गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 278, कुल 446 में से
संदर्भ में पढ़ेंविंशः पटलः ।
देव्युवाच
कथं सा परमेशानी शेषिका पू[जि?ज्य]ते शिव ।
कीदृशी सा महादेवी तदशेषं वद प्रभो ॥ १ ॥
ईश्वर उवाच
शेषिकां सुन्दरीं वक्ष्ये देवीं गुह्यतमां प्रिये ।
उच्छिष्टपूर्विकां देवीं मातङ्गीं सर्वसिद्धिदाम् ॥ २॥
सर्वापत्तोरिणीं विद्यां सर्वदोषविवर्जिताम् ।
यया विज्ञातया देवि क्षयं गच्छन्ति चापदः ॥ ३ ॥
स्थावरं जङ्गमं चैव कृत्रिमं चाङ्गजं तथो ।
विद्येयं¹ नाशयेद् देवि स्वपराङ्गसमाश्रितम् ॥ ४ ॥
इयं विद्या महाविद्या सर्वपापापहारिणी ।
स्वर्गदा मोक्षदा चेयं राज्यसौभाग्यदा तथा ॥ ५ ॥
इयं देवी मया पूर्वं साधिता देवि निर्जने ।
सकृदुच्चा³रिता विद्या ब्रह्महत्याविनाशिनी ॥ ६ ॥
य उच्छिष्टमुखो भूत्वा स्मरेद् देवीं कदाचन ।
तदाचान्तो भवेद् देवि विनैवाचमने कृते* ॥ ७ ॥
निर्धनो धनमाप्नोति मूर्खो विद्यामवाप्नुयात् ।
मन्त्रं शृणु महादेव्या यथावत् कथयामि ते ॥ ८ ॥
१ 'विषम्' ख पाठ । २ 'च' क पाठ । ३ 'यद्यु' ख पाठ ।
- ऐशोऽय पाठ. आचमन विनेत्यर्थं, एवमग्नेपि बोध्यम् ।