गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 77, कुल 286 में से
संदर्भ में पढ़ेंगदनिग्रहः । ५७
शोषे सुकुमारतैलम् ।
मधुकस्य शतं दद्यात्काश्मर्याश्च तथाऽऽढकम् ॥२९५॥
परूषकाणां द्राक्षायाः खर्जूरौदनपाकयोः ।
मधूकपुष्पस्य तथा तथा मौञ्जातमाढकम् ॥ २९६ ॥
द्विद्रोणेऽपां विपक्तव्यं चतुर्थांशावशेषितम् ।
तस्मिन् कषाये पूते च पुनरग्नावधिश्रयेत् ॥ २९७ ॥
आर्द्रामलककाश्मर्यविदारीक्षुरसाढकम् ।
तैलाढकं च संयोज्य पचेत्क्षीरे चतुर्गुणे ॥ २९८ ॥
तस्मिंस्तथा पच्यमाने कल्कांश्चैमान् समावपेत् ।
पिप्पलीं शृङ्गवेरं च कदलीं च शतावरीम् ॥ २९९ ॥
बलां तालं कदम्बं च सूक्ष्मैलां पद्मबीजकम् ।
शृङ्गाटकं कसेरुं च जीवनीयानि यानि च ॥ ३०० ॥
द्विपलिकान् पृथग्दत्त्वा विपचेन्मृदुनाऽग्निना ।
तत्सिद्धं स्रावयित्वाशु शीतं क्षौद्रेण संसृजेत् ॥३०१॥
नस्ये चाभ्यञ्जने पाने प्रशस्ते बस्तिकर्मणि ।
वातव्याधिषु सर्वेषु क्षतक्षीणे शिरोग्रहे ॥ ३०२ ॥
पार्श्वशूले प्रमेहे च गुल्मे चार्शोभगन्दरे ।
वातभग्नाङ्गहीनानां कासे श्वासे च हृद्ग्रहे ॥ ३०३ ॥
ज्वरातिसारे ह्यरचौ कर्णनादे स्वरक्षये ।
सुकुमारमिदं तैलं बालवृद्धसुखावहम् ॥ ३०४ ॥
एतद्धि वृष्यं बल्यं च रक्तमांसविवर्धनम् ।
स्वरवर्णकरं चैव शोषिणाममृतोपमम् ॥ ३०५ ॥
प्रपाकस्यास्य तैलस्य सम्यक्सिद्धस्य यो भवेत् ।
उदश्विदि विमध्यार्थे(?) सोऽपि कृत्यकरो भवेत् ३०६
एकादश च षट् चैव शोषिणां य उपद्रवाः ।
सुकुमारं प्रशमयेन्मेघोऽग्निमिव वृष्टिमान् ॥ ३०७ ॥