गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 277, कुल 446 में से
संदर्भ में पढ़ें१६६ गन्धर्वतन्त्रे ।
अनेनैव तु मन्त्रेण ध्यायँस्तां स्थापयेद् हृदि ।
तिष्ठ देवि परे स्थाने स्वस्थाने परमेश्वरि ॥ ५६ ॥
विसृज्यैवं महेशानीं ततः पूरकवायुना ।
संहारमुद्रयादाय समाघ्राय गुरूक्तया ॥ ६० ॥
तच्चैतन्यं[स?स्व]मूलेन मूल एव निवेशयेत् ।
प्राणायामैस्तु संतर्प्य यजेन्निर्माल्यधारिणीम् ॥ ६१ ॥
निर्माल्यं निक्षिपेन्मूर्ध्नि नीत्वा तां चित्कलां पुरा ।
अस्या जगन्मयी सैव सा चै[वाशो?व शे]षिका परा ॥ ६२ ॥
तत्परं नहि वेत्स्वे[ह?व]न्तत्त्वज्ञानादहं प्रभुः ।
महापद्मवनान्तःस्थशृङ्गाटोदरसंस्थिताम् ॥ ६३ ॥
देवीं परां समालोक्य आत्मानं तु विचिन्तयेत् ।
उन्मन्यन्ते शिवो भूत्वा तिष्ठेदानन्दनिर्भरः ॥ ६४ ॥
शिवेनैक्यं समासाद्य यावदन्ते मनोलयः ।
निवर्तितसमाधिस्तु गुरवे मूर्धवासिने ॥ ६५ ॥
आललाटं नमस्कुर्यान्निवेद्यार्घ्यं तदाज्ञया ।
ऐशान्यां मण्डलं कृत्वा द्वारपद्मविवर्जितम् ॥ ६६ ॥
शेषिकां सुन्दरीं तत्र निर्माल्येन प्रपूजयेत् ।
लेह्यचोष्यान्नपानादि ताम्बूलमनुलेपनम् ॥ ६७ ॥
नैर्माल्यं भोजनं तुभ्यं ददामि श्रीशिवाज्ञया ।
अनेन मनुना देव्या यजेन्निर्माल्यधारिणीम् ॥ ६८ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे वटुकादिबलिविधिनिरूपणं
एकोनविंशः पटलः ॥ १९ ॥
१ 'वा' क पाठ । २ 'अन्त यावन्म' क पाठ । ३ 'षा' क पाठ.। ४ 'स्रग्विले' ख पाठः ।