गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 83, कुल 446 में से
संदर्भ में पढ़ेंमहाविद्यां प्रजप्याथ पुरस्क्रियापुरःसराम् ।
भवाब्धेस्तरणोपायं तपस्तप्त्वा सुदुश्चरम् ॥ ७ ॥
सर्वागमैकतत्त्वज्ञ ब्रह्मनिष्ठ तपोधन ।
किं करिष्याम्यहं देव कुत्र यास्यामि तद्वद ॥ ८ ॥
दत्तात्रेय उवाच
मा विषीद् नृपश्रेष्ठ सर्वथा त्वं स्थिरो भव ।
यच्छ्रुत्वा(दि?धि)गतं पूर्वमस्माभिर्नन्दिकेश्वरात् ॥ ६
तदशेषं प्रवक्ष्यामि गुह्याद् गुह्यतरं परम् ।
सारमुद्धृत्य भगवान् यामलादपि सर्वतः ॥ १० ॥
तन्त्रं द्वादशसाहस्र्यं भोगमोक्षैकसाधनम् ।
पार्वत्यै कथयामास तन्त्रं गन्धर्वसंज्ञकम् ॥ ११ ॥
गीयते सर्वतन्त्राणामखिलायो यतस्त्विह ।
तेनायं नृपशार्दूल तन्त्रो गन्धर्व उच्यते ॥ १२ ॥
नन्दिकेश्वर उवाच
कैलासशिखरारूढं देवदेवं जगद्गुरुम् ।
पञ्चवक्त्रं महाकायं जटाजूटविभूषितम् ॥ १३ ॥
चारुचन्द्रकलायुक्तं मूर्ध्नि व्यालौघभूषितम् ।
बाहुभिर्दशभिर्युक्तं व्याघ्रचर्मधरं शुभम् ॥ १४ ॥
कालकूटधरं कण्ठे नागहारोपशोभितम् ।
विभूतिभूषणं देवं प्रतिवक्त्रं त्रिभिस्त्रिभिः ॥ १५ ॥
नेत्रैस्तु पञ्चदशभिर्युक्तं स्फटिकसंनिभम् ।
शक्तिंत्रिशूलखट्वाङ्गवरदाभयकानपि ॥ १६ ॥