गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 276, कुल 446 में से
संदर्भ में पढ़ेंएकोनविंशः पटलः । १६५
कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम !
अन्तश्चारेण भूतानामन्तस्त्वमेव संस्थिता ॥ ४८ ॥
यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् ।
आवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ॥ ४६ ॥
विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् ।
यदक्षरपरिभ्रष्टं मात्राहीनं च यद्भवेत् ॥ ५० ॥
अनङ्गव्यवधानादि अपराधशतानि च ।
क्षन्तुमर्हसि मे देवि त्वमेव शरणं यतः ॥ ५१ ॥
त्वयि मे हृदयं चास्तु त्वयि चित्तं मनस्त्वयि ।
त्वत्पूजायां महामाये संवर्धन्तां प्रयोजिताः ॥ ५२ ॥
ये पुनर्विघ्नकर्तारस्ते नश्यन्तु त्वदाज्ञया ।
मन्त्रेषु पठितेष्वेषु स्व(रं?यं)देवी प्रसीदति ॥ ५३ ॥
दातुं देवी चतुर्वर्गमित्येतन्नात्र संशयः ।
एवं संप्रार्थ्य देवेशि स्तुत्वा नुत्वाति३भक्तितः ॥ ५४ ॥
प्रधानदेवतामूर्तौ परिवारान् समर्पयेत् ।
तस्या एव महेशान्याः शरीरे सर्वदेवताः ॥ ५५ ॥
विलीनांः सन्तु मूलेन दे(वा?व्य)ङ्गे मीलिताः स्मरेत् ।
अथ कामकलारूपमात्मानं परिचिन्तयेत् ॥ ५६ ॥
ततस्तां परमेशानीं विसृजेद् हृदयाम्बुजे ।
ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे ॥ ५७ ॥
तव कृत्यमिदं सर्वमिति मातः क्षमस्व मे ।
उद्वास्य परमेशानीं खेचर्यात्मनि योजयेत् ॥ ५८ ॥
१ 'र' क पाठ । २ 'दत्ते' ख पाठ । ३ 'भि' ख पाठ ।