सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 265, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 265

१८४ गन्धर्वतन्त्रे ।
अनया दीक्षितो मन्त्रो यदि होमविवर्जितः ।
त्रिविधं दुःखमाप्नोति नित्यहोमपरो भवेत् ॥ ६३ ॥
अकुर्वतामग्निहोत्रमग्निर्भूत्वा महेश्वरी¹ ।
धनानि शीघ्रं ग्रसति गृहक्षेत्रपशूनपि ॥ ६४ ॥
बहुदुःखेनार्जितानि संचितान्यचिरेण तु ।
आत्मप्राणाधिकान्याशु भू(ताग्निं?त्वाग्निः)ग्रसतीश्वरी । ६५।
अग्निहोत्रं सदा कुर्यात् [त?य]स्मादग्निमयीश्वरी ।
अग्निहोत्रविधानेन संपदां भाजनं भवेत् ॥ ६६ ॥
अग्निहोत्रपरस्येह वह्निर्भवति शीतलः ।
गृहक्षेत्रादिवित्तेषु वर्धते जाठरः परः ॥ ६७ ॥
अग्निरेव मुखं देव्यास्तस्मादग्नौ हुनेत् सदा ।
पक्षतो मासतो वापि वर्षतो वा यथाविधि ॥ ६८ ॥
होमाशक्तौ जपेद्विद्यां होमद्विगुणसंख्यया ।
स्तुवन्नानाविधैः स्तोत्रैः प्रणमेत् सप्रदक्षिणम् ॥ ६९ ॥
एवं नानाविधैर्देवीं संतोष्य साधकोत्तमः ।
भक्तिप्रवणेनचित्तेन निवेद्यानि निवेदयेत् ॥ ७० ॥
अनुलेपं च सिन्दूरं नेत्राञ्जनमनुत्तमम् ।
धूपामोदं प्रदीपांश्च दर्पणं व्यजनं तथा ॥ ७१ ॥
छत्रं च चामरं चैव घण्टानादमनुत्तमम् ।
वाद्यं गीतं तथा नृत्यं क्रीडाकौतुकमङ्गले ॥ ७२ ॥
निर्मञ्छनं च सिद्ध्यर्थै³र्दीपावलिभिरेव च ।
१ 'रीम् ' क. पाठ. । २ 'प्रणव ' क. पाठ । ३ 'द्धार्थै ' क. पाठः ।