सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 220, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 220

२०० आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे

शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्बलप्रदम् ।
अलक्ष्मीपापरोगघ्नं सर्वग्रहनिवारणम् ॥ ३० ॥
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च ।
उन्मादे द्वितीयं कल्याणं घृतम् ।
सारिवाद्वितयं पण्यौ नतं कुष्ठं निशाद्वयम् ॥ ३१ ॥
दाडिमं चन्दनं व्याघ्री निकुम्भा त्रिफलेन्द्रिका ।
तालीसं पद्मकं चैला मञ्जिष्ठोत्पलदारवः ॥ ३२ ॥
इभोषण विडङ्गानि प्रियङ्गुश्चाश्मभेदकः ।
यवानी जातिमुकुलं मुस्तकं कर्षसंमितम् ॥ ३३ ॥
कल्कैरेभिर्घृतप्रस्थं सिद्धं कल्याणकं स्मृतम् ।
रक्तपित्तज्वरोन्मादकासकण्डूविनाशनम् ॥ ३४ ॥
उन्मादे तृतीयं कल्याणकं घृतम् ।
धराविशालापत्रैलादेवदार्वे लवालुकैः । *
द्विसारिवाद्विरजनीद्विस्थिराफलिनीनतैः ॥ ३५ ॥
बृहतीकुष्ठमञ्जिष्ठानागकेशरदाडिमैः ।
वेल्लतालीशपत्रैलामालतीकुसुमोत्पलैः ॥ ३६ ॥
सदन्तिपद्मकहिमैः कर्षांशैः सर्पिषः पचेत् ।
प्रस्थं, भूतग्रहोन्मादकासापस्मारपापनुत् ॥ ३७ ॥
पाण्डुकण्डूविषे शोषे मेहे मोहे ज्वरे गरे ।
अरेतस्यप्रजसि वा देवोपहतचेतसि ॥ ३८ ॥
अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके ।
बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम् ॥ ३९ ॥
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च ।
उन्मादे महाकल्याणकं घृतम् ।
एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिम् ॥ ४० ॥
रसे तस्मिन्पचेत्सर्पिर्गृष्टिक्षीरं चतुर्गुणम् ।
वरीद्विमेदाकाकोलीकपिकच्छुविषाणिभिः ॥ ४१ ॥