सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

४
क्षीरं द्रवान्तरं च प्रत्येकं स्नेहसमं दत्त्वा पाको निष्पादनीयः। अथ कल्कमानावपादः-
“वृषादिकुसुमैः कल्कैर्यत्रोक्तं स्नेहसाधनम्। कल्काढ्यत्वात्तु पादार्धं
तत्र कल्कं प्रदापयेत्” इति । यत्र स्नेहे कल्को नोक्तस्तत्र केवलेन द्रवेणैव
चतुर्गुणेन स्नेहसाधनम् । यदुक्तं—“अकल्कः खलु यः स्नेहः स साध्यः
केवले द्रवे” इति । यत्र योगे द्रव्यगण एव निर्दिष्टः क्वाथो वा कल्को वा न
निर्दिष्टस्तस्मिन्ननिर्देशे तस्माद्द्रव्यगणात्कल्कक्वाथावुभावपि प्रयोजयेत् । यदुक्तं
सुश्रुते—“कल्कक्वाथावनिर्देशे गणात्तस्मात्प्रयोजयेत्”—इति । अत्र
च गणशब्दो गणसंज्ञया यो गणः पञ्चमूलादिरुक्तस्तन्मात्रे न विवक्षितः, किंतु
त्रिप्रभृतिद्रव्यसमूहे विवक्षितः, गणात्तस्मादित्युक्तेः । एतेन यत्रैकेन द्रव्येण द्रव्य-
द्वयेन वा पाकस्तत्र कल्केनैव, यत्र तु त्रिप्रभृतिभिर्द्रव्यैः पाकस्तत्र क्वाथकल्काभ्या-
मुभाभ्यामिति ज्ञेयम् । स्नेहसाधने क्वाथकल्पनोक्ता सुश्रुतेन—“तत्र यथायोगं
त्वक्पत्रफलमूलादीनामातपपरिशोषितानां छेद्यानि खण्डशश्छेद-
यित्वा भेद्यान्यणुशो भेदयित्वाऽवकुट्याष्टगुणेन षोडशगुणेन
वाऽम्भसाऽभिषिच्य स्थाल्यां चतुर्थांशावशिष्टं क्वाथयित्वाऽपहरे-
दित्येष कषायपाककल्पः” इति । अत्राष्टगुणतोयं मृद्वादिसंघाताभिप्रायेण
द्रवद्वैगुण्येनैवोक्तम् । यदुक्तमन्यत्र—“मृदौ चतुर्गुणं देयं कठिनेऽष्टगुणं
जलम् । कठिनात्कठिनं यच्च तत्र षोडशिकं जलम् ॥ मृद्वादौ द्रव्य-
संघाते मानानुक्तौ चिकित्सकाः । मध्यस्थोभयभागित्वादिच्छन्त्य-
ष्टगुणं जलमिति । तथा—क्वाथ्यादष्टगुणं वारि, पादस्थं स्याच्चतुर्गु-
णम् । स्नेहात्, स्नेहसमं क्षीरं, कल्कस्तु स्नेहपादिकः । चतुर्गुणं
त्वष्टगुणं द्रवद्वैगुण्यतो भवेत्” इति । यत्र क्वाथ्यद्रव्यमानमल्पमष्टगुणे
तोये क्वाथकरणे स्नेहचतुर्गुणः क्वाथो न भवति तत्रोक्तमानेन क्वाथ्यद्रव्यं गृहीत्वा
षोडशगुणे तोये क्वाथयित्वा पादशेषं स्नेहचतुर्गुणं कुर्यादित्यभिप्रायेणोक्तं षोडश-
गुणेन वाऽम्भसाऽभिषिच्येति । “अथवा तत्रोक्तद्रोणे त्वक्पत्रमूलादीनां
तुलामावाप्य चतुर्थांशावशिष्टमपहरेदित्येष कषायपाककल्पः ।
तुलाद्रव्ये जलद्रोणो द्रोणे द्रव्यतुलाऽम्भसि । ततः पलशते द्रव्ये
जलद्रोणोऽपि चेष्यते ॥” यत्र तुलाद्रव्यं जले पचेदित्युक्तं परं जलप्रमाणं
नोक्तं, तत्र द्रोणमितं जलं ग्राह्यं; यत्र तु द्रोणमिते जले द्रव्यं पचेदित्युक्तं परं
द्रव्यप्रमाणं नोक्तं, तत्र द्रव्यं तुलाप्रमाणं ग्राह्यमिति भावः । ‘अनिर्दिष्ट-
प्रमाणानां स्नेहानां प्रस्थ इष्यते’ इति ।
स्नेहपाककालनियमः—स्नेहान् विपाच्यैव विरामयेत्तु क्षीरे द्विरात्रं
स्वरसे त्रिरात्रम् । कल्के कषायेषु च पञ्चरात्रं दध्य़ारनाले पुनरे-
करात्रम् ॥ अस्यायमर्थः—क्षीरादिद्रवाणि कल्कं चैकत्र्यं संसृज्य विपचेत् । तत्र,

५
क्षीरं कल्कश्च यत्र तत्रैकध्यं द्वयं संसृज्य पक्त्वा द्विरात्रं विश्रामयेत्; स्वरसः
कल्कश्च यत्र तत्रैकध्यं द्वयं संसृज्य पक्त्वा त्रिरात्रं विश्रामयेत्; यत्र केवलः
कल्कस्तत्र कल्कं चतुर्गुणं जलं च संसृज्य पक्त्वा पञ्चरात्रं विरामयेत्; यत्र कषायः
कल्कश्च तत्रैकध्यं द्वयं संसृज्य पक्त्वा पञ्चरात्रं विरामयेत्; यत्र दधि कल्कश्च तत्रै-
कध्यं द्वयं संसृज्य पक्त्वा एकरात्रं विश्रामयेत्, यत्र आरनालः कल्कश्च तत्रैकध्यं
द्वयं संसृज्य पक्त्वा एकरात्रं विरामयेत्; अत्र दधिशब्दस्तक्रस्य, आरनालशब्दश्च
सुरादीनां संधानविशेषाणां मूत्रादीनां च उपलक्षणम् । यत्र कल्कश्च क्षीरादीनां
द्वित्र्यादिकानि द्रवाणि च तत्र कल्कं गर्मे दत्त्वा तत्तत् क्षीरादिकं प्रत्येकं दत्त्वा
संसृज्य पक्त्वा स्वस्खोक्तकालं विरामयेत्, यथा-क्षीरे द्विरात्रं, स्वरसे त्रिरात्रं,
कषाये पञ्चरात्रं, दध्येकरात्रं, आरनाले चैकरात्रमिति । एतच्च विशेषेण गुणा-
धानार्थम् । उक्तं हि-“घृततैलगुडादींश्च नैकाहादवतारयेत् । न्युषि-
तास्तु प्रकुर्वन्ति विशेषेण गुणान् यतः”—इति । विरामरात्रान्यूनत्वे
तु विशेषेण गुणाधानाभावमात्रं नतु स्नेहपाकासिद्धिः, अधिके च न दोषः । सिद्धं
स्नेहं वस्त्राद्गालयिलोपयुञ्ज्यात् । तत्र मृदुपाके द्रवद्भावात्क्लिष्टं सर्वथा न
पीडनीयं; मध्यमे मनाक् पीडनीयं, द्रवाभावात्; खरे तु यथेष्टं पीडनीयं, द्रव-
रहितत्वात् । मध्यपाकस्तु सर्वत्र प्रशस्तः । यदुक्तं,–‘वरं पाको मृदु कार्यः
स्नेहादीनां न वै खरः । स पूर्णे वीर्यमादत्ते तज्जहाति खरः पुनः’ ।
अथ स्नेहपाकविज्ञानम् । अत्राह सुश्रुतः-अत ऊर्ध्वं स्नेहपाकक्रममु-
पदेक्ष्यामः । स च त्रिविधः । तद्यथा-मृदुः, मध्यः, खर इति ।
तत्र स्नेहौषधिविवेकमात्रं यत्र भेषजं स मृदुः, मधूच्छिष्टमिव
विशदमविलेपि च यत्र भेषजं स मध्यमः, कृष्णमवसन्नमीषद्विशदं
चिक्कणं च यत्र भेषजं स खर इति । अत ऊर्ध्वं दग्धस्नेहो भवति,
तं पुनः साधु साधयेत् । तत्र पानाभ्यवहारयोर्मृदुः, नस्याभ्य-
अञ्जयोर्मध्यमः, बस्तिकर्णपूरणयोस्तु खर इति । भवतश्चात्र-
शब्दस्योपरमे प्राप्ते फेनस्योपरमे तथा । गन्धवर्णरसादीनां संपत्तौ
सिद्धिमादिशेत् ॥ घृतस्यैवं विपक्वस्य जानीयात्कुशलो भिषक् ।
फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् ॥ इति ॥
अथ चूर्णपरिभाषा-अत्यन्तशुष्कं यद्द्रव्यं सुपिष्टं वस्त्रगालितम् ।
तत् स्याच्चूर्णं रजः क्षोदस्तन्मात्रा कर्षसंमिता ॥ चूर्णे गुडः समो
देयः शर्करा द्विगुणा भवेत् । चूर्णेषु भर्जितं हिङ्गु देयं नोत्क्लेश-
कृद्भवेत् ॥ लिहेच्चूर्णं द्रवैः सर्वैर्घृताद्यैर्द्विगुणोन्मितैः । पिबेच्चतु-
र्गुणैरेव चूर्णमालोडितं द्रवैः ॥ चूर्णविधाने द्विविधः प्रचारो दृश्यते वृद्ध-
वैद्यानाम्। तत्रैके द्वित्र्यादिद्रव्यनिष्पाद्ये चूर्णप्रयोगे प्रत्येकं द्रव्यं संचूर्ण्य वस्त्रगालितं

६

कृत्वा ततो यथोक्तमानेन गृहीत्वा एकीकृत्य प्रयुञ्जन्ति; अपरे तु सर्वाण्यपि
द्रव्याणि यथोक्तमानानि संगृह्य एकत्र्यं संचूर्ण्य वस्त्रगालितं कृत्वा व्यवहरन्ति ।
बहुषु प्रयोगेषु चूर्णं जम्बीराद्र्रकादीनां रसैर्भावयेदित्युक्तं, तत्र यस्य भावना
देया तस्य यदि स्वरस उपलभ्यते तदा स्वरसेनैव भावयेत्, यदा तु स्वरसो
नोपभ्येत तदा “भाव्यद्रव्यसमं क्वाथ्यं क्वाथ्यादष्टगुणं जलम् । अष्टां-
शशेषितः क्वाथो भाव्यानां तेन भावना—” इति परिभाषया क्वाथं
निष्पाद्य तेनैव भावयेत् । भावनाविधिस्तु—“द्रवेण यावता सम्यक् चूर्णं
सर्वं प्लुतं भवेत् । भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः॥
दिवा दिवातपे शुष्कं रात्रौ रात्रौ निवासयेत् । शुष्कं चूर्णीकृतं
द्रव्यं यथोक्तं भावनाविधिः” इति । यथोक्तं भावनाविधिरिति सप्तवारं
त्रिवारमेकवारं वा यावद्वारं भावनोक्ता तावद्वारं भावयेदित्यर्थः । अनुक्ते तु
सप्तवारं भावयन्ति वृद्धवैद्याः ।
गुटिकापरिभाषा—वटकाश्चाथ कथ्यन्ते तन्नाम गुटिका वटी ।
मोदको वटकः पिण्डी गुण्डी वर्तिस्तथोच्यते ॥ लेहवत्साध्यते
वह्नौ गुडो वा शर्कराऽथवा । गुग्गुलुर्वा, क्षिपेत्तत्र चूर्णं तन्निर्मिता
वटी ॥ कुर्याद्वह्निसिद्धेन क्वचिद्गुग्गुलुना वटीम् । द्रवेण मधुना
वाऽपि गुटिकां कारयेद्बुधः ॥ यथा लेहार्थं गुडादिकं साध्यते तथैवात्र
गुडः शर्करा गुग्गुलुर्वा पक्तव्यः । पाके सति चूर्णं प्रक्षिप्य वटकान् कुर्यादिति
भावः । गुडपाकलक्षणं तु गदनिग्रह एव प्रोक्तम् (प्रयोगखण्ड पृ. ११८) ।
गुडवद्गुग्गुलोः पाकः सबन्धस्तु विशेषतः । मण्डूराणां च सर्वेषां
पाकोऽयं परिकीर्तितः॥ पक्षान्तरमाह-क्वचिदिति; न सर्वत्र । अवह्निसिद्धेन
कुट्टितेन गुग्गुलुना वटकाः कार्याः । अथवा द्रवेण तोयक्षीरादिना, वा मधुना क्षौ-
द्रेण संप्लाव्य संमर्द्य वटिकां कारयेत् । वटिकायां गुडशर्करादीनां मानं—सिता
चतुर्गुणा देया वटीषु द्विगुणो गुडः। चूर्णाच्चूर्णसमः कार्यो
गुग्गुलुर्मधु तत्समम् । द्रवं च द्विगुणं देयं मोदकेषु भिषग्वरैः॥
एतच्च शर्करादीनां मानमनुक्तप्रमाणेषु प्रयोगेषु ज्ञेयम् ।
अवलेहपरिभाषा—क्वाथादीनां पुनःपाकाद्धनत्वं सा रसक्रिया ।
सोऽवलेहश्च लेहश्च तन्मात्रा स्यात्पलोन्मिता ॥ अनुक्ते सितादीनां
परिमाणमुच्यते—सिता चतुर्गुणा देया चूर्णाच्च द्विगुणो गुडः। द्रवं
चतुर्गुणं दद्यादिति सर्वत्र निश्चयः ॥ द्रवमिति क्षौद्रघृतादिकम् । चतुर्धा
खलु निष्पाद्यते लेहः । तत्र प्रथमः दार्व्यादिद्रव्याणां सामान्यक्वाथपरिभाषया
क्वाथं निष्पाद्य तं पुनर्वस्त्रगालितं यावद्धनं भवेत्तावत्पक्त्वा निष्पाद्यते, तस्य
निक्षेपतो 'रसक्रिया' इति नाम्ना प्रसिद्धिः । तथाहि—“गृहीत्वा क्वाथकल्पेन

७
क्वाथं पूतं पुनः पुनः । काथयेत्फाणिताकारमेषा प्रोक्ता रसक्रिया"
इति । द्वितीयस्तु क्वाथ्यद्रव्याणि यथोक्तमानेन क्वाथयित्वा तं क्वाथं वस्त्रपूतं कृत्वा,
तत्र शर्करादिकं प्रक्षिप्य पुनः पक्त्वा पाके सिद्धे चूर्णं प्रक्षिप्य निष्पाद्यते ।
तृतीयः केवलं शर्करादिकं जले पक्त्वा सिद्धे पाके चूर्णादिकं प्रक्षिप्य निष्पाद्यते ।
चतुर्थस्तु चूर्णे यथोक्तमानैः क्षौद्रघृतादिभिः संप्लाव्य निष्पाद्यते । अथ लेहादौ
चूर्णप्रक्षेपविचारः—प्रायो न पाकश्चूर्णानां भूरिचूर्णस्य तेन हि ।
आसन्नपाके प्रक्षेपः स्वल्पस्य पाकमागते ॥ आसन्नपाक इति उपस्थि-
तपाके नतु पाकमापन्ने, तथा सति प्रचुरचूर्णस्य प्रवेशो न स्यादित्यर्थः । स्वल्पस्य
चूर्णस्य पाकान्ते कदुष्णदशायां प्रक्षेप इति । पाकलक्षणं तु—सुपक्के तन्तु-
मत्त्वं स्यादवलेहेऽप्सु मज्जनम् । स्थिरत्वं पीडिते मुद्रा गन्धवर्ण-
रसोद्भवः ॥ तथा—रसो गन्धः शुभः पाके वर्त्तिः स्याद्गाढमर्दनात् ॥
इति । स्थिरत्वमिति निश्चलत्वम् । एतेन द्रवरहित इत्यर्थः । मुद्राऽत्र निम्नता ।
अथ आसवारिष्टपरिभाषा—द्रवेषु चिरकालस्थं द्रव्यं यत्संहितं
भवेत् । आसवारिष्टभेदैस्तत्प्रोच्यते भेषजोचितम् ॥ यदपक्वौषधा-
म्बुभ्यां सिद्धं मद्यं स आसवः । अरिष्टः क्वाथसिद्धः स्यात्तन्मानं
द्विपलोन्मितम् ॥ अनुक्तमानारिष्टेषु द्रवद्रोणे गुडतुलाम् । क्षौद्रं
दद्याद्गुडादर्धं प्रक्षेपं दशमांशिकम् ॥ प्रक्षेपं पश्चाद्देयं द्रव्यं धातकीपुष्पा-
दिकं, दशमांशिकं गुडपरिमाणादित्यर्थः । क्वाथ्यद्रव्याणि द्राक्षादीनि यथोक्तमानै-
र्जले निष्क्वाथ्य वस्त्रपूतं विधाय गुडादिकं धातकीकुसुमादिकं च यथोक्तमानेन
प्रक्षिप्य घृतभाविते दृढे मृण्मये कुम्भे यावदर्थं प्रपूर्य पक्षं मासं वा भूमौ स्थाप्य
जातरसे उद्धृत्य वस्त्रगालितं कृत्वा उपयुञ्ज्यादित्यरिष्टविधिः । आसव-
करणे तु जलादौ द्रवे एव गुडादीनि प्रक्षिप्य संधानं, न क्वाथकरणम् । शेषं
अरिष्टवत् ।
अथ भेषजमात्राविचारः—न्यूनं चेन्मात्रया द्रव्यं न व्याधीन् विनि-
वर्तयेत् । मात्रयाऽधिकया युक्तं जनयेच्चापदं परम् ॥ मात्राया
नास्त्यवस्थानं दोषमग्निं बलं वयः। व्याधिं द्रव्यं च कोष्ठं च वीक्ष्य
मात्रां प्रयोजयेत् ॥ तथाऽल्पपशुबुद्धीनामवबोधाय तत्र तत्र यथास्थूलं मात्रा-
निर्देशः कृत इति ज्ञेयम् । संप्रति मनुष्याणां अल्पदेहबलवत्त्वात् प्राचीनग्रन्थे-
षूक्तमात्रापेक्षया पादप्रमाणा अर्धा वा मात्रा देया ।

ॐ
आयुर्वेदीयग्रन्थमाला।
(दुष्प्रापप्राचीनायुर्वेदग्रन्थानां क्रमशः
प्रकाशिका मासिकपत्रिका)
एषा खलु खिस्तीय १९१० वत्सरस्य नोंवेम्बरमासात् प्रतिमासं प्रसि-
ध्यति । अस्यां मासिकपत्रिकायामद्यावधि क्वाप्यमुद्रिता दुष्प्रापाश्च विविधा
आयुर्वेदीयग्रन्था भूयसा यत्नेन संपाद्य, बहूनामादर्शपुस्तकानां साहाय्येन
संशोध्य, पाठान्तरादिभिश्च संयोज्य प्रसिद्धिं नीयन्ते । येषां ग्रन्थानां टीको-
पलभ्यते ते सटीका एव मुद्राप्यन्ते, अन्येषु च विषमपदोपरि टिप्पणं दीयते ।
प्रतिग्रन्थं ग्रन्थकर्तुर्जन्मदेशोत्पत्तिकालादिप्रदर्शिका भूमिका, विषयानुक्रम-
णिका, शुद्धिपत्रं च दीयते । मासिकेयं भारतवर्षे मुद्रणकार्यार्थे सुविख्याति-
मापन्ने निर्णयसागरयन्त्रालये सुपुष्टचिक्कणपत्रोपरि (50 Pounds
glaze paper) मुद्राप्यते । अस्यां प्रतिमासमेतस्या विज्ञापनपत्रिकाया अन्ते
प्रदत्तादर्शपृष्ठद्वयरूपाण्यष्टचत्वारिंशत्पृष्ठानि (royal 12 P. 4 Forms.)
दीयन्ते । पत्रिकेयं प्राचीनविविधायुर्वेदग्रन्थदिदृक्षूणां वैद्यजनानां कियदुपयोगार्हा
संमाह्या चेति अस्यां विज्ञापनपत्रिकायां तृतीयपृष्ठमारभ्य चतुर्दशपृष्ठपर्यन्तं
[मुद्रितेभ्यो] भारतवर्षस्य नानास्थलनिवासिनां वैद्यमहोदयानां प्रशंसापत्रेभ्य एव
[ज्ञातव्यं] विपश्चितः ।
अस्या मासिकपत्रिकाया नियमाः ।
१ अस्या वार्षिकमूल्यं भारतवर्षब्रह्मदेशसिंहलदेशनिवासिभिर्ग्राहकैः प्रापण-
मृतिसहितं रूपकत्रयं, अन्यदेशनिवासिभिश्च पादोनरूपकचतुष्टयं वर्षारम्भ
एव देयं भवेत्; छात्रैस्तु यदि स्वगुरोः 'अनेनास्मत्समीपेऽधीयते' इत्येवं रूपं
प्रमाणपत्रं प्रेष्येत चेत्तर्हि रूप्यकद्वयमात्रमेव देयं भवेत् ।
२ आदर्शाङ्कः (नमूना-Sample copy.) कस्यैचिदपि विनामूल्यं न
प्रेष्यते, नच वी. पी. द्वारा । अस्या विज्ञापनपत्रिकाया अन्ते संप्रति मुद्यमानेभ्यो

रससार-राजमार्तण्ड-गदनिग्रहेभ्यः कियदंशमुद्धृत्य आदर्शरूपं पृष्ठद्वयं दत्तं,
तद्दर्शनेनैव कीदृशपत्रोपरि कथंभूतैरक्षरैरियं मुद्राय्यते इत्यादिकं सुविज्ञेयमेव ।
तथाऽपि येषामादर्शाङ्कदर्शनेच्छा भवेत्तैराणकचतुष्टयरूपं मूल्यं प्रथममेव
पोष्टद्वारा प्रेषणीयम् । ततः प्रथमवर्षस्य प्रथममङ्कमादर्शत्वेन प्रेषयिष्यामः ।
अन्यः कोऽप्यङ्क आदर्शत्वेन न प्रेषयितुं शक्यते ।
अस्यां पत्रिकायामद्यावधि प्रसिद्धीभूता ग्रन्थाः ।
१ रसहृदयतन्त्रम्—श्रीमद्गोविन्दभगवत्पादाचार्यविरचितं, चतुर्भुजमिश्र-
विरचितमुग्धावबोधिनीव्याख्यासहितम् । अस्मिन् ग्रन्थे रसस्य स्वेदन-
मर्दनमूर्च्छनादीनामष्टादशसंस्काराणामतिविशदतथा वर्णनं कृतमस्ति । रसग्र-
न्थेषु टीकया सह मुद्रितोऽयमाद्य एव ग्रन्थः । मूल्यमेको रूप्यकः ।
२ रसप्रकाशसुधाकरः—श्रीयशोधरविरचितः । अस्मिन् ग्रन्थे रसस्या-
ष्टादश संस्काराः, रसबन्धभस्मविधाने, स्वर्णादिधातुमहारसोपरसरत्नादीनां
लक्षणगुणशोधनमारणादिकं, एकशतरसप्रयोगाः, यन्त्रमूषापुटादीनां लक्षणानि,
वाजीकरणशुक्रस्तम्भनयोगाश्चेत्यादयो रसशास्त्रप्रतिपाद्याः प्रायः सर्वेऽपि विषया
अतिसरलतयोपवर्णिताः, अतोऽयं ग्रन्थोऽल्पेनायासेन रसशास्त्रतत्त्वज्ञाने
भिषजामतीवोपयुक्तः । मूल्यमेको रूप्यकः ।
३ गदनिग्रहस्य प्रयोगखण्डः । अस्मिन् खण्डे घृततैलचूर्णगुटीलेहास-
वाख्याः षडधिकारा विद्यन्ते । तेषु षट्स्वधिकारेषु पञ्चाशीत्यधिकपञ्चशतमितः
प्रत्यक्षफलदा नित्यपयोगिनश्च प्रयोगा उक्ताः । मूल्यं सार्धरूप्यकः ।
पुस्तकत्रयमिदं सुवर्णनामाङ्कितपटबद्धं, प्रापणव्ययस्त्वेतेषां क्रेतुरेव देयो
भवेत् ।
पत्रिकाविषयः सर्वोऽपि व्यवहारः सुवाचैर्नागराक्षरैराङ्गलभाषया वा अधो-
लिखितस्थलोपरि करणीयः ।
ता० १-४-१९१२ } वैद्य जादवजी त्रिकमजी आचार्य
३७२, बोराबजार स्ट्रीट, फोर्ट, मुंबई.

अथ
ग्रन्थमालाया विषये विद्वद्वर्याणामभिप्रायः।
आयुर्वेदीयचिकित्सकानां, जयपुरराजकीयसंस्कृतमहाविद्यालयस्य आयुर्वेद-
परीक्षकाणां, चरकसंहितायाः स्वतन्त्रव्याख्याप्रणेतॄणां, वङ्गीयराॅयलएशियाटिक-
समाजसदस्यानां, 'एम्. ए. विद्याभूषण' इत्याद्युपाधिविभूषितानां कविराजश्री-
योगीन्द्रनाथसेनमहोदयानामभिप्रायः—
दुरासदपुराणायुर्वेदग्रन्थप्रकाशने ।
महाधनानां जीर्णानां मणीनां संस्कृताविव ॥ १ ॥
आचार्योपाह्वय श्रीमद्भिषग्यादवशर्मणः ।
अतिशस्ततया भाति साधुरेष समुद्यमः ॥ २ ॥
श्रेयसा कर्मणाऽनेन केवलं भिषजां नहि ।
आर्याणामेव सर्वेषां सुकृतज्ञत्वमर्हति ॥ ३ ॥
द्वारकानाथकारुण्यादायुर्वेदविशारदः ।
सुसंस्कारेषु जीर्णानामाप्तकामो भवत्वयम् ॥ ४ ॥
प्रोत्साहनीयो विद्वद्भिः सर्वैरेष भिषग्वरः ।
इति योगीन्द्रनाथस्य भिषजः प्रार्थना सदा ॥ ५ ॥
कलिकातानगरवास्तव्यानां 'एम्. ए; एल्. एम्. एन्ड एस्; विद्यानिधि,
कविभूषण' इत्युपाधिविभूषितानां कविराजश्रीयुतगणनाथसेनमहोदया-
नामभिप्रायः—
हन्त खल्वेष महानेव भाग्योदयो भिषजां यदद्य हीयमानवैद्यकज्योतिःसमु-
दीपनाथ समुदिता नवीना मासिकपत्रिका वैद्यजनकण्ठललाममालेवमायुर्वेदीय-
ग्रन्थमाला नाम । सेयं वैद्यवरश्रीमदाचार्ययादव-त्र्यम्बकशर्मभिः सम्पाद्यमाना
नवनवग्रन्थरत्नसमुज्ज्वला परां श्रियं पुष्णाति । विशेषतश्चात्र रसहृदवादिकान-
तिदुर्लभान् ग्रन्थान् प्रकाश्यमानानालोक्य परां कोटिमानन्दस्याध्यगमम् । यथा
चास्याः संपादकप्रवरैर्बद्धपरिकरं प्रयतते ग्रन्थसंग्रहाय तथा चिरायुष्मत्याऽनया
पत्रिकया महानेवोपकारः संपत्स्यतेऽचिरेणेति साग्रहमाशास्ते—
Calcutta, } कलिकातावास्तव्यः
Dt. 1-12-1910. } श्रीगणनाथसेनः

४
सुश्रुतसंहितायाः सुश्रुतार्थसंदीपनभाष्याख्यव्याख्याप्रणेतॄणां राजशाहीवास्त-
व्यानां कविराजश्रीहारणचन्द्रशर्मचक्रवर्तिनामभिप्रायः—
श्रीश्रीशः शरणम् ।
वैद्य श्रीयादवजी त्रिविक्रमजी महोदयं प्रति यथाविहितसम्मानपुरःसरं विनि-
वेदयति—
तत्र भवद्भिः प्रेषितामायुर्वेदीयग्रन्थमालानाम्नीं पत्रिकामवाप्य नितरां परि-
तुष्टोऽस्मि । भारतीयानां दौर्भाग्यवशाच्चिरन्तनैर्भिषग्भिरुपनिबद्धा बहवो ग्रन्था
विलुप्तिमापुः । ये च केचन लुप्तप्राया राजपुरुषाणां प्रयत्नात् यथाकथमपि
मुद्रिताः समुपलभ्यन्ते त एवेदानीं पाश्चात्यविज्ञानदृप्तेऽपि देशे भारतीयार्याणां
वैद्यकविद्यायामतितरां नैपुण्यविशेषमाख्यापयन्ति । अधुनापि बहवो ग्रन्था
अमुद्रिता आकरगता मणय इव न जातु जनानामुपकारायौयुर्वेदस्य गौरववर्धनाय
वा प्रभवन्ति । धन्योऽसि त्वं यज्जनहितेच्छया रक्षार्थं चायुर्वेदतन्त्राणाममुद्रितांस्तां-
स्तान् प्राचीनान् ग्रन्थान् बहुप्रयासेनोपसंगृह्य प्रतिमासमायुर्वेदीयग्रन्थमालायां
प्रकाशयसीति । सांवत्सरिकमूल्यमप्यस्या नातिदुर्बहम् । नह्यपायान्तरेण रूप्य-
कत्रयव्ययात् कथमपि रसहृदयादिकास्ते ते दुर्लभा ग्रन्थाः शक्यन्ते नाम
दृष्टिपथमप्यारोहयितुम् । प्रतिग्रन्थं सुयुक्तिपूर्णा भूमिका दुरूहार्थबोधिका टिप्प-
न्यपि वर्तेत इति सानन्दमभिनन्दयामि । पत्रिकेयं सर्वथायुर्वेदानुशीलयि-
तॄणामुपयोगिनी भविष्यतीति परमाशासे इति ।
$\left.{l}राजशाही
६ डिसें० १९१० सः\right}$ श्रीहारणचन्द्रचक्रवर्ती ।
जयपुरराजकीयसंस्कृतमहाविद्यालये आयुर्वेदप्रधानाध्यापकानां, आयुर्वेदा-
चार्योपाधिभृतां राजवैद्य पं० श्रीलक्ष्मीराम स्वामी महोदयानामभिप्रायः—
अद्य प्रादुर्भूतमान्तरिकमानन्दं बहिः प्रकाशयन् सत्यं सन्तोषमावहामि ।
यतो हि बहोः कालादुपेक्षापथमारोपिते विषये साम्प्रतं समाजे लोकानां दृष्टि-
पातः । नैतदवधि परमोपयोगिनः खल्वायुर्वेदशास्त्रस्य पुरातनग्रन्थानां प्रकाशने
समभूत्समवधानम् । परमद्य नवीनमाविष्कृतामायुर्वेदीयग्रन्थमालां पश्यन्
सन्तुष्यामि हृदये । एषा हि मोहमयीनगरात् प्रचरिष्यन्ती मासिकपत्रिका ।
एत्तस्याः खलु सम्पादका मोहमयीनगरमधिवसन्त आचार्योपाह्वा यादव-
शर्मणः । एषा हि परमोपयोगिनः प्राचीनानायुर्वेदग्रन्थान् प्रकाशयितुमा-
विर्भूता । एवंविधान् ग्रन्थान् प्रकाशयन्ती सैषा कियदुपकरिष्यति लोकानामिति
सर्वेऽप्यनुमिन्युयुः । अस्यां हि प्रकाशयितुमभिलषितानां विरलपठनपाठनप्रचा-

राणां ग्रन्थानां परिशोधनकर्मणि बहून्यादर्शपुस्तकान्यपेक्ष्यन्त इति सम्पादक-
महाशयैरवश्यमस्मिन्विषये समवधातव्यम् । सुयोग्यसम्पादकमधिगतवतीमिमा-
मायुर्र्वेदविषयरसिका अवश्यमेव समाद्रियेरन्निति विश्वसिमि । चराचरगुरुः
परमेश्वरः कुर्यादेनां यशस्विनीमिति निर्मायं समाशासे—
जयपुर, ता. ६।१।१९११ $\qquad\qquad$ श्रीलक्ष्मीरामस्वामी
जयपुरराजकीयसंस्कृतमहाविद्यालये आयुर्वेदाध्यापकानां, तर्कोपाध्यायसाहि-
त्यशास्त्रिणां, अखिलभारतवर्षीयसयाजीआयुर्वेदविद्यापीठस्य द्वितीयवैद्यकसंमेलन-
सभाधिपतीनामायुर्वेदविद्यानिधीनां व्यासोपाह्वयराजवैद्यभट्टगंगाधरशर्मणा
मभिप्रायः—
अयि सुहृद्गणा उद्घाट्यतां चक्षुर्द्दश्यतामनुपमं वस्तु गृह्यतामायुर्यततां त्रि-
वर्गप्राप्तौ बहुकालात् प्राप्तोऽयमवसरः निष्पन्नोऽथैवात्मनामवितर्कितो विचारः
माभवन्तु तूर्यशब्द इवार्थशून्याः । यतः शास्त्रमूलं हि ज्ञानं तन्मूला च सिद्धिः
सिद्धेः फलमनामयः, तथाहि जीवानन्दनीयः श्लोकः,—
“प्राग्जन्मीयतपःफलं तनुभृतां प्राप्येत मानुष्यकं, तच्च प्राप्तवतः किमन्य-
दुचितं प्राप्तुं त्रिवर्गं विना । तत्प्राप्तेरपि साधनं प्रथमतॊ देहो रुजावर्जितस्तेना-
रोग्यमभीप्सितं दिशतु वो देवः पशूनां पतिः ॥” इति ।
प्रार्थनीयतमस्य नैरूज्योपजीवनभूता नानाविधाः सद्यःफलप्रदा अदृष्टचरा
अश्रुतचरा रसहृदयगदनिग्रहादयः प्राचीना आयुर्वेदग्रन्था यत्र मुद्राय्यन्ते । कृते
प्रयत्न उपलभ्यमाना आयुर्वेदप्रकाशराजमार्त्तण्डपाकार्णवशालिहोत्रसमुच्चयरसक-
ल्पलतारसावलि-रसपारिजात-रसेन्द्रचूडामणयो यत्रोद्धारश्च शिवकल्याणाय्य-
संहिता-हितोपदेश-हिकमतप्रदीप-रोगब्बादकामरत्नानि वृक्षचिकित्सा द्रव्या-
भिधानं शब्दरत्नप्रदीपो निघण्टुर्माधवनिदानस्य पद्यमयी टीका टीकान्तराणी-
तरेषां राघवपाण्डवीयकाव्यमिव क्रोडीकृतार्थद्वयीकः शृङ्गारातरङ्गविलास इत्या-
दयस्ते ते च वैद्यग्रन्था मुद्रापयितुमाशास्याः । सेयमायुर्वेदीयग्रन्थमाला केषां न
प्रमोदमुद्वहेत् । शास्त्ररसिकानां भिषजामवश्यमादरणीया नेतरमासिकपत्रिकेव
मूल्यभारं बिभर्तीति सहर्षमुपादेया । इमामायुर्वेदीयमासिकपत्रिकामवलोकमानो
बहुलमावहामि संतोषम् ।
अस्या मासिकपत्रिकाया असंभावितप्रादुर्भावायाः संपादका आचोर्यापाहा-
स्त्रिविक्रमतनुजा वैद्यप्रकाण्डा यादवशर्माणः पुरुषोत्तमाः श्लाघ्यतमाः ।

६
किं त्वेतस्यां तैस्तैराचार्यप्रवरैः समूहितान्यनेकमुनिजनस्वान्तखनिजानि विवि-
धसूत्रस्यूतानि भारतीयानां हृदयङ्गमानि प्रत्नानि योगरत्नानि स्थले स्थले
तत्त्वार्थावगमकैस्तत्तदौषधीनां शक्यार्थविशेषाभिधायकैरनेकार्थानां भेषजनाम्नां
तन्त्रान्तरसंवादात् प्रकरणादिवशाच्चैकार्थे नियन्तृभिर्गूढवाक्यप्रसाधकैर्वाक्यैरनु-
काव्यकलेशोक्तसंदिग्धार्थप्रकाशकैः परिभाषावाक्यैः सांप्रतिकोपयुज्यमानमाना-
दिभिः साधनविधया च पूर्णगर्भया टिप्पण्या तथा संस्कारमर्हन्ति यथाधीयाना-
श्चिकित्सकानां बटवोपि पटवो भवेयुः । नहि यथायथज्ञानमन्तरा भवन्ति
प्राणाभिसरा वैद्याः; अतः संपादकमहोदयैः सहायकमहाशयैरन्तान्यैर्वा विद्व-
द्वैर्य्यवरैः सान्द्रस्नेहैः संश्रियमाणानानातन्त्रैः साहाय्ये समवधेयम् । यतः सतां
विभूतयः परानुपकुर्वन्ति । प्राप्तश्चायुर्वेदोद्धारसमयः । चिरस्थायिनीं क्रियादेना-
मायुर्र्वेदीयग्रन्थमालामवाङ्मनसगोचरप्रभावोऽस्पष्टरूपोऽनादिमध्यनिधनः कालो-
नाम भगवानित्याशीः
$\left.{l}जयपुरम्.
ता. २-३-११.\right}$ गङ्गाधरभट्टस्य.
सर्वतन्त्रापरतन्त्राणां सुप्रसिद्धनामधेयानां मिथिलाभूषणानां नवानीवास्त-
व्यानां धर्मदत्तापरनामधेयानां पण्डितश्रीबब्वाझामहोदयानामभिप्रायः—
“जीवनसुखलुण्ठनैकरतानतामयदस्युप्रचयदमननिपुणभिषग्जह्वारथसूतस्य जरा-
भुजगीकवलितोत्साहजनदुष्पारविविधव्याधिमकरप्रचारभीषणसंसारजलधिपार-
दस्य चिकित्सावधूहृदयहृद्यरसस्य रसस्य विविधप्रक्रियाप्रकाशकानि तन्त्राणि
गदनिदानप्राप्त्युपशयोपशमप्रकाशकभास्वदपूर्वायुर्वेदग्रन्थांश्च संशोध्य दुर्बोधस्थान-
व्याख्यानमपि विधाय सन्निवेश्य च मासिकपत्रे मार्मिकजनलोचनगोचरतां
नयता भिषग्वरेण श्रीमता यादवशर्मणा यथायमुपकृतो भैषज्यतत्त्वविविदिषुर्जुन-
निचहस्तथा वर्णयितुमपेक्ष्यमाणया शेषतया रहिता वयमेतावदीशवरादभ्यर्थयामो
भुचमलङ्कुर्वाणास्तुचिरं भूयासुरेतादृशा विद्वन्मणय इति”
'तृचिनाप्पल्लि' वास्तव्यानां 'अभिनवभट्टबाण' इत्युपाधिविभूषितानां व्याक-
रणग्रन्थरत्नावलिसंपादकानां पं० रा. च. वि. कृष्णमाचार्याणामभिप्रायः—
'आर्याः, अधिगता संचिका अतीवानन्दयति माम् । श्रीमतामायुर्वेदग्रन्थ-
प्रकठनव्यवसायश्च नितरामखिलैरप्यभिनन्दनीयः । श्रीमद्भिश्च तन्मुद्रणे शोधना-
दिषु च सुबहु आधीयते श्रद्धेति मे मतिः'
भवतां—कृष्णमाचार्यः
ता. ३-१-१९११.

७
बळिआमण्डलान्तःपातिपनिवाग्रामवास्तव्यानां व्याकरणसाहित्यानेकशास्त्रा-
वगाहनगम्भीरमतीनां 'उत्तरमोहनचरित्र'द्यनेक काव्यविरचयितॄणां पं. श्रीरमा-
पतिमिश्राणामभिप्रायः—
अदृष्टालभ्यानां विविधविधरोगौघनिधनं विधातॄणामद्यावधि नहि गतानामनुगुणम्
प्रसिद्धिं, ग्रन्थानां प्रकटनपरैर्यादवबुधैर्हतैतद्देशीयेदृशविषयबाहुल्यविमतिः ॥ १ ॥
विधायागम्यानां विषमविषयाणां कचिदपि
विशालं व्याख्यानं बुधजनविलोक्याव्यविषयम् ।
उपोद्घातं चादौ हतमपि महाशोकजनन-
मधीतो नो वैद्येष्विति जनजनव्यापि कुमतम् ॥ २ ॥
मूल्याल्पत्वादगुणाधिक्यान्मुद्रणासुविधानात्। उपादेयत्वमप्यस्य पत्रस्य सुलभं कृतम्
श्रीरमापतिमिश्रः ।
जयपुरराजकीयमहाविद्यालयस्याऽऽयुर्वेदाचार्यपरीक्षोत्तीर्णानां, पञ्चनदविश्व-
विद्यालयालब्धशास्त्रीपदवीकानां, इन्द्रप्रस्थीय बी. एल्. आयुर्वेदविद्यालयस्य
परीक्षकाणां, जींदराज्याधीशस्थापितराजकीयधर्मव्यवस्थापककमीटीसीनियरसभा-
सदानां श्रीयुत पं. श्यामलालशर्ममहोदयानामभिप्रायः—
वैद्य यादवजी त्रिकमजी आचार्यमहाशयं प्रति यथोचितमानपुरःसरं निवे-
दयति-'आचार्य'इत्युपाधिभूषितैस्तत्र भवद्भिः श्रीयादवशर्मभिः संपाद्यमानामिमां
'आयुर्वेदीयग्रन्थमालाख्यां' मासिकपत्रिकामवलोकनेन प्रफुल्लितहृदयोऽहं विज्ञा-
पयामि किञ्चिद्विद्वज्जनेषु । यदत्र मुद्रिता आयुर्वेदग्रन्था दुष्प्राप्या एव, नैवाया-
वधि कुत्रापि मुद्रिताः । स्वल्पव्ययेनैव प्राप्या एषा पत्रिका आयुर्वेदरसिकजनै-
रवश्यमेव संग्रहणीयेति । श्रीमन्तश्च पुरातनायुर्वेदप्रकाशनद्वारा वैद्यजनोपकार-
करणाय समर्था भवन्विति याचते जगदीश्वरम्
संगरुर } भवदीयः
ता. २-१९११ } श्रीश्यामलालशर्मा शास्त्री आयुर्वेदाचार्यः।
जयपुरराजकीयसंस्कृतमहाविद्यालयस्य आयुर्वेदाचार्यपरीक्षोत्तीर्णानां, मुंबई-
स्थायुर्वेदविद्यालयस्य वाग्भटाध्यापकानां, पञ्चनदविश्वविद्यालयस्य शास्त्रीपरीक्षो-
त्तीर्णानां, वैद्यकिशोरीवल्लभशर्मणामभिप्रायः—
प्रियसहृदयाः !
भावत्कायुर्वेदीयग्रन्थमालानामकं मासिकपत्रमासाद्यातीव चेतस्तुष्यति ।
यत्र खलु दुष्प्राभा योग्याश्चायुर्वेदीया रसाह्वयादिग्रन्थाः प्रकाश्यन्ते । अपि
नाम विदितमेवैतद्विदुषां यथा संप्रति प्रारब्धवशात्परम्पराप्राप्तप्रचुरपुस्तकचयानां
स्वयं तान्यानुपयुञ्जानानां परेभ्यश्च प्रेक्षणमात्रार्थमप्यददानानां पुस्तककीनाशानां

८

हस्तपतितानि पुस्तकानि शीर्णतामवाप्य घुणानां कीटकान्तराणां चोपभोग-
भाजनानि भवन्ति । अथ च बहवो मुद्रणाधिकारिणः स्वार्थशेमुष्या अवैद्येभ्यः
संशोध्यैवाशुद्धप्रायाणि पुस्तकानि मुद्रयन्तीत्यादिकारणवशादाय़ुर्वेदीयग्रन्थानां
प्रलयत्वमेवापाद्यते । परमीशानुकम्पया सोऽयं महान्भावः साम्प्रतमभ्युन्नति-
चिकीर्षुणा वैद्यवरश्रीयादवशर्मणा महतायासेन प्राक्तनान् ग्रन्थरत्नानन्वेष्य सं-
शोध्य मुद्रयित्वा च निरस्तः । प्रियवयस्येनायुर्वेदसमुद्धरणे ह्यतीव श्रमः समनु-
ष्ठितः प्राचीनायुर्वेदग्रन्थरत्नलोकोलोचनगोचरीभावायेति श्लाघ्यः प्रयत्नः । अखि-
लभारतवर्षीयैर्वैद्यैर्विद्वद्भिश्चावश्यं ग्राहकसंख्याः संवर्ध्य संवर्धनीयः समुत्साहप्रवाहः
किल प्रकाशकमहोदयस्य । येनाभ्युन्नतिमाप्नुयादहरह आयुर्वेदीयग्रन्थमालेति शम् ।

पौषकृष्णनवमी सं० १९६७.
किशोरीवल्लभः ।

देहलीनगरस्थबनवारीलाल-आयुर्वेदविद्यालयाध्यापकानां वैद्यराजपण्डित श्री
मनोहरलालशर्मणामभिप्रायः—
श्रीमन्महोदयः !
सानन्दं निवेदयामः—याऽधुनाऽयुर्वेदीयग्रन्थमालाविर्भूता संदृश्यते, साचेयं
पुरातनायुर्वेदीयतन्रोद्धतरत्नैर्ग्रथिता श्रीयादवत्रिविक्रमाचार्य्यभिषग्भिः सद्धिप्र-
जामुपकाराय मालेव प्रतिभाति । किञ्चात्रायुर्वेदियसयोगा विविधगदप्रशनक्षमा
दरीदृश्यन्ते, यैश्चाशु दाक्ष्यं स्याद्विदुषां भिषजामेवेति ॥

$\left.{l}इन्द्रप्रस्थ
ता० ३०-१-१९११.\right}$ \quad {l}पं० मनोहरलाल शर्मा वैद्यराजः
बनवारीलाल-आयुर्वेदविद्यालयाध्यापकः

भोलादग्रामवास्तव्यानां वैद्यवर्याणां 'नागरदास मोहनलाल पाठक' इत्येषा-
मभिप्रायः—
प्रिय विद्वन्मण्डन महाशय !
प्राचीनायुर्वेदीयपुस्तकोद्धरणप्रयासं आयुर्वेदीयग्रन्थमालाभिधानमासिकपत्रि-
कामुखेन कृतं श्रीमद्भिर्भवद्विदीक्ष्याऽऽनन्दार्णवनिमनोऽहं लिखाम्यभिनन्दनम्-
यत्नं समस्तविदुषां मुदमावहन्तं श्रीमद्भवत्कृतमुदीक्ष्य मुदं दधेऽहम् ॥
श्रीशैलराजतनयाश्रितवामभागस्त्वां तत्फलेन निजधर्मजुषं युनक्तु ॥ १ ॥
योऽङ्गीकृतोऽत्र भवता सुमहान् प्रयासः
प्राचीनपुस्तकगणोद्धरणक्रियायाम् ॥
सेवा पृथग्मनुजवर्गसुदुष्करा सा
सम्पादिता हि विदुषां भवता पृथिव्याम् ॥ २ ॥

९
भिषग्वर्याः सर्वे शृणुत वचनं सादरतया
यदा चायुर्वेदोधितलगर्तिं लिप्सथ तदा ॥
विहायान्यं यत्नं झटिति कुरुत ग्राहकतया
सहायं खल्वस्या इदमभिमतं कर्म विदुषाम् ॥ ३ ॥
सर्वे भिषजो ग्राहकाः सन्तो भवतां यत्नं पुष्णन्तु । पत्रिकेयं सर्वथायुर्वेद-
विद्यालिप्सुभिः सजनैः संग्रहणीयेति मन्यते
भूहाद्-मार्गशीर्ष कृष्ण- } मोहनलालतनुजन्मा पाठकोपाव्हो नाग-
दलनवम्याम् ॥ संवत् १९६८ } रदासशर्मा ।
मुंबईनगरस्थायुर्वेदविद्यालयपरीक्षोत्तीर्णानां ‘भिषग्वर, ए. ए. एम्. एस्’ इत्यु-
पाधिधारिणां कच्छअंजारग्रामस्थानां ‘शिवशङ्कर जयानन्द भट्ट’ इत्येषामभिप्रायः-
प्रियमहाशय !
प्राचीनायुर्वेदग्रन्थप्रकाशने श्रीमतां प्रयासोऽतीवाभिनन्दनीयः । रसहृदयादि-
ग्रन्थानां प्रकाशनारम्भो मे निकामं जनयति हृदयानन्दम् । सर्वेऽपि भारतीया
भिषजो ग्राहकाः सन्तः श्रीमतां यत्नमभिपूष्णन्तु । श्रीमन्तश्चानेकोपयुक्तग्रन्थ-
प्रकाशने तद्वारा भारतीयवैद्यगणोपरि चानुपमोपकारकरणे च क्षमा भवन्विति
याचते परमात्मान-
कच्छ अंजार, } भिषग्वरः श्रीशिवशंकरशर्मा.
ता. ११-११-१९१० }
पुण्यपत्तनस्थानां अष्टाङ्गहृदयमाधवनिदानयोर्महाराष्ट्रभाषानुवादकानां
‘एल्. एम्. एन्ड एस्.’ इत्युपाधिधारिणां ‘डॉ. गणेश कृष्ण गर्दे’
इत्येषामभिप्रायः-
वैद्यवर्य जादवजी त्रिकमजी यांस,
आपण पाठविलेलीं आयुर्वेदीयग्रंथमालेच्या पहिल्या अंकाचीं ४८ पानें
पोंचलीं. आपला उद्योग फार स्तुत्य आहे. उपयुक्त व अप्रसिद्ध असे
आयुर्वेदीयग्रंथ जितके प्रसिद्ध होतील तितकी आपल्या जुन्या चिकित्सा-
शास्त्रांतील उपयुक्त भाग कायम राखण्यास मदत होईल. जुनी परंपरा
लुप्त होत चालली आहे व रसक्रियेची नुस्ती थट्टा चालली आहे. शास्त्रोक्त
रीतीनें पारदादिकांची सिद्धि न करितां अनेक वैद्यकीच्या कारखान्यांतून
वाटेल तशीं रसायनें तयार करून भाविक लोकांच्या गळ्यांत बांधलीं जात
आहेत व अशा औषधांच्या उपयोगापासून रोग्यांचें नुकसान होतें एवढेंच

१०
नव्हें, तर कच्च्या रसायनी औषधामुळे झालेले नुकसान दृष्टोत्पत्तीस
आल्यामुळे लोकांकडून वैद्यशास्त्रालाही दूषण मिळतें, ही स्थिति नाहींशी
होण्याला सशास्त्र औषधें तयार झालीं पाहिजेत व ह्या गोष्टीच्या सिद्धतेची
पहिली पायरी झटली ह्मणजे रसहृदय, रसार्णव इत्यादि प्राचीन परंपरेचे
प्रकाशक असे ग्रंथ प्रसिद्ध झाले पाहिजेत. तें काम आपण हातीं घेतलेले
पाहून व त्यांत आमचे मित्र रा. रा. त्र्यंबक गुरुनाथ काळे यांनीं मदत कर-
ण्याचें कबूल केलें आहे असें ऐकून मला फार समाधान वाटलें. आपल्या
ह्या सत्कार्यास चांगला आश्रय मिळून तें सिद्धीस जावें अशी आशा करून हें
पत्र संपवितों.
पुणें, ता. २६।१०।१०. — गणेश कृष्ण गर्दे.
पौर्वपाश्चात्योभयचिकित्साशास्त्रनिपुणानां 'ऑनरेबल, सर डॉ० भालचन्द्र
कृष्ण भाटवडेकर' इति विख्यातानामभिप्रायः—
Bombay, December, 6th 1910.
“VAIDYA JÂDAVAJI TRICAMJI ÂCHARYA gave me a copy
of the 1st volume of the Monthly Magazine called Âyurve-
diya Granthamâlâ, a monthly Medical Sanskrit Magazine
edited and published by him. It contains 3 different re-
prints of MSS which he has secured, one of them Rasahrida-
yam Tantram is written by Govindâchârya, the Guru of the
celebrated Shankarâchârya, who is supposed to have lived
about a 1000 years ago. The Magazine is well conceived
and if kept up to the standard of the 1st Vol. is calculated
to do immense good to the Ayurvedic Literature of the
present time. I wish Vaidya Jâdavaji every success in the
work he has undertaken.”

११
Madras, E. 4-12-1910.
“Dear sir,
It affords me much pleasure to have gone through the
pages of your valuable journal “Ayurvediya Grantha Mâlâ”
and I accord my hearty and cordial welcome to it as just
the thing that is needed for the resuscitation of Âyurvedas’
lore at present. The valued works, with which you have
commenced the journal promise a bright career to your
journal, while the beautiful get-up of the periodical leaves
nothing to be desired. I have no doubt that the journal
conducted by one of your deep and profound erudition
can be otherwise than an acquisition and help to the labours
of the modern workers in the field of whom I have the
privilege of being included as one.”
मुंबईनगरस्थायुर्वेदविद्यालयव्यवस्थापकानां ‘एल्. एम्. एन्ड एम्.’ इत्युपाधि-
धारिणां ‘डॉ० पोपट प्रभुराम’ इति विख्यातानामभिप्रायः—
My dear Vaidya Jâdavaji Tricamji Âchârya, I am
very much obliged to you for your kindly sending to me the
issues of your Ayurvediya Granthamala. The Sanskrit Medi-
cal science is very vast and there are many works which
are still not published. It is a great service done to the
profession especially the Aryan Medical practitioners to pub-
lish these unknown works. Nobody could do it better
than you as your sound knowledge of the science and the
earnest wish of yours to publish these works bespeak your
fitness to take up the work. Medical practitioners and
students of the science will both find many things new in
these works which will add a good deal to their knowledge.
I have recommended these issues to the students of the
Aryan Medical School before whom you have lectured for
a period of about two years and who have always been
thinking of your interesting lectures on Vagbhatta. I wish
you all success in this your undertaking.
I remain,
Yours truly,
2/3 Anant Wadi, } POPAT PRABHURAM,
Bombay 17th Jan. 1911. } Supt. A. M. S.

१२
From Pandit M. Duraiswami Aiyangar, Ayurveda
Bhushan, Certificated Ayurvedic Doctor, Lecturer, Madras,
S. K. P. A., Medical College, Assistant Physician S. K. P. D.
Ayurvedic Hospital.
Dear Sir,
In regard to the Medical monthly “Ayurvediya
Granthamala” edited and published by you, I am glad to
perceive that your journal stands unique in the field of
Medicine and marks the beginning of sincere attempts to
resuscitate the Ancient Lore which has been thrown into
oblivion by the unthinking millions. Your journal takes the
place of a beacon to lead your benighted brethren along
the forgotten paths and to help them considerably to unravel
and appreciate fully the profound truths of the Hindu
science of Medicine. While wishing you hearty success in
your honest efforts, I hope no consideration shall deter you
from carrying out fully your desired object, as you would
thus be doing a service to the public which would be its
own reward.
$\left.\begin{aligned} &Ayurveda Vilas,
&176 Mint Street,
&\textit{Madras, E. 2-3-1911.} \end{aligned}\right}$ Yours Faithfully,
M. D. SWAMI.
From, B. MANNARU SASTRIAL,
Pillayar palayam, Madura Post, South India
To,
Vaidya Jadavaji Trikumji Acharya,
Bombay.
Dear Sir,
I am one of the profound mourners for the long-lost
mother of Ayurvedic Lore. I had long lost all hopes of
her revival. I went on mourning every day. It was at
such a juncture, when I interested in such researches, was
about to relinquish every idea of success, that your ‘Ayur-
vedic Grantha Mala conducted by your profound erudition
happened to pass before my watery eyes. Immediately I

१३
found that she was already revived in the learned North
and was coming towards me with redoubled brilliance and
beauty like the gold subjected to many refinements in fire.
It afforded me so much pleasure and satisfaction as would be
felt by a small orphan at finding his long dead mother reviv-
ed to life and standing before it. As a representative of
the rest of the mourners who also enjoyed the opportunity of
persuing your journal and thus satisfying themselves, I render
my heart-felt thanks for the interest that you have taken
in its resusciation I perused the 9 issues of your worthy
journal and was curious enough to go through the August
Issue. I was very much feeling the unexpected and un-
lucky delay of great length. whereas I found the August
journal came to my hands on the 19th instant. I deeply felt
apology for your delay. Deep was my sorrow to see
the merciless God afflicting such a divine moon like you,
in your divine errand. Deep is my wish that God no more
might thus interrupt you in the discharge of your bene-
volent and national duty. Deep is my anxiety and wish
for your longlife, for your interrupted health and for the
prosperity of your journal. It would not be too much to add
that the worthy journal of yours would stimulate the slug-
gish spirit of all our Southern Sanskrit Scholars whose com-
bined efforts should contribute their quota to the resuscia-
tion of Ayurvedic lore and to the national advancement.
With my best wishes for the same.
I remain,
Sir,
Yours Sincerely.
Pɪʟʟᴀʏᴀʀ Pᴀʟᴀʏᴀᴍ, }
28th Septembr 1911. } B. MANNARU SASTRIAL.
'वैद्यकुलभूषण' इति तथा वैद्यरत्न इति च प्राप्तोपाधिद्वयानां कानपुरीय-
वैद्यपरिषन्मन्त्रिणां श्रीयुत पं० रामेश्वरमिश्रवैद्यशास्त्रिणामभिप्रायः—
ओ३म् श्रीधन्वन्तरये नमस्कृतिः ।
श्रीयुक्त यादवजी त्रिकमजी महोदयेषु बहुमानपुरस्सरैयं विज्ञप्तिः—

यच्च शल्यशालाक्याद्यष्टाङ्गभूतं वेदसमकालं किलायुर्वेदशास्त्रं, तच्छरी-
रायुर्रिरामयत्वलाभाद्धर्मादिचतुर्वर्गसाधनत्वं तस्येति धर्मादिचतुर्वर्गलिप्सूनां
प्राणिनां रागाद्याध्यात्मिकैरुन्मादाद्याधिदैविकैः कुष्ठाद्याधिभौतिकैश्चानेकविधरोग-
भुजङ्गैः संदष्टानां समूलरोगनिवृत्तये परमकारुणिकैरात्रेयकश्यपशाण्डिल्यभरद्वा-
जादिमहर्षिभित्रिकालज्ञानशालिभिर्मुनिभिः स्वास्थ्यानुवृत्तिपुरःसरं दीर्घायुर्लभा-
यानेकविधा आरोग्योपजीवनभूता विरचिताः संहिताः । ताः कदाचिदत्युत्तमोन्न-
तिपदारूढाश्वासन् । याः संहिताः सम्यगधीत्य पुरातनैरातिदुरुहायुर्वेदमर्मज्ञैर्वि-
शुद्धबुद्धिभिश्चिकित्सकवरैरेव रसायनैरन्यैश्च दिव्यौषधितल्लजैश्चयवनादीनां जरा-
राजयक्ष्मादिरोगार्तानामारोग्यं विधायातिजराभिभूतानां नूनं नूतनं वयःस्थापि-
तमिति । तासु समुपलभ्यमानास्वप्यनेकासु संहितासु हन्त बह्व्यः संहिताः
कुत्रचिद्विद्यमाना अपि इदानीं दृष्टमपि नोपलभ्यन्ते । परं संतुष्यति चेतः खलु
आयुर्वेदीयग्रन्थमालायां संप्रथिता रसहृदयादिग्रन्थाः, ये हि पुरा लुप्तप्राया
अत एव सुदुर्लभाश्च प्रकाश्यन्ते । अन्येषां च ग्रन्थानां तादृशानां संप्रकाशने
ह्यस्मत्सुहृद्वैरायुर्वेदोद्धारकैराचार्ययादवजीमहोदयैर्महानायासः समुत्तष्ठितः । स
खलु प्रभूतमभिनन्दनीयो धन्यवादाईश्चार्यमहाशयः । अधुना परिम्लायमाना-
प्यायुर्विद्यावली कादम्बिन्या इवास्याः प्रादुर्भावेन भूयः पल्लविता पुष्पशालिनी
फलसंकुला च स्यादिति वरीवृत्यतेऽस्माकमवितथो मनोरथः । तथाहि—
आप्लावयत्वस्मिन्नवसरे पण्डितराजवचोवीचिरस्मद्धृदयप्रदेशम् ।—
“आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा
वात्याभिः परुषीकृता दशदिशश्चण्डात्तपो दुःसहः ।
एवं धन्वनि चम्पकस्य सकले संहारहेतावपि
त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥”
सर्वेषामेव भारतवर्षीयायुर्वेदारविन्दमलिन्दानामतीव सांप्रतं संप्रति स्वकी-
याधिहोमजन्योत्साहधूमस्तोमैरस्याः कादम्बिन्याः संवर्धनमिति साग्रहमभ्यर्थ-
यते, अपि चायुर्वेदीयग्रन्थमाला चिरायुष्मती तत्प्रकाशकश्च चिरायुर्भूयादित्या-
शास्ते च
पौषशुक्लद्वादश्यां $\left.{l}

\right}$ श्रीरामेश्वरमिश्रो वैद्यशास्त्री ।
चन्द्रे, सं० १९६८ विक्रमाब्दे
नयागंज, कानपुर.

१५
( राजमार्तण्डादुद्धर्तोशः )
वातज्वरे शुण्ठ्यादिः क्वाथः।
वातज्वरोपशमनाय पिबेत्सुधी-
दुःस्पर्शनागरघनकथितं कषायम्
पित्तज्वरे नलदादिकषायः ।
पित्तोद्भवे नलदपर्पटकाब्दशुण्ठी-
श्रीखण्डनैः कथितमेतदुशन्ति वैद्याः ॥ १९९ ॥
कफज्वरे शुण्ठ्यादिकषायः ।
शुण्ठीग्रवासकट्फलान्नकृतः कषायः
श्लेष्मोद्भवं शमयति ज्वरमाशु पीतः।
सर्वज्वरे शुण्ठ्यादिकषायः ।
सर्वज्वरप्रशमनार्थमुदाहरन्ति
विश्वौषधेन सह पर्पटकं मुनीन्द्राः ॥ २०० ॥
( ज्वराधिकारः २० )
( रससारादुद्धर्तोशः )
पुरा शुद्धो रसेन्द्रश्च संस्कारैश्चैव संस्कृतः ।
चारयेज्जारयेच्चं च महासिद्धिप्रदो भवेत् ॥ १ ॥
लोहखल्वे चतुष्पादे रसं तत्र विनिक्षिपेत् ।
क्षाराम्लवेतसं काङ्क्षी विडं द्वात्रिंशदंशकम् ॥ २ ॥
चतुःषष्ठ्यंशकं व्योम ग्रासं दत्त्वा रसस्य तु ।
टङ्कणं हयलाला च लशुनार्द्रकचित्रकम् ॥ ३ ॥
मधुनिम्बरसं दत्त्वा यामयुग्मं विमर्दयेत् ।
सोष्णखल्वे चरेद्ग्रासं गर्मद्रुतिमवाप्नुयात् ॥ ४ ॥
नष्टपिष्टं परिज्ञाय यत्नेन क्षालयेद्रसम् ।
सोमांनलस्य यन्त्रस्य नाभिमध्ये रसं क्षिपेत् ॥ ५ ॥
दत्त्वाऽष्टांशं विडं नाभिं किञ्चिदम्लेन पूरयेत् ।
क्षाराम्लं त्र्यूषणं मूत्रं राजिकाशिग्रुचित्रकम् ॥ ६ ॥
( पटलः १२ )
१ 'चारयेन्मारयेच्चक्रे' ग. । २ 'नालिमघ्ये' ग. ।