गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 270, कुल 286 में से
संदर्भ में पढ़ें६
कृत्वा ततो यथोक्तमानेन गृहीत्वा एकीकृत्य प्रयुञ्जन्ति; अपरे तु सर्वाण्यपि
द्रव्याणि यथोक्तमानानि संगृह्य एकत्र्यं संचूर्ण्य वस्त्रगालितं कृत्वा व्यवहरन्ति ।
बहुषु प्रयोगेषु चूर्णं जम्बीराद्र्रकादीनां रसैर्भावयेदित्युक्तं, तत्र यस्य भावना
देया तस्य यदि स्वरस उपलभ्यते तदा स्वरसेनैव भावयेत्, यदा तु स्वरसो
नोपभ्येत तदा “भाव्यद्रव्यसमं क्वाथ्यं क्वाथ्यादष्टगुणं जलम् । अष्टां-
शशेषितः क्वाथो भाव्यानां तेन भावना—” इति परिभाषया क्वाथं
निष्पाद्य तेनैव भावयेत् । भावनाविधिस्तु—“द्रवेण यावता सम्यक् चूर्णं
सर्वं प्लुतं भवेत् । भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः॥
दिवा दिवातपे शुष्कं रात्रौ रात्रौ निवासयेत् । शुष्कं चूर्णीकृतं
द्रव्यं यथोक्तं भावनाविधिः” इति । यथोक्तं भावनाविधिरिति सप्तवारं
त्रिवारमेकवारं वा यावद्वारं भावनोक्ता तावद्वारं भावयेदित्यर्थः । अनुक्ते तु
सप्तवारं भावयन्ति वृद्धवैद्याः ।
गुटिकापरिभाषा—वटकाश्चाथ कथ्यन्ते तन्नाम गुटिका वटी ।
मोदको वटकः पिण्डी गुण्डी वर्तिस्तथोच्यते ॥ लेहवत्साध्यते
वह्नौ गुडो वा शर्कराऽथवा । गुग्गुलुर्वा, क्षिपेत्तत्र चूर्णं तन्निर्मिता
वटी ॥ कुर्याद्वह्निसिद्धेन क्वचिद्गुग्गुलुना वटीम् । द्रवेण मधुना
वाऽपि गुटिकां कारयेद्बुधः ॥ यथा लेहार्थं गुडादिकं साध्यते तथैवात्र
गुडः शर्करा गुग्गुलुर्वा पक्तव्यः । पाके सति चूर्णं प्रक्षिप्य वटकान् कुर्यादिति
भावः । गुडपाकलक्षणं तु गदनिग्रह एव प्रोक्तम् (प्रयोगखण्ड पृ. ११८) ।
गुडवद्गुग्गुलोः पाकः सबन्धस्तु विशेषतः । मण्डूराणां च सर्वेषां
पाकोऽयं परिकीर्तितः॥ पक्षान्तरमाह-क्वचिदिति; न सर्वत्र । अवह्निसिद्धेन
कुट्टितेन गुग्गुलुना वटकाः कार्याः । अथवा द्रवेण तोयक्षीरादिना, वा मधुना क्षौ-
द्रेण संप्लाव्य संमर्द्य वटिकां कारयेत् । वटिकायां गुडशर्करादीनां मानं—सिता
चतुर्गुणा देया वटीषु द्विगुणो गुडः। चूर्णाच्चूर्णसमः कार्यो
गुग्गुलुर्मधु तत्समम् । द्रवं च द्विगुणं देयं मोदकेषु भिषग्वरैः॥
एतच्च शर्करादीनां मानमनुक्तप्रमाणेषु प्रयोगेषु ज्ञेयम् ।
अवलेहपरिभाषा—क्वाथादीनां पुनःपाकाद्धनत्वं सा रसक्रिया ।
सोऽवलेहश्च लेहश्च तन्मात्रा स्यात्पलोन्मिता ॥ अनुक्ते सितादीनां
परिमाणमुच्यते—सिता चतुर्गुणा देया चूर्णाच्च द्विगुणो गुडः। द्रवं
चतुर्गुणं दद्यादिति सर्वत्र निश्चयः ॥ द्रवमिति क्षौद्रघृतादिकम् । चतुर्धा
खलु निष्पाद्यते लेहः । तत्र प्रथमः दार्व्यादिद्रव्याणां सामान्यक्वाथपरिभाषया
क्वाथं निष्पाद्य तं पुनर्वस्त्रगालितं यावद्धनं भवेत्तावत्पक्त्वा निष्पाद्यते, तस्य
निक्षेपतो 'रसक्रिया' इति नाम्ना प्रसिद्धिः । तथाहि—“गृहीत्वा क्वाथकल्पेन