गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 280, कुल 446 में से
संदर्भ में पढ़ेंविंशः पटलः । १६६
उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता .।
अपरं च प्रवक्ष्यामि शृणु देवि फलप्रदम् ॥ १६ ॥
होमसंतर्पणं चैव सर्वकार्यार्थसिद्धये ।
स्थण्डिले मण्डलं कृत्वा चतुरस्रं सबिन्दुकम् ॥ २० ॥
पूजयेन्मण्डलं देव्या मूलमन्त्रेण साधकः ।
तत्र देवीं समावाह्य वह्निरूपव्यवस्थिताम् ॥ २१ ॥
संपूज्यैव चरेद्धोमं दधिसिद्धार्थतण्डुलैः ।
सहस्रैकविधानेन राजा भवति वश्यगः ॥ २२ ॥
मार्जारस्य तु मांसेन देव्यै होमं समाचरन् ।
स प्राप्नोति परां विद्यां शश्वच्छास्त्रवशीकृताम् ॥ २३ ॥
कुर्याच्छागस्य मांसेन होमं मधुघृतान्वितम् ।
सहस्रैकप्रमाणे न भवन्ति फलसिद्धयः ॥ २४ ॥
विद्याकामश्चरेद् होमं मधुना सह सर्पिषा ।
अयु[कै?तै]कप्रमाणे न सिद्धिरिष्टा भवेद् ध्रुवम् ॥२५॥
सद्यो मार्जारमांसेन घृतेन मधुना सह ।
चाण्डालकेशयुक्तेन भवेदाकर्षणं महत् ॥ २६ ॥
शशकस्य तु मांसेन मधुनालोडितेन च ।
कृत्वा होममवाप्नोति विद्यावसुवरश्रियः ॥ २७ ॥
धत्तूरकाष्ठयोगेन चितावह्नौ तु मन्त्रवित् ।
कोकिलाकाकपक्षाँश्च होमैः शत्रून् विनाशयेत् ॥ २८ ॥
उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् ।
१ 'धूस्तू' क पाठ. ।