ प्रोतानि च विभावयन् ॥ ३८ ॥
तामेव परमे व्योम्नि परमामृतबृंहितः ।
दर्शयत्यात्मसद्भावं पूजाहोमादिभिर्विना ॥ ३६ ॥
मनः संहृत्य विषयान्म[द्र?न्त्रा]र्थगतमानसः ।
न द्रुतं न विलम्बं च जपेन्मौक्तिकपङ्किवत् ॥ ४० ॥
निगदेन तु यज्जप्तं लक्षमात्रं वरानने ।
१ ' बापि ' क. पाठ. ।

१८२ गन्धर्वतन्त्रे ।
उपांशूच्चारणेकेन तुल्यं भवति शैलजे ॥ ४१ ॥
उपांशुलक्षमात्रं तु यज्जप्तं कमलेक्षणे ।
मानसोच्चारणात्तुल्यमेकेन वरवर्णिनि ॥ ४२ ॥
विशेषात् त्रिपुरातन्त्रे प्रशस्तो मानसो जपः ।
मनसा च स्मरेत् स्तोत्रं वचसा वा जपेन्मनुम् ॥ ४३ ॥
उभयं निष्फलं तस्य भिन्नभाण्डोदकं यथा ।
उत्तमो दशसाहस्रः सहस्रो मध्यमः स्मृतः ॥ ४४ ॥
अधमस्तु विजानीयादष्टोत्तरशतं शिवे ।
इतो न्यूनं महेशानि न शस्तं जपकर्मणि ॥ ४५ ॥
यथाशक्ति जपं कुर्यात् संख्ययैव प्रयत्नतः ।
असंख्यातं च(स?य)जप्तं तत्सर्वं निष्फलं भवेत् ॥ ४६ ॥
गृह्णन्ति राक्षसा (ये?ते)न गणयेत् सर्वथा बुधः ।
नैकवासा जपेन्मन्त्रं बहुवस्त्राकुलोऽपि वा ॥ ४७॥
अप्रावृतकरो वापि शिरसा प्रावृतोऽपिवा ।
चिन्ताव्याकुलचित्तो वा क्रुद्धो वापि त्वरान्वितः ॥४८॥
निर्बोधोऽप्रीतचित्तो न न रुष्टो न क्षुधान्वितः ।
तथा चान्यमना भूत्वा प्रलपन्न जपेन्मनुम् ॥ ४६ ॥
अनासीनः शयानो वा गच्छन् भुञ्जान एव च ।
यथाविधि जपं कृत्वा मन्त्रेणार्घ्योदकेन च ॥ ५० ॥
जपं तं च महादेव्या वामहस्ते समर्पयेत् ।
तेजोरूपं जपफलं शिवया स्वीकृतं स्मरेत् ॥ ५१ ॥
श्रीबीजेनैव पाणिभ्यामवता(राणे?र्थ ख)शीर्षतः ।

अष्टादशः पटलः । १८३
सारस्वतेन बीजेन हस्ताभ्यां स्थापयेत् ततः ॥ ५२ ॥
जपकर्मणि मालायाः प्रतिपत्तिरियं प्रिये ।
एवं यः कुरुते मालां जाप्यं च साधकः प्रिये ॥ ५३ ॥
स प्राप्नोतीप्सितं देवि हीनस्यायुर्विपर्ययः ।
निःसेतुं च यथा तोयं क्षणाद्भिन्नं प्रसर्पति ॥ ५४ ॥
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति (नं?म)न्त्रिणाम् ।
तस्मात् सर्वेषु मन्त्रेषु सर्वे वर्णा द्विजादयः ॥ ५५ ॥
पार्श्वयोः सेतुमाद(ध्यात्?ध्युः)जपकर्मणि साधकाः ।
अकारं चाप्युकारं च मकारं च प्रजापतिः ॥ ५६ ॥
वेदत्रयात् समुद्धृत्य प्रणवं निर्ममे पुरा ।
जपादौ जपकर्मान्ते प्रणवं सेतुरूपकम् ॥ ५७ ॥
नियोजयेन्महेशानि सर्वकार्यार्थसिद्धये ।
जपान्ते जुहुयादग्निं दशांशं जपमानतः ॥ ५८ ॥
तत्तु देव्याः पुरोभागे साधकः परमेश्वरीम् ।
होमयेत् संस्कृते वह्नौ तत्र देवीं धिया स्मरन् ॥ ५६ ॥
इदं तस्यै समाभाष्य मूलमन्त्रेण सुन्दरि ।
स्वाहान्तेन च होतव्यं पायसैर्मधुराप्लुतैः ६०
व्यस्ताव्यस्तं ततो हुत्वा संभवे चान्यदेवताः
षडाहुतीः षडङ्गेन नित्यहोमोऽयमीरितः ॥ ६१ ॥
एकतः सर्वकर्माणि चैकतो जपहॊ(नघे?मकम्) ।
सर्वाधिकं होमकर्म होमात् किंवा न साध्यते ॥ ६२ ॥


१ 'क' क पाठ. ।

१८४ गन्धर्वतन्त्रे ।
अनया दीक्षितो मन्त्रो यदि होमविवर्जितः ।
त्रिविधं दुःखमाप्नोति नित्यहोमपरो भवेत् ॥ ६३ ॥
अकुर्वतामग्निहोत्रमग्निर्भूत्वा महेश्वरी¹ ।
धनानि शीघ्रं ग्रसति गृहक्षेत्रपशूनपि ॥ ६४ ॥
बहुदुःखेनार्जितानि संचितान्यचिरेण तु ।
आत्मप्राणाधिकान्याशु भू(ताग्निं?त्वाग्निः)ग्रसतीश्वरी । ६५।
अग्निहोत्रं सदा कुर्यात् [त?य]स्मादग्निमयीश्वरी ।
अग्निहोत्रविधानेन संपदां भाजनं भवेत् ॥ ६६ ॥
अग्निहोत्रपरस्येह वह्निर्भवति शीतलः ।
गृहक्षेत्रादिवित्तेषु वर्धते जाठरः परः ॥ ६७ ॥
अग्निरेव मुखं देव्यास्तस्मादग्नौ हुनेत् सदा ।
पक्षतो मासतो वापि वर्षतो वा यथाविधि ॥ ६८ ॥
होमाशक्तौ जपेद्विद्यां होमद्विगुणसंख्यया ।
स्तुवन्नानाविधैः स्तोत्रैः प्रणमेत् सप्रदक्षिणम् ॥ ६९ ॥
एवं नानाविधैर्देवीं संतोष्य साधकोत्तमः ।
भक्तिप्रवणेनचित्तेन निवेद्यानि निवेदयेत् ॥ ७० ॥
अनुलेपं च सिन्दूरं नेत्राञ्जनमनुत्तमम् ।
धूपामोदं प्रदीपांश्च दर्पणं व्यजनं तथा ॥ ७१ ॥
छत्रं च चामरं चैव घण्टानादमनुत्तमम् ।
वाद्यं गीतं तथा नृत्यं क्रीडाकौतुकमङ्गले ॥ ७२ ॥
निर्मञ्छनं च सिद्ध्यर्थै³र्दीपावलिभिरेव च ।
१ 'रीम् ' क. पाठ. । २ 'प्रणव ' क. पाठ । ३ 'द्धार्थै ' क. पाठः ।

अष्टादशः पटलः । १८५
दूर्वार्पणं शिरोदेशे साक्षतं च शनैः शनैः ॥ ७३ ॥
भक्तिप्रवणचित्तं च दास्यमात्मनिवेदनम् ।
एवं निवेदयेद् देव्यै निवेद्यानि तथा बुधः ॥ ७४ ॥
स धन्यः सर्वलोकानां नान्यः पूज्यश्च भूतले ।
देवतानामृषीणां च दैत्यानामथ रक्षसाम् ॥ ७५ ॥
गन्धर्वाणामशेषाणां नागादीनां महात्मनाम् ।
अस्माकं चापि सर्वेषां माननीयः सुरासुरैः ॥ ७६ ॥
सार्वभौमपदं लब्ध्वा कैवल्यं लभते ततः ।
अनुलिप्य महादेवीं वासयेज्जगतीमिमाम् ॥ ७७ ॥
सिन्दूरैस्तिलकं देव्यै वश्याः सर्वाश्च योषितः ।
दिव्यज्ञानं भवेत्तस्य (देहा? दत्त्वा) ऽशनमनुत्तमम् ॥ ७८ ॥
माल्यादीनां प्रदानेन महालक्ष्मीः स्थिरा गृहे ।
ताम्बूलस्य प्रदानेन पानीयस्यापि शोभने ॥ ७६ ॥
सदानन्दमयो भूयात्स[म?दा] दुःखविवर्जितः ।
धूपैः प्रधूपिता देवी दीपैश्चापि निराजिता ॥ ८० ॥
ददाति वित्तं पुत्रांश्च धरां भूतिमरोगिताम् ।
धान्यं चौप्यखिलान् कामान्मतिं धर्मे तथा शुभाम् ॥ ८१ ॥
दर्पणं दर्शयित्वैव सारूप्यं लभते विभोः ।
व्यजनैश्चामरैर्वापि व्यजयित्वा महेश्वरीम् ॥ ८२ ॥
तं व्यजयेन्महालक्ष्मीश्चामरद्वयधारिणी ।
निमेषार्धं महादेव्याश्छत्रं चोपरि धारयेत् ॥ ८३ ॥
१ 'त्तेन' ख पाठ । २ 'स्यान्म्रा' क पाठ । ३ 'धन्यश्चा' ख पाठ ।

१८६ गन्धर्वतन्त्रे ।
तस्योपरि महच्छत्रं परिपूर्णेन्दुसोदरम् ।
लोकपालैः सहागत्य धारयेत् त्रिदशेश्वरैः ॥ ८४ ॥
घण्टाशङ्खनिदानेन तोषयेद्यो महेश्वरीम् ।
भेरीदुन्दुभिवाद्यैश्च मरुत्वांस्तमनुव्रजेत् ॥ ८५ ॥
(अपा?योऽपि)नो वादयेद् घण्टां शङ्खं वा स्वयमेव हि ।
स निर्लज्जः कथं ब्रूते पूजयामि महेश्वरीम् ॥ ८६ ॥
ब्रह्मा विष्णुर्हरश्चान्ये सर्वे शङ्खादिवादिनः ।
शङ्खघण्टादिकांस्तस्माद् वादयेद्देवसंनिधौ ॥ ८७ ॥
वाद्यं यः कारयेद्देव्यै गीतं नृत्यं तथैव च ।
तुम्बुरुर्नारदश्चैव हाहा हूहूस्तथैव च ॥ ८८ ॥
प्रसादयन्ति तं नित्यं विद्याध(रा?र्याे)ऽप्सरादयः ।
सुवासिन्यो मदप्रौढा वेशयित्वा यथाविधि ॥ ८६ ॥
वेश्यास्त्वलंकृताः सर्वाः क्रीडयेयुरलं यदि ।
देवीमुद्दिश्य पुरतस्तस्य पुण्यफलं शृणु ॥ ६० ॥
उर्वशीप्रमुखौस्तं च क्रीडयेयुरलं मुदा ।
कौतुकं कारयेद्देव्यै हास्यानन्दाय यद्भवेत् ॥ ६१ ॥
तेन प्रमुदितो नित्यं देवीलोके महीयते ।
मङ्गलानि महादेव्यै कारयित्वा यथाविधि ॥ ६२ ॥
विमानवरमारुह्य ब्रह्मविष्णुपुरःसरम् ।
सर्वकामसुखं दिव्यं सर्वरत्नसमन्वितम् ॥ ६३ ॥
अनुव्र[जं?जि]तमिन्द्राद्यैः सपत्नीकैः सवाहनैः ।
१ 'सर्वजित् त्रिदशापति' क पाठ । २ 'घटामयस्त' क पाठः ।
३ 'स्वा वेश्यारत' क पाठ । ४ 'ता' क पाठ ।

अष्टादशः पटलः । १८७
देवीलोके समायान्तं समागत्य सुराङ्गनाः ॥ ६४ ॥
अरुन्धत्यथ सावित्री तमहल्या शची तथा ।
अनुसूयादितिश्चैव मातरश्चै सहानुगाः ॥ ६५ ॥
निर्मञ्छ्य मौक्तिकैर्दिव्यै रत्नदीपैर्निवेद्य च ।
अर्घ्यं मङ्गलं शीर्षे तर्पयन्ति मुदान्विताः ॥ ६६ ॥
गोशृङ्गोपरि यत्कालं तिष्ठेत्सर्षपमर्पितम् ।
तावच्चित्ते महादेव्यै भक्तिं कृत्वा नरः प्रिये ॥ ६७ ॥
(पुनाति?पूयते)सर्वपापेभ्यः पापात्मा पापकृद्यदि ।
पितृमातृकुलैः सार्धं स्वर्गलोके महीयते ॥ ६८ ॥
ततः पुनरिहागत्य चिरेण भक्तिमान् प्रभुः ।
सार्वभौमपदं लब्ध्वा कैवल्यमाप्नुयात् ततः ॥ ६९ ॥
प्राचुर्यादथ भक्तेस्तु जगन्मा(तः?तुः) पदं प्रति ।
अनुमेयमनेनैव बहुना वचसा च किम् ॥ १०० ॥
भक्तिः पुनर्महेशानि यदिहानन्यचित्तता ।
भजनं सर्वभावेन सेव्यँसेवकवर्त्मना ॥ १०१ ॥
जगन्मातुर्महादेव्या दासोऽहमिति भाषते ।
सकृद्यँस्तस्य भृत्यास्ते पुरन्दरमुखाः सुराः ॥ १०२ ॥
पितृमातृमुखान् विप्रान् गाश्च भृत्याननेकंशः ।
हृत्वा निवेदयेद्यस्तु आत्मानं तत्पदाम्बुजे ॥ १०३ ॥
शुद्धा गुणमयं देहं परं ब्रह्माधिगच्छति ।
अहं पुनरिदं विश्वं ब्रह्माण्डं ब्रह्मणा सह ॥ १०४ ॥
'मात्रैश्चैव' क पाठ । २ 'क्ति' क पाठ । ३ 'ष्या' क पाठ । ४ 'द्यस्य त' क पाठ ।

१८८ गन्धर्वतन्त्रे ।
भित्त्वा छित्त्वा तथा लोकान् संतोष्य परमेश्वरीम् ।
तस्यै निवेद्य चात्मानं यास्यामि ब्रह्म शाश्वतम् ॥ १०५ ॥
तस्माद्यत् क्रियते कर्म ममेति च यदा भवेत् ।
आत्मानं तत्पदाम्भोजे महामन्त्रेण चार्पयेत् ॥ १०६ ॥
तर्पणानि पुनर्दत्त्वा नवमुद्राः प्रदर्शयेत् ।
मुदं रान्ति च ता यस्मात् तेन मुद्राः प्रकीर्त्तिताः ॥ १०७ ॥
कामं मोक्षं तथा धर्ममर्थं मुद्रान्विता स्वयम् ।
ददाति साधकायाशु देवी गन्तुं समुत्सुका ॥ १०८ ॥
संक्षोभद्राविराकर्षवश्योन्मादमहाङ्कुशाः ।
खेचरीबीजयोन्याख्या नव मुद्रा स्मृताः क्रमात् ॥ १०९ ॥
दर्शितास्वासु मुद्रासु भवेत् पूजासमापनम् ।
स्वस्वबीजेन मुद्राया बन्धनं परिकीर्त्तितम् ॥ ११० ॥
दर्शनं मूलमन्त्रेण त्यागः क्रोधोद्भवेन च ।
मुद्रानुष्ठानमज्ञात्वा यो मुद्रां धारयेद्बुधः ॥ १११ ॥
विफलं तस्य तत्सर्वं जीवहीनं वपुर्यथा ।
पूजादौ दर्शितास्वासु देव्यास्तु संनिधिर्भवेत् ॥ ११२ ॥
भक्तेः प्राचुर्यमत्रैव श्रद्धयाभ्यर्चनं तथा ।
निर्जनश्चात्मशुद्धिश्च दोषराहित्यता तथा ॥ ११३ ॥
पूजोपकरणस्येह बाहुल्यं च पवित्रता ।
सौरभेणातिसौरभ्याच्चमत्कारकृतिस्तथा ॥ ११४ ॥
संस्थानं पौरुषेणैव मनोहारित्वमात्मनः ।
१ 'स्त्रीक' ख पाठः । २ 'नपौ' क पाठ. ।

अष्टादशः पटलः । १८६
सौ(मकस्य? मुख्यं च) सुवेशश्चै¹ यष्टुः काकूक्तिरेव च । ११५।
पूजाविधिषु दाढ्यं च तथैवानन्यचित्तता ।
स्तुतिर्नतिर्जपश्चैव बलिः पेयं तथैव च ॥ ११६ ॥
हेतुरत्र समाख्यातो देवीसांनिध्यकारकः ।
मद्यं (श्रा? स्ना)व्यं तु सिन्दूरे³ स्वांगरागेषु कुंकुमम् । ११७।
इति यो यत्र संप्रोक्तो विशेषस्त्रिपुरार्चने ।
एभिर्विशेषैः सहितं त्रिपुरातन्त्रगोचरम् ॥ ११८ ॥
इति पार्वतीश्वरसंवादे श्रीगन्धर्वतन्त्रे जपादिविधिनिरूपणं
अष्टादशः पटलः ॥ १८ ॥
१ 'श च' क पाठ । २ 'मुदाक्ष्य' ख पाठः . ३ 'र' ख. पाठः ।

एकोनविंशः पटलः ।
—o—
ईश्वर उवाच
अथ वक्ष्ये महेशानि वटुकादिविधिं शृणु ।
येनानुष्ठितमात्रेण साधकः सिद्धिमाप्नुयात् ॥ १ ॥
बलिभिस्तर्पिता ह्येते पूजिता यस्य सुव्रते ।
सिद्धयः सकलास्तस्य करस्था नात्र संशयः ॥ २ ॥
अन्यथा रुषितैस्तैर्हि स विघ्नैः परिभूयते ।
तस्मात् तेभ्यः प्रयत्नेन बलिं कुर्वीत हेतुना ॥ ३ ॥
मांसेन साधितं भक्तं खण्डं दधि सपिष्टकम् ।
मांसानि विविधान्यत्र सुदुग्धं मीनमेव च ॥ ४ ॥
श्रीचक्रमभितो देवि मण्डलानां चतुष्टयम् ।
ईशान-वह्नि-नैर्ऋत्यवायुकोणेषु पार्वति ॥ ५ ॥
ध्येयो देव्यास्तदा विष्णुः पुत्रोऽयं वटुरूपधृक् ।
वटुकः कमलाक्षस्तु स्वर्णगौरश्चतुर्भुजः ॥ ६ ॥
गदां शङ्खं च पद्मं च चक्रं चापि दधत्करैः ।
विद्रुतैः पुरतो देव्याः(गजे?खगे)न्द्रासनसंस्थितः ॥ ७ ॥
ꕤवारुणं शक्रयुक्तं च चतुर्दशस्वरान्वितम् ।
सहितं चन्द्रबिन्दुभ्यां वटुकाय नमोऽन्ततः ॥ ८ ॥
अनेन मनुना देवि गन्धाद्यैः पूजयेत्ततः ।


१ 'करैर्धृतम्' क पाठ । २ 'त' क पाठ ।
ꕤ वारुणं व शक्र ल चतुर्दश स्वर औ चन्द्रबिन्दुसहित तेन व्लौं वटुकाय नमः इति ।

एकोनविंशः पटलः । १६१
तदग्रे परमेशानि पात्रं चान्नोदकान्वितम् ॥ ९ ॥
कृत्वा च विधिवत्तत्र बलिं मन्त्रेण दापयेत् ।
ꕤएह्येहि देवी¹पुत्रान्तान्ते वटुकान्तेऽथ नाथ च ॥ १० ॥
कपिलान्ते जटाभारभास्वरान्ते त्रिनेत्र च ।
ज्वालामु[ख्यं?ख] च सर्वान्ते विघ्नान्नाशय नाशय ॥ ११ ॥
सर्वोपचारसहितं बलिं गृह्णद्विधापदम् ।
वह्निजायान्वितो मन्त्रो वटुकस्य उदाहृतः ॥ १२ ॥
वामाङ्गुष्ठानामिकाभ्यां बलिं तस्मै निवेदयेत् ।
अस्यैवाराधनं कृत्वा मन्दभाग्योऽपि सुव्रते ॥ १३ ॥
सर्वबाधाविनिर्मुक्तः संपदां भाजनं भवेत् ।
यजनं चास्य देवस्य सांगेन कथितं पुरा ॥ १४ ॥
बलिप्रदानमात्रं तु प्रसं[गा]त्कथितं शिवे ।
डाकिनीप्रमुखाः पश्चाद्वलिना तर्पयेत् ततः ॥ १५ ॥
तथैव वामतो देव्या मण्डले योगिनीः स्मरेत् ।
अथवा चिन्तयेदेता योगिन्यः सर्वसिद्धिदाः ॥ १६ ॥
योगिन्यः कामरूपाश्च तप्तकाञ्चनभास्वराः ।
मत्ताः कंकालमालाढ्याः कटीतटभरानता ॥ १७ ॥
गलद्रुधिरगन्धाढ्या रक्तवस्त्रोत्तरीयकाः ।
लिंगं पाशं कपालं च बिभ्रत्यश्च[श्रृ?सृ]णिं² करैः ॥ १८ ॥
स्वभक्तानामभिमतं संददाना³ मुदान्विताः ।


  • एह्येहि देवीपुत्रवटुकनाथकपिलजटाभारभास्वरत्रिनेत्रज्वालामुख सर्वविघ्नान् नाशय नाशय
    सर्वोपचारसहित बलि गृह २ स्वाहेति बलिमन्त्र ।
    १ 'वि' क पाठ । २ 'श्रृणि चापि धृता' क पाठ । ३ 'दीयमाना' क. पाठः ।

१६२ गन्धर्वतन्त्रे ।
गन्धादिभिः समभ्यर्च्य बलिं मन्त्रेण दापयेत् ॥ १९ ॥
यामात्मकं समुच्चार्य योगिनीभ्यस्ततः परम् ।
भ्यसन्तं सर्ववर्णान्ते योगिनीपदमालिखेत् ॥ २० ॥
कवचं चास्रमालिख्य वह्निजायां पुनर्लिखेत् ।
अनेन मनुना वापि योगिनीनां बलिं हरेत् ॥ २१ ॥
अङ्गुष्ठमध्यमानामा योन्याकारेण योजयेत् ।
कृताञ्जलिस्ततो देवि संप्रार्थयेदनेन तु ॥ २२ ॥
ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनले भूतले निस्तले वा
पाताले(वानले)वा सलिलपवनयोर्यत्रकुत्र स्थिता वा ।
क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन
प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः। ३ । ४।
क्षेत्रपालं महादेव्या वामतः परिचिन्तयेत् ।
अपराजितवल्लीभिर्वेष्टितस्य महात्मनः ॥ २४ ॥
आरक्तवर्णैः सततं कुसुमैरुपशोभिते ।
तिन्तिडीकल्पवृक्षस्य सच्छाया रत्नभूषिते ॥ २५ ॥
नीलाञ्(ल?न)चयप्रख्यं दधानं करपङ्कजैः ।
कृपाणं च कपालं च शूलं डमरुमेव च ॥ २६ ॥
ध्यायेच्च सममल्पार्थं दंष्ट्राभिन्नाधरं परम् ।
पूजयित्वा विधानेन बलिं मन्त्रेण दापयेत् ॥ २७ ॥
१ 'स्वाहान्ते' क पाठ । २ 'कर' ख पाठ । ३ 'देवेन्द्रवन्द्य ' क पाठ । ४ 'वर्णा.' ख
पाठ ५ 'त्त' क पाठ ।
✤ या योगिनी+य. सर्ववर्णयोगिनीभ्यो ह्फट्स्वाहेति बलिम्मन्त्र. ।

एकोनविंशः पटलः । १६३
षड्दीर्घस्वरसंभिन्नं क्षकारं विलिखेत् प्रिये ।
ततः क्षेत्रपदं पाल धूपदीपादि वा लिखेत् ॥ २८ ॥
सहितं बलिमालिख्य गृह्णगृह्ण ततो वदेत् ।
वह्निजायान्वितो मन्त्रः ‡क्षेत्रपालस्य पार्वति ॥ २६ ॥
वाममुष्टिं विधायादौ तर्जनीं सरलां कुरु ।
अनया मुद्रया देवि बलिं तस्मै निवेदयेत् ॥ ३० ॥
चतुर्थमण्डले देव्याः पुरतो दक्षभागतः ।
नवीननीरदश्यामं सर्वाभरणभूषितम् ॥ ३१ ॥
तुन्दिनं गजवक्त्रं च चतुर्बाहुं दिगम्बरम् ।
वामदक्षोर्ध्वपाणिभ्यां पाशाङ्कुश[व?ध]रं विभुम् ॥ ३२ ॥
दक्षिणाधःकरेणैव मधुपूर्णकपालकम् ।
सिन्दूरसदृशाकारामुद्दाममदविह्वलाम् ॥ ३३ ॥
धृतरक्तोत्पलामन्यपाणिना तद्ध्वजस्पृशम् ।
आलिङ्ग्य वामहस्तेन तस्या मदनमन्दिरम् ॥ ३४ ॥
स्पृशन्तं परमेशानं ध्यात्वा तं परिपूजयेत् ।
गांगींगूंत्रयमालिख्य ङेन्तं गणपतिं ततः ॥ ३५ ॥
वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् ।
मे वशं चानय प्रोच्य बलिं गृह द्विधापदम् ॥ ३६ ॥
वह्निजायान्वितो मन्त्रो गणपस्यꕤउदाहृतः ।
मुष्टिमध्यस्थितां देवि अङ्गुलीं दण्डवत् कुरु ॥ ३७ ॥


पाद-टिप्पणी (Footnotes):
१ 'शा' क पाठ ।
‡ क्षांक्षींक्षूंक्षैंक्षौंक्षः क्षेत्रपाल धूपदीपादिसहितं बलि गृह २ स्वाहा इति निष्कर्ष ।
ꕤ गांगींगूंगणपतये वरवरद सर्वजन मे वशमानय बलि गृह २ स्वाहेतिबलिमन्त्र ।

१६४ गन्धर्वतन्त्रे ।
गजतुण्डा महामुद्रा गणपस्य सदा प्रिया ।
एतदन्ते महेशानि सर्वभूतबलिं हरेत् ॥ ३८ ॥
सुरा नराश्च पितरो यक्षरक्षःपिशाचकाः ।
एते भूताः समुद्दिष्टा बलिभिस्तान् प्रतर्पयेत् ॥ ३९ ॥
बलिभिस्तर्पितास्त्वेते यान्ति यज्ञे सहायताम् ।
अतर्पिता यदा तस्मिंस्ते वै विघ्नस्वरूपिणः ॥ ४० ॥
आत्मानं च क्रियाः सर्वा महामन्त्रेण पार्वति ।
ततो ब्रह्मस्वरूपिण्यै विशेषेण समर्पयेत् ॥ ४१ ॥
वारत्रयमितः पूर्वं प्राणबुद्धि ततः परम् ।
देहधर्माधिकारान्ते जाग्रत्स्वप्नसुषुप्तिषु ॥ ४२ ॥
मनसा च ततो वाचा कर्मणा च ततः परम् ।
हस्ताभ्यां च ततः पद्भ्यामुदरेण ततः परम् ॥ ४३ ॥
शिश्ना च यत् स्मृतं पश्चाद्यदुक्तं यत्कृतं भवेत् ।
मां मदीयं ततो देवि सकलं च ततः परम् ॥ ४४ ॥
तथैव त्वयि-शब्दान्ते ब्रह्मण्यार्पितमस्त्विति ।
स्वाहान्तो मनुरित्युक्तो मन्त्रःऽस्वात्मसमर्पणे ॥ ४५ ॥
एतदन्ते महामन्त्रा(न?नि)यतः समुदीरयेत् ।
आवाहनं न जानामि न जानामि विसर्जनम् ॥ ४६ ॥
पूजाभागं न जानामि त्वं गतिः परमेश्वरि ।
सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ॥ ४७ ॥
§ इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारजाग्रत्स्वप्नसुषुप्तिषु मनसा वाचा कर्मणा हस्ताभ्यां
पद्भ्यामुदरेण शिश्ना च यत्स्मृतं यदुक्तं यत्कृतं मां मदीयं सकलं त्वयि ब्रह्मण्यार्पितमस्तु
स्वाहेति स्वात्मसमर्पणमन्त्रः । मामिति अस्मिन्मन्त्रौ विभक्तिप्रतिरूपकमव्ययं बोध्यम् ।