सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 279, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 279

१६८ गन्धर्वतन्त्रे ।
उच्छिष्टशब्दमुच्चार्य तथा चण्डालिनीति च ।
सुमुखीति ततो देवि महापिशाचिनीति च ॥ ६ ॥
मायाबीजं ततः पश्चात् ठकारद्वितयं तथा ।
सविसर्गं‡महादेवि सर्वसिद्धिप्रदायकम् ॥ १० ॥
अथान्यं संप्रवक्ष्यामि मन्त्रं परमदुर्लभम् ।
वाङ्मायाकमलाबीजं नमो भगवतीति च ॥ ११ ॥
मातङ्गेश्वरि सर्वान्ते जनवशंकरीति च ।
वह्निजायान्वितो मन्त्रः§ सर्वसिद्धिप्रदायकः ॥ १२ ॥
नारिदोषोऽत्र देवेशि न विघ्नो नियमस्तथा ।
अङ्गन्यासकरन्यासौ नाङ्गी चैवास्य देवता ॥ १३ ॥
यस्य तिष्ठति मन्त्रोऽयं स भवेत् सुरपादपः ।
ध्यानमस्याः प्रवक्ष्यामि यथावदखिलेश्वरि ॥ १४ ॥
शवोपरि समासीना रक्ताम्बरपरिच्छदा ।
रक्तालंकारभूषाढ्या गुञ्जाहारविराजिता ॥ १५ ॥
नवयौवनसंपन्ना पीनोन्नतपयोधरा ।
कपालकर्तृकाहस्ता परमज्योतीरूपिणी ॥ १६ ॥
विधानं चात्र वक्ष्यामि शृणु देवि मनोहरम् ।
भोजनानन्तरं देवि विनैवाचमने कृते ॥ १७ ॥
बलिं कृत्वा प्रथमतॊ मूलमन्त्रेण साधकः ।
ततो मन्त्रं जपेद् ध्यात्वा जपेदयुतमानतः ॥ १८ ॥

‡ उच्छिष्टचण्डालिनि सुमुखि देवि महापिशाचिनि ह्रीं ठः ठः इति ।
§ ऐं ह्रीं श्रीं नमो भगवति मातङ्गेश्वरि सर्वजनवशकारि स्वाहा । इति मन्त्रान्तरम् ।