गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 264, कुल 446 में से
संदर्भ में पढ़ेंअष्टादशः पटलः । १८३
सारस्वतेन बीजेन हस्ताभ्यां स्थापयेत् ततः ॥ ५२ ॥
जपकर्मणि मालायाः प्रतिपत्तिरियं प्रिये ।
एवं यः कुरुते मालां जाप्यं च साधकः प्रिये ॥ ५३ ॥
स प्राप्नोतीप्सितं देवि हीनस्यायुर्विपर्ययः ।
निःसेतुं च यथा तोयं क्षणाद्भिन्नं प्रसर्पति ॥ ५४ ॥
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति (नं?म)न्त्रिणाम् ।
तस्मात् सर्वेषु मन्त्रेषु सर्वे वर्णा द्विजादयः ॥ ५५ ॥
पार्श्वयोः सेतुमाद(ध्यात्?ध्युः)जपकर्मणि साधकाः ।
अकारं चाप्युकारं च मकारं च प्रजापतिः ॥ ५६ ॥
वेदत्रयात् समुद्धृत्य प्रणवं निर्ममे पुरा ।
जपादौ जपकर्मान्ते प्रणवं सेतुरूपकम् ॥ ५७ ॥
नियोजयेन्महेशानि सर्वकार्यार्थसिद्धये ।
जपान्ते जुहुयादग्निं दशांशं जपमानतः ॥ ५८ ॥
तत्तु देव्याः पुरोभागे साधकः परमेश्वरीम् ।
होमयेत् संस्कृते वह्नौ तत्र देवीं धिया स्मरन् ॥ ५६ ॥
इदं तस्यै समाभाष्य मूलमन्त्रेण सुन्दरि ।
स्वाहान्तेन च होतव्यं पायसैर्मधुराप्लुतैः ६०
व्यस्ताव्यस्तं ततो हुत्वा संभवे चान्यदेवताः
षडाहुतीः षडङ्गेन नित्यहोमोऽयमीरितः ॥ ६१ ॥
एकतः सर्वकर्माणि चैकतो जपहॊ(नघे?मकम्) ।
सर्वाधिकं होमकर्म होमात् किंवा न साध्यते ॥ ६२ ॥
१ 'क' क पाठ. ।