गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 82, कुल 446 में से
संदर्भ में पढ़ेंअथ
गन्धर्वतन्त्रम् ।
—०:***.० —
शिवप्रोक्तम् ।
—:०:—
प्रथमः पटलः ।
ॐ नमः परदेवतायै ।
यं वदन्त्यमलात्मानः पुरुषं प्रकृतेः परम् ।
चिद्रूपं परमानन्दं वन्दे देवं विनायकम् ॥१ १ ॥
भर्तारं गुणवृद्धिशून्यमचलं गत्वाभिसारक्रमाद्
दीव्यन्ती कुलवर्त्मनैव गुणवत्यानन्दमातन्वती ।
शेते सुप्तभुजङ्गपोतकुटिला या मेरुमूलं गता
सूते (यन्त्र? पुत्र) शतानि तानि सुरजिन्मुख्यानि पायादसौ २
विश्वामित्र इति ख्यातो नृपः परमधार्मिकः ।
सिद्धिं दृष्ट्वा वसिष्ठस्य तपस्तेपे सुदुश्चरम् ॥ ३ ॥
अप्राप्य तपसः सिद्धिमुदीचीं दिशमाविशत् ।
गङ्गाद्वारसमासीनं मुनिं योगपरायणम् ॥ ४ ॥
दत्तात्रेयं महाभागमभिवाद्य कृताञ्जलिः ।
उवाचेदं वचस्तस्मै विनयानतकन्धरः ॥ ५ ॥
विश्वामित्र उवाच
नाद्रा (द्यं? द्यं) सम्यगिष्ट्वापि क्रतुभिर्बहुदक्षिणैः ।
सत्पात्रे सर्वदानानि कृत्वापि मुनिसत्तम ॥ ६ ॥
————————————————————————
१ ‘तं विघ्ना’ क पाठ ।