गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 274, कुल 286 में से
संदर्भ में पढ़ेंअथ
ग्रन्थमालाया विषये विद्वद्वर्याणामभिप्रायः।
आयुर्वेदीयचिकित्सकानां, जयपुरराजकीयसंस्कृतमहाविद्यालयस्य आयुर्वेद-
परीक्षकाणां, चरकसंहितायाः स्वतन्त्रव्याख्याप्रणेतॄणां, वङ्गीयराॅयलएशियाटिक-
समाजसदस्यानां, 'एम्. ए. विद्याभूषण' इत्याद्युपाधिविभूषितानां कविराजश्री-
योगीन्द्रनाथसेनमहोदयानामभिप्रायः—
दुरासदपुराणायुर्वेदग्रन्थप्रकाशने ।
महाधनानां जीर्णानां मणीनां संस्कृताविव ॥ १ ॥
आचार्योपाह्वय श्रीमद्भिषग्यादवशर्मणः ।
अतिशस्ततया भाति साधुरेष समुद्यमः ॥ २ ॥
श्रेयसा कर्मणाऽनेन केवलं भिषजां नहि ।
आर्याणामेव सर्वेषां सुकृतज्ञत्वमर्हति ॥ ३ ॥
द्वारकानाथकारुण्यादायुर्वेदविशारदः ।
सुसंस्कारेषु जीर्णानामाप्तकामो भवत्वयम् ॥ ४ ॥
प्रोत्साहनीयो विद्वद्भिः सर्वैरेष भिषग्वरः ।
इति योगीन्द्रनाथस्य भिषजः प्रार्थना सदा ॥ ५ ॥
कलिकातानगरवास्तव्यानां 'एम्. ए; एल्. एम्. एन्ड एस्; विद्यानिधि,
कविभूषण' इत्युपाधिविभूषितानां कविराजश्रीयुतगणनाथसेनमहोदया-
नामभिप्रायः—
हन्त खल्वेष महानेव भाग्योदयो भिषजां यदद्य हीयमानवैद्यकज्योतिःसमु-
दीपनाथ समुदिता नवीना मासिकपत्रिका वैद्यजनकण्ठललाममालेवमायुर्वेदीय-
ग्रन्थमाला नाम । सेयं वैद्यवरश्रीमदाचार्ययादव-त्र्यम्बकशर्मभिः सम्पाद्यमाना
नवनवग्रन्थरत्नसमुज्ज्वला परां श्रियं पुष्णाति । विशेषतश्चात्र रसहृदवादिकान-
तिदुर्लभान् ग्रन्थान् प्रकाश्यमानानालोक्य परां कोटिमानन्दस्याध्यगमम् । यथा
चास्याः संपादकप्रवरैर्बद्धपरिकरं प्रयतते ग्रन्थसंग्रहाय तथा चिरायुष्मत्याऽनया
पत्रिकया महानेवोपकारः संपत्स्यतेऽचिरेणेति साग्रहमाशास्ते—
Calcutta, } कलिकातावास्तव्यः
Dt. 1-12-1910. } श्रीगणनाथसेनः