सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 84, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 84

प्रथमः पटलः । ३
अक्षसूत्रं बीजपूरं भुजङ्गं डमरुं धनुः ।
दक्षिणैर्दधतं हस्तैर्वामैः कोटीरभूषणम् ॥ १७ ॥
वृषभोपरिसंस्थं तु गजकृत्तिपरिच्छदम् ।
सर्वात्मनाविष्टचित्तं गिरिजामुखपङ्कजे ॥ १८ ॥
प्रणम्य परया भक्त्या कृताञ्जलिपुटा सती ।
उवाच पार्वती देवी ईश्वरं परमेश्वरम् ॥ १९ ॥
पार्वत्युवाच
देवदेव जगन्नाथ भक्तानामार्तिनाशन ।
प्रसन्नो यदि मां देव ब्रह्म किं वा तदुच्यते ॥ २० ॥
योगं किंवा शरीरं च ब्रूहि मे परमेश्वर ।
स्मितपूर्वं महादेवः पूर्णानन्दमयो विभुः ॥ २१ ॥
वामदेवाख्यवक्त्रेण प्रत्युवाच प्रियां विभुः ।
ईश्वर उवाच
यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् ॥ २२ ॥
यज्ज्ञानान्नापरं ज्ञानं तद् ब्रह्मेत्यवधारय ।
यद् दृश्यान्नापरं दृश्यं यद् दृष्ट्वा न पुनर्भवः ॥ २३ ॥
तिर्यगूर्ध्वमधः पूर्णं सच्चिदानन्दमव्ययम् ।
अनन्तमेकं नित्यं यत् तद् ब्रह्मेत्यवधारय ॥ २४ ॥
पार्वत्युवाच
कर्मपाशसमाबद्धो भोगी भोगपरायणः ।
कथं मुक्तो भवेद्देव भोगेनैव महेश्वर ॥ २५ ॥
तत् सर्वं कथयेशान यद्यहं तव वल्लभा ।
'वामभिर्हस्तैर्दृत' क पाठ.। २ 'मन्त्रेण' ख पाठः। ३ 'प्रभु' क पाठ ।
'न्त नित्यमेक' क पाठ ।