सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 272, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 272

एकोनविंशः पटलः । १६१
तदग्रे परमेशानि पात्रं चान्नोदकान्वितम् ॥ ९ ॥
कृत्वा च विधिवत्तत्र बलिं मन्त्रेण दापयेत् ।
ꕤएह्येहि देवी¹पुत्रान्तान्ते वटुकान्तेऽथ नाथ च ॥ १० ॥
कपिलान्ते जटाभारभास्वरान्ते त्रिनेत्र च ।
ज्वालामु[ख्यं?ख] च सर्वान्ते विघ्नान्नाशय नाशय ॥ ११ ॥
सर्वोपचारसहितं बलिं गृह्णद्विधापदम् ।
वह्निजायान्वितो मन्त्रो वटुकस्य उदाहृतः ॥ १२ ॥
वामाङ्गुष्ठानामिकाभ्यां बलिं तस्मै निवेदयेत् ।
अस्यैवाराधनं कृत्वा मन्दभाग्योऽपि सुव्रते ॥ १३ ॥
सर्वबाधाविनिर्मुक्तः संपदां भाजनं भवेत् ।
यजनं चास्य देवस्य सांगेन कथितं पुरा ॥ १४ ॥
बलिप्रदानमात्रं तु प्रसं[गा]त्कथितं शिवे ।
डाकिनीप्रमुखाः पश्चाद्वलिना तर्पयेत् ततः ॥ १५ ॥
तथैव वामतो देव्या मण्डले योगिनीः स्मरेत् ।
अथवा चिन्तयेदेता योगिन्यः सर्वसिद्धिदाः ॥ १६ ॥
योगिन्यः कामरूपाश्च तप्तकाञ्चनभास्वराः ।
मत्ताः कंकालमालाढ्याः कटीतटभरानता ॥ १७ ॥
गलद्रुधिरगन्धाढ्या रक्तवस्त्रोत्तरीयकाः ।
लिंगं पाशं कपालं च बिभ्रत्यश्च[श्रृ?सृ]णिं² करैः ॥ १८ ॥
स्वभक्तानामभिमतं संददाना³ मुदान्विताः ।


  • एह्येहि देवीपुत्रवटुकनाथकपिलजटाभारभास्वरत्रिनेत्रज्वालामुख सर्वविघ्नान् नाशय नाशय
    सर्वोपचारसहित बलि गृह २ स्वाहेति बलिमन्त्र ।
    १ 'वि' क पाठ । २ 'श्रृणि चापि धृता' क पाठ । ३ 'दीयमाना' क. पाठः ।