गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 76, कुल 286 में से
संदर्भ में पढ़ें५६ आयुर्वेदियग्रन्थमाला। [तैलाधिकारः
छागलस्य तु मांसस्य द्वे तुले तत्र दापयेत् ।
एतत्सर्वं समालोड्य तोयद्रोणेषु पञ्चसु ॥ २८३ ॥
द्विद्रोणशेषं पूतं च तैलद्रोणेन संसृजेत् ।
पाठा मगधजा रास्ना सुषवी गोक्षुरं बला ॥ २८४ ॥
प्रियङ्गूर्द्वे हरिद्रे च मांसी चैला कुटन्नटम् ।
देवदारु वचा लोध्रं कुष्ठं व्याघ्रनखं शठी ॥ २८५ ॥
मञ्जिष्ठा मधुकं मुस्तं रोध्रं द्वे चापि सारिवे ।
सश्रीप्रियं चन्दनं च रक्तकं तैलपर्णिकम् ॥ २८६ ॥
समृणालत्वचं पत्रं पतङ्गं नीलमुत्पलम् ।
एषां द्विपलिकान् भागान् रम्भागर्भं समावपेत्॥२८७॥
दध्नो दद्याच्च त्रीन्द्रोणान् ततः सिद्धं निधापयेत् ।
शैरीषमिति विख्यातमेतत्तैलं क्षयापहम् ॥ २८८ ॥
प्रशस्तममृताकारं पानाभ्यञ्जनबस्तिषु ।
अपस्मारं तथोन्मादं शोषान् सोपद्रवानपि ॥ २८९ ॥
अङ्गमर्दमथो दाहं पाण्डुत्वं स्वरवैकृतम् ।
अर्दितं गृध्रसीं गुल्मान् कम्पं पक्षवधं तथा ॥ २९० ॥
हनुग्रहं खुडावातमूर्ध्ववातापतानकौ ।
मूकत्वं गद्गदत्वं च बाधिर्यं कर्णवेदनाम् ॥ २९१ ॥
उरौ जानुनि कुक्षौ च विसर्पं वातशोणितम् ।
हन्याद्गरुडबलोपेतो जीवेच्च शरदां शतम् ॥ २९२ ॥
प्रयोगादस्य तैलस्य न च रोगाः क्रमन्ति तम् ।
विषपीताश्च दुष्टाश्च भूतोपहतचेतसः ॥ २९३ ॥
ये पिबन्ति शिरीषाद्यं नीरुजस्ते भवन्ति हि ।
मूलकर्मविकाराणां भूतानां दंष्ट्रिणामपि ॥ २९४ ॥
अस्पृश्यं तद्गृहं यत्र तैलमेतद्विधीयते ।